Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 122
________________ आप्तपरीक्षा। ११७ दशामासादयति तदपि स्वकीयमनोरथमात्र, क्वचिदभ्याससहस्रेणापि ज्ञानस्य स्वविषयपरिच्छित्तौ विषयांतरपरच्छित्तेरनुपपत्तेः । नहि गगनतलोत्प्लवनमभ्यस्यतोऽपि कस्यचित्पुरुषस्य योजनशतसहस्रोत्प्लवनं लोकांतोत्प्लवनं वा संभाव्यते तस्य दशहस्तांतरोत्प्लवनमात्रदर्शनात्तदप्युक्तं " दशहस्तांतरं व्योम्नि यो नामोत्प्लुत्य गच्छति । न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि "। इत्यत्राभिधीयते यत्तावदुक्तं विवादाध्यासितं च प्रत्यक्षं न धादि सक्ष्माद्यर्थविषयं प्रत्यक्षशब्दवाच्यत्वादस्मदादिप्रत्यक्षवदिति तत्र किमिदं प्रत्यक्ष, सत्संप्रयोगे पुरुषस्येंद्रियाणां बुद्धिजन्मप्रत्यक्षमिति चेत्तर्हि विवादाध्यासितस्य प्रत्यक्षस्यैतत्प्रत्यक्षविलक्षणत्वात् प्रत्यक्षशब्दवाच्यत्वेऽपि न धर्मादिसूक्ष्माद्यविषयत्वाभावःसिध्यति यादृशं हींद्रियप्रत्यक्षप्रत्यक्षशब्दवाच्यं धर्माद्यर्थासाक्षात्कारि दृष्टं तादृशमेव देशांतरे कालांतरे च विवादाध्यासितं प्रत्यक्ष तथा साधयितुं युक्तं तथाविधप्रत्यक्षस्यैव धर्माद्यविषयत्वस्य साधने प्रत्यक्षशब्दवाच्यस्य हेतोर्गमकत्वोपपत्तेः तस्यतेनाविनाभावनियमनिश्चयात् न पुनस्तद्विलक्षणस्याहत्प्रत्यक्षस्य धर्मादिसूक्ष्माद्यर्थविषयत्वाभावः साधयितुं शक्यस्तस्य तदगमकत्वादविनाभावनियमनिश्चयानुपपत्तेः शब्दसाम्येऽप्यर्थभेदात्, कथमन्यथा विषाणिनी वाग् गोशब्दवाच्यत्वात्पशुवदित्यनुमानं गमकं न स्यात् । यदि पुनर्गोशब्दवाच्यत्वस्याविशेषेऽपि पशोरेव विषाणित्वं ततः सिध्यति तत्रैव तत्साधने तस्य गमकत्वान्न पुनर्वागादौ तस्य तद्विलक्षणत्वादितिमतं तदा प्रत्यक्षशब्दवाच्यत्वाविशेषेऽपि नाहत्प्रत्यक्षस्य सूक्ष्माद्यर्थविषयत्वासिद्धिरर्थभेदात् । अक्ष्णोति व्याप्नोति जानातीत्यक्षः आत्मा तमेव प्रतिगतं प्रत्यक्षमिति हि भिन्नार्थमेवेंद्रियप्रत्यक्षात् तस्याशेषार्थगोचरत्वात् मुख्यप्रत्यक्षत्वसिद्धेः । तथाहि-विवादाध्यासितमहत्प्रत्यक्षं मुख्यं निःशेषद्रव्य

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146