Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 107
________________ १०२ श्रीविद्यानंदिस्वामिविरचिता संवृत्याभिधानात् परमार्थतस्तु बुद्धिः स्वयं प्रकाशते चकास्तीत्येवोच्यते न पुनः स्वरूपं गृह्णाति ग्राह्यग्राहकवैधुर्य च स्वरूपादव्यतिरिक्तं गृह्णाति जानातीत्यभिधीयते निरंशसंवेदनाद्वैते तथाभिधानविरोधादिति । तदपि न पुरुषाद्वैतवादिनः प्रतिकूलं स्वयं प्रकाशमानस्य संवेदनस्यैव परमपुरुषत्वात् । नहि तत्संवेदनं पूर्वापरकालव्यवच्छिन्नं संतानांतरबहिरर्थव्यावृत्तं च प्रतिभासते यतः पूर्वापरक्षणसंतानांतरबहिरानामभावः सिद्धयेत्। तेषां संवेदनेनाग्रहणादभाव इतिचेत् स्वसंवेदनस्यापि संवेदनांतरेणाग्रहणादभावोऽस्तु । तस्य स्वयं प्रकाशनान्नाभाव इतिचेत् पूर्वोत्तरस्वसंवित्क्षणानां संतानांतरसंवेदनानांच बहिरर्थानामिव स्वयं प्रकाशमानानां कथमभावः साध्यते । कथं तेषां स्वयं प्रकाशमानत्वं ज्ञायत इतिचेत् स्वयमप्रकाशमानत्वं तेषां कथं साध्यत इति समानः पर्यनुयोगः । स्वसंवेदन स्वरूपस्य प्रकाशमानत्वमेव तेषामप्रकाशमानत्वमितिचेत्तर्हि तेषां प्रकाशमानत्वमेव स्वसंवेदनस्यैवाप्रकाशमानत्वं किं न स्यात् ? स्वसंवेदनस्य स्वयमप्रकाशमानत्वे परैः प्रकाशमानत्वाभावः साधयितुमशक्यः प्रतिषेधस्य विधेर्विषयत्वात् सर्वत्र सर्वदा सर्वथाऽप्यसतः प्रतिषेधविरोधात् इतिचेत्तर्हि स्वसंवेदनात्परेषां प्रकाशमानत्वाभावे कथं तत्प्रतिषेधः साध्यत इति समानश्चर्चः । विकल्पप्रतिभासिनां तेषां स्वसंवेदनावभासित्वं प्रतिषिध्यत इतिचेन्न विकल्पावभासित्वादेव स्वयं प्रकाशमानत्वसिद्धेः । तथाहि-यद्यद्विकल्पप्रतिभासि तत्तत्स्वयं प्रकाशते यथा विकल्पस्वरूपं तथा च स्वसंवेदनपूर्वोत्तरक्षणाः संतानांतरसंवेदनानि बहिरर्थाश्चेति स्वयं प्रकाशमानत्वसिद्धिः । शशविषाणादिभिर्विनष्टानुत्पन्नैश्च भावैर्विकल्पावभासिभिर्व्यभिचार इति चेन्न तेषामपि प्रतिभासमात्रांतर्भूतानां स्वयं प्रकाशमानत्वसिद्धेः अन्यथा विकल्पावभासित्वायोगात् । सोऽयं सौगतः सकलदेशका

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146