Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 116
________________ आप्तपरीक्षा । १११ विरोधाभावात् । तद्विरोधे क्वचिज्जैमिन्यादिप्रत्यक्षविरोधापत्तेः । ननु च संवृत्त्यांतरिततत्वान्यर्हतः प्रत्यक्षाणीति साधने सिद्धसाधनमेव निपुणप्रज्ञे तथोपचारप्रवृत्तेर निवारणादित्यपि नाशंकनीयमंजसेति वचनात् । परमार्थ - तो ह्यंतरिततत्त्वानि प्रत्यक्षाण्यर्हतः साध्यते न पुनरुपचारतो यतः सिद्धसाधनमनुमन्यते । तथापि हेतोर्विपक्षवृत्तेरनैकांतिकत्वमित्याशंकायामिदमाह - हेतोर्न व्यभिचारोऽत्र दूरार्थैमंदरादिभिः । सूक्ष्मैर्वा परमाण्वाद्यैस्तेषां पक्षीकृतत्वतः ॥ ८८ ॥ नहि कानिचिद्देशांतरितानि कालांतरितानि वा तत्वानि पक्षबहिर्भूतानि संति यतस्तत्र वर्तमानः प्रमेयत्वादिति हेतुर्व्यभिचारी स्यात् तादृशां सर्वेषां पक्षीकरणात् । तथाहि तत्त्वान्यंतरितानीह देशकालस्वभावतः । धर्मादीनि हि साध्यते प्रत्यक्षाणि जिनेशिनः ॥ ८९ ॥ यथैवहि धर्माधर्मतत्त्वानि कानिचिद्देशांतरितानि देशांतरित पुरुषाश्रयस्वात् । कानिचित्कालांतरितानि कालांतरितप्राणिगणाधिकरणत्वात् । कानिचित्स्वभावांतरितानि देशकालाव्यवहितानामपि तेषां स्वभावतोऽतींद्रियत्वात् । तथा हिमवन्मंदरमकराकरादीन्यपि देशांतरितानि नष्टानुत्पन्नानं तपर्यायतत्त्वानि च कालांतरितानि, स्वभावांतरितानि च परमाण्वादीनि, जिनेश्वरस्य प्रत्यक्षाणि साध्यते न च पक्षीकृतैरेव व्यभिचारोद्भावनं युक्तं सर्वस्यानुमानस्य व्यभिचारित्वप्रसंगात् । ननु माभूद्व्यभिचारी हेतुः दृष्टांतस्तु साध्यविकल इत्याशंकामपहर्तुमाह - न चास्माहरूसमक्षाणामेव महत्समक्षता । न सिध्येदिति मंतव्यमविवादाद्वयोरपि ॥ ९० ॥

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146