Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 126
________________ आप्तपरीक्षा। १२१ वचनं हि तदभ्युपगम्यमानं स्वकारणं किंचिज्ज्ञत्वं साधयति तच्च सिध्यत्स्वविरुद्धं निःशेषज्ञानं निवर्तयतीति विरुद्धकार्योपलब्धिः शीताभावे साध्ये धूमवद्विरुद्धव्याप्तोपलब्धिर्वा सर्वज्ञत्वेन हि विरुद्धमप्तर्वज्ञत्वं तेन च व्याप्तं वक्तृत्वमिति । एतेन पुरुषत्वोपलब्धिविरुद्धव्याप्तोपलब्धिरुक्ता सर्वज्ञत्वेन हि विरुद्धमसर्वज्ञत्वं तेन च व्याप्तं पुरुषत्वमिति । तथाच सर्वज्ञो यदि वक्ताऽभ्युपगम्यते यदि वा पुरुषस्तथापि वक्तृत्वपुरुषात्त्वाभ्यां तदभावः सिध्यतीति केचिदाचक्षते?" तदेतदप्यनुमानद्वितयं त्रितयं वा परैः प्रोक्तं न सर्वज्ञस्य बाधकमविनाभावनियमनिश्चयस्यासंभवात् । हेतोर्विपक्षे बाधकप्रमाणाभावादसर्वज्ञे हि साध्ये तद्विपक्षःसर्वज्ञ एव तत्र च प्रकृतस्य हेतोर्न बाधकमस्ति । विरोधो बाधक इति चेन्न सर्वज्ञस्य वक्तृत्वेन विरोधासिद्धेः । तस्य तेन विरोधो हि सामान्यतो विशेषतो वा स्यात् ? न तावत्सामान्यतो वक्तृत्वेन सर्वज्ञत्व विरुध्यते, ज्ञानप्रकर्षे वक्तृत्वस्यापकर्षप्रसंगात् । यद्धि येन विरुद्धं तत्प्रकर्षे तस्यापकों दृष्टो यथा पावकस्य प्रकर्षे तद्विरोधिनो हिमस्य । नच ज्ञानप्रकर्षे वक्तृत्वस्यापकों दृष्टस्तस्मान्न तत्तद्विरुद्धं वक्ता च स्यात्सर्वज्ञश्च स्यादिति संदिग्धविपक्षव्यावृत्तिको हेतुर्न सर्वज्ञाभावं साधयेत् । यदि पुनर्वक्तृत्वविशेषेण सर्वज्ञस्य विरोधोऽभिधीयते, तदा हेतुरसिद्धएव । नहि परमात्मनो युक्तिशास्त्रविरुद्धो वक्तत्वविशेषः संभवति य सर्वज्ञविरोधी, तस्य युक्तिशास्राविरुद्धार्थवक्तृत्वनिश्चयात् । नच युक्तिशास्त्राविरोधिवक्तृत्वं ज्ञानातिशयमंतरेण दृष्टं ततः सकलार्थविषयं वक्तृत्वं युक्तिशास्त्राविरोधि सिद्धयत्सकलार्थवेदित्वमेव साधयेत् इति वक्तृत्वविशेषो विरुद्धो हेतुः, साध्यविपरीतसाधनात् । तथा पुरुषत्वमपि सामान्यतः सर्वज्ञाभावसाधनायोपादीयमानं संदिग्ध

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146