Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
११४
श्रीविद्यानंदिस्वामिविरचिता
बुद्धिमिति भाष्यकारशबरवचनविरोधात् फलज्ञानं च प्रमितिलक्षणं स्वसंवेदनप्रत्यक्षमिच्छतः कार्यानुमेयं च कथमप्रमेयं सिद्धयेत् । एतेन करणज्ञानस्य फलज्ञानस्य च परोक्षत्वमिच्छतोऽपि भट्टस्यानुमेयत्वं सिद्धं बोद्धव्यं । घटाद्यर्थप्राकट्येनानुमीयमानस्य सर्वस्य ज्ञानस्य कथंचित्प्रमे यत्वसिद्धः । ततो नांतरिततत्वेषु धर्मिषु प्रमेयत्वं साधनमसिद्धं वादिन इव प्रतिवादिनापि कथंचित्तत्र प्रमेयत्वप्रसिद्धेः । संदिग्धव्यतिरेकमप्येतन्न भवतीत्याह
यन्नार्हतःसमक्षं तन्नप्रमेयं बहिर्गतः। मिथ्यैकान्तो यथेत्येवं व्यतिरेकोऽपि निश्चितः॥ ९४॥ मिथ्र्यकांतज्ञानानि हि निःशेषाण्यपि परमागमानुमानाभ्यामस्मदादीनां प्रमेयाणि च प्रत्यक्षाणि चाहत इति न विपक्षतां भजते तद्विषयास्तु परैरभिमन्यमानाः सर्वथैकांता निरन्वयक्षणिकत्वादयो नाहत्प्रत्यक्षा इति ते विपक्षा एव नच ते कुतश्चित्प्रमाणात्प्रमीयंत इति न प्रमेयास्तेषामसत्त्वात् । ततो ये नार्हतः प्रत्यक्षास्ते न प्रमेया यथा सर्वथैकांतज्ञानविषया इति साध्यव्यावृत्तौ साधनव्यावृत्तिनिश्चयानिश्चितव्यतिरेकं प्रमेयत्वं समर्थितं ततो भवत्येव साध्यसिद्धिरित्याह
सुनिश्चितान्वयाद्धेतोः प्रसिद्धव्यतिरेकतः। ज्ञाताईन् विश्वतत्त्वानामेवं सिध्येदबाधितः ॥९५॥
"ननु च सूक्ष्मांतरितदूरार्थानां विश्वतत्त्वानां साक्षात्कर्ताऽर्हन्न सिद्धयत्येवास्माद्नुमानात् , पक्षस्य प्रमाणबाधित्वाद्धेतोश्च बाधितविषयत्वात् । तथाहि-देशकालस्वभावांतरितार्था धर्माधर्मादयोऽर्हतः प्रत्यक्षा इति पक्षः स चानुमानेन बाध्यते, धर्मादयो न कस्यचित्प्रत्यक्षाः शश्वदत्यंतपरोक्षत्वात् ये तु कस्यचि प्रत्यक्षास्ते नात्यंतपरोक्षाः यथा घटादयोऽर्थाः

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146