Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 108
________________ १०३ आप्तपरीक्षा । लविप्रकृष्टानप्यर्थान् विकल्पबुद्धौ प्रतिभासमानान् स्वयमभ्युपगमयन् स्वयंप्रकाशमानत्वं नाभ्युपैतीति किमपि महाद्भुतं ? तथाभ्युपगमे च सर्वस्य प्रतिभासमात्रांतः प्रविष्टत्वसिद्धेः पुरुषाद्वैतसिद्धिरेव स्यात् नपुनस्तद्वहिर्भूतसंवेदनाद्वैतसिद्धिः। माभून्निरंशसंवेदनाद्वैतं चित्राद्वैतं तुस्यात् चित्राद्वैतस्य व्यवस्थापनात् । कालत्रयत्रिलोकवर्ति पदार्थाकारासंविच्चित्राप्येका शश्वदशक्यविवेचनत्वात् सर्वस्य वादिनस्तत एवक्वचिदेकत्वव्यवस्थापनात् अन्यथा कस्यचिदेकत्वेनाभिमतस्याप्येकत्वासिद्धिरितिचेन्न एवमपि परमब्रह्मण एव प्रसिद्धेः सकलदेशकालाकारव्यापिनः संविन्मात्रस्यैव परम - ह्मत्ववचनात् । नचैकक्षणस्थायिनी चित्रासंवित् चित्राद्वैतमिति साधयितुं शक्यते तस्याः कार्यकारणभूतचित्र संविन्नांतरीयत्वाच्चित्रद्वैतप्रसंगात्तत्कार्यकारणचित्रसंविदोऽनभ्युपगमे सदहेतुकत्वान्नित्यत्वसिद्धेः कथं न चित्राद्वैतमेव ब्रह्माद्वैतमिति न संवेदनाद्वैतवच्चित्राद्वैतमपि सौगतस्य व्यवतिष्ठते सर्वथा शून्यं तु तत्वमसंवेद्यमानं न व्यवतिष्ठते । संवेद्यमानं तु सर्वत्र सर्वथा सर्वदा परमब्रह्मणो नातिरिच्यते तत्राक्षेपसमाधानानां परमब्रह्मसाधनानुकूलत्वात् । ततो न सुगतस्तत्वतः संवृत्या वा विश्वतत्वज्ञः संभवतीति न निर्वाणमार्गस्य प्रतिपादकः स्यात् । "परमपुरुष एव विश्वतत्वज्ञः श्रेयोमार्गस्य प्रणेता व्यवतिष्ठतां तस्योक्तन्यायेन साधनात् इत्यपरः " सोऽपि न विचारसहः । पुरुषोत्तमस्यापि यथा प्रतिपादनं विचार्यमाणस्या योगात् । प्रतिभासमात्रं चिद्रूपं परमब्रह्मोक्तं तच्च यथा पारमार्थिकं देशकालाकाराणां भेदेऽपि व्यभिचाराभावात् तत्प्रतिभासविशेषाणामेव व्यभिचारादव्यभिचारित्वलक्षणत्वात्तस्येति तच्च विचार्यते । यदेतत्प्रतिभासमात्रं तत् सकलप्रतिभासविशेषरहितं तत्सहितं वा स्यात् ? प्रथमपक्षे तदसिद्धमेव सकलप्रतिभासविशेषरहितस्य प्रतिभासमात्रस्यानुभवाभावात् । केन

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146