Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 123
________________ ११८ श्रीविद्यानंदिस्वामिविरचिता ..............................." पर्यायविषयत्वात् यत्तु न मुख्यं तन्न तथा यथाऽस्मदादिप्रत्यक्षं, सर्वद्रव्यपर्यायविषयं चाहत्प्रत्यक्षं तस्मान्मुख्यं । नचेदमसिद्धं साधनं। तथाहिसर्वद्रव्यपर्यायविषयमहत्प्रत्यक्ष क्रमातिक्रांतत्वात् क्रमातिक्रांतं तन्मनोऽक्षानपेक्षत्वान्मनोऽक्षानपेक्षतत्सकलकलंकविकलत्वात् सकलाप्रशमाज्ञानादर्शनावीर्यलक्षणकलंकविकलं तत् , प्रक्षीणकारणमोहज्ञानदर्शनावरणवीयोतरायत्वात् । यन्नेत्थं तन्नैवं यथाऽस्मदादिप्रत्यक्षं । इत्थं च तत्तस्मादेवमिति हेतुसिद्धिः । ननु च प्रक्षीणमोहादिचतुष्टयत्वं कुतोऽर्हतः सिद्धं ? तत्कारणप्रतिपक्षप्रकर्षदर्शनात् । तथाहि-मोहादिचतुष्टयं क्वचिदत्यंत प्रक्षीयते तत्कारणप्रतिपक्षप्रकर्षसद्भावात् । यत्र यत्कारणप्रतिपक्षप्रकर्षसद्भावस्तत्र तदत्यंत प्रक्षीयमाणं दृष्टं यथा चक्षुषि तिमिरं तथाच केवलिनि मोहा दिचतुष्टयस्य कारणप्रतिपक्षप्रकर्षसद्भावः तस्मादत्यंत प्रक्षीयते । किं पुनः कारणं मोहादिचतुष्टयस्येति चेदुच्यते । मिथ्यादर्शनमिथ्याज्ञानमिथ्याचारित्रत्रयं, तस्य सद्भाव एव भावात् । यस्य यद्भाव एव भावस्तस्य तत्कारणं यथा श्लेष्मविशेषस्तिमिरस्य, मिथ्यादर्शनादित्रयसद्भाव एव भावश्च मोहादिचतुष्टयस्य तस्मात्तत्कारणं । कः पुनस्तस्य प्रतिपक्ष इति चेत् सम्यग्दर्शनादित्रयं, तत्प्रकर्षे तदपकर्षदर्शनात् । यस्य प्रकर्षे यदपकर्षस्तस्य स प्रतिपक्षो यथा शीतस्याग्निः । सम्यग्दशनादित्रयप्रकर्षेऽपकर्षश्च मिथ्यादर्शनादित्रयस्य तस्मात्तस्य प्रतिपक्षः । कुतः पुनस्तत्प्रतिपक्षस्य सम्यग्दर्शनादित्रयस्य प्रकर्षपर्यंतगमनं ? प्रकृष्यमाणत्वात् यत्प्रकृष्यमाण तत्वचित्प्रकर्षपर्यंतं गच्छति यथा परिमाणमापरमाणोः प्रकृष्यमाणं नभसि, प्रकृष्यमाणं च सम्यग्दर्शनादित्रयं तस्मात्वचित्प्रकर्षपर्यंतं गच्छति, यत्र यत्प्रकर्षगमनं तत्र तत्प्रतिपक्षमिथ्यादर्शनादित्रयमत्यंतं प्रक्षीयते, यत्र यत्प्रक्षयः तत्र तत्कार्यस्य मोहादिकर्मचतुष्टयात्यंतिकः क्षय इति तत्

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146