Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 125
________________ १२० श्रीविद्यामंदिस्वामिविरचिता पौरुषेयोऽप्यसर्वज्ञप्रणीतो नास्य बाधकः । तत्र तस्याप्रमाणत्वाद्धर्मादाविव तत्त्वतः ॥१०३॥ अभावोऽपि प्रमाणं ते निषेध्याधारवेदने । निषेध्यस्मरणे च स्यान्नास्तिता ज्ञानमंजक्षा ॥१०४॥ नचाशेषजगज्ज्ञानं कुतश्चिदुपपद्यते । नापि सर्वज्ञसंवित्तिः पूर्वं तत्स्मरणं कुतः॥ १०५॥ येनाशेषजगत्यस्य सर्वज्ञस्य निषेधनं । परोपगमतस्तस्य निषेधे स्वेष्टबाधनं ॥ १०६ ॥ मिथ्यैकांतनिषेधस्तु युक्तोऽनेकांतसिद्धितः। नासर्वज्ञजगत्सिद्धेः सर्वज्ञप्रतिषेधनं ॥ १०७॥ एवं सिद्धः सुनिर्णीतासंभवद्बाधकत्वतः । सुखवद्विश्वतत्त्वज्ञः सोर्हन्नेव भवानिह ॥ १०८ ॥ स कर्मभूभृतां भेत्ता तद्विपक्षप्रकर्षतः। यथा शीतस्य भेत्तेहकश्चिदुष्णप्रकर्षतः ॥१०९ ॥ यस्य धर्मादिसूक्ष्माद्यर्थाः प्रत्यक्षा भगवतोऽर्हतः सर्वज्ञस्यानुमानसामर्थ्यात्तस्य बाधकं प्रमाणं प्रत्यक्षादीनामन्यतमं भवेत् , गत्यंतराभावात् । तत्र न तावदस्मदादिप्रत्यक्षं सर्वत्र सर्वदा सर्वज्ञस्य बाधकं तेन त्रिकालभुवनत्रयस्य सर्वज्ञरहितस्यापरिच्छेदात् तत्परिच्छेदे तस्यास्मदादिप्रत्यक्ष. त्वविरोधात् । नापि योगिप्रत्यक्षं तद्बाधकं तस्य तत्साधकत्वात्सर्वज्ञाभाववादिनां तदनभ्युपगमाच्च । नाप्यनुमानोपमानार्थापत्त्यागमानां साम र्थ्यात्सर्वज्ञस्याभावसिद्धिः तेषां सद्विषयत्वात् प्रत्यक्षवत् । " स्यान्मतं नाहनिःशेषतत्त्ववेदी वक्तृत्वात्पुरुषत्वात् ब्रह्मादिवदित्याद्यनुमानात्सर्वज्ञत्वनिराकृतिः सिध्यत्येव सर्वज्ञविरुद्धस्यासर्वज्ञस्य कार्य

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146