Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
श्रीविद्यानंदिस्वामिविरचिता
- बोध्यनांतरीयको बोध इति चेन्न तत्रापि बोध्यसामान्यसद्भाव एव बोधोपपत्तेः । न हि संशयस्वप्नादिबोधोऽपि बोध्यसामान्यं व्यभिचरति बोध्यविशेषस्यैव तस्य व्यभिचाराद्धांतत्वसिद्धेः । न च सर्वस्य बोध्यस्य स्वयंप्रकाशमात्रं सिद्धं स्वयं प्रकाशमानबोधविषयतया तस्य तथोपचारास्वयं प्रकाशमानांशुमालिप्रभाभारविषयभूतानां लोकानां प्रकाशमानोपचार - वत् ततो यथा लोकानां प्रकाश्यानामभावे न तानंशुमाली ज्वलयितुमलं तथा बोध्यानां नीलसुखादीनामभावे न बोधमयप्रकाशविशदों ऽतर्यामी तान् प्रकाशयितुमश इति प्रतिपत्तव्यं । तथाचांतः प्रकाशमानानं पर्यायैकपुरुषद्रव्यवत्, बहिः प्रकाश्यानतपर्यायैकाचेतनद्रव्यमपि प्रतिज्ञातव्यमिति चेतनाचेतनद्रव्यद्वैत सिद्धेः न पुरुषाद्वैतसिद्धिः संवेदनाद्वैतसिद्धिवत् । चेतनद्रव्यस्य च सामान्यादेशादेकत्वेऽपि विशेषादेशादनेकत्वं संसारिमुक्तविकल्पात् । सर्वथैकत्वे सकृत्तद्विरोधात् । अचेतनद्रव्यस्य सर्वथैकत्वे मूर्त मूर्तद्रव्यविरोधवत् । मूर्तिमदचेतनद्रव्यं हि पुद्गलद्रव्यमने कभेदं परमाणुस्कंधविकल्पात् पृथिव्यादिविकल्पाच्च धर्माधर्माकाशकालविकल्पममूर्तिमद्द्रव्यं चतुर्धा चतुर्विधकार्यविशेषानुमेयमिति द्रव्यस्य षड्विवस्य प्रमाणबलात्तत्वार्थालंकारेः समर्थनात् । तत्पर्यायाणां चातीतानागतवर्तमानानंतार्थव्यंजनविकल्पानां सामान्यतः सुनिश्चितासंभवद्बाधकप्रमाणात्परमागमात्प्रसिद्धेः । साक्षात्केवलज्ञानविषयत्वाच्च न द्रव्यैकांतसिद्धिः पर्यायैकांतसिद्धिर्वा । नचैतेषां सर्वद्रव्यपर्यायाणां केवलज्ञानं प्रतिभासमानानामपि प्रतिभासमात्रांतः प्रवेशः सिध्येत् विषयविषयिभेदाभावे सर्वाभावप्रसंगात् निर्विषयस्य प्रतिभासस्यासंभवान्निः प्रतिभासस्य विषयस्य वाऽव्यवस्थानात् । ततश्चाद्वैतैकांते कारकाणां कर्मादीनां क्रियाणां परिस्पंदलक्षणानां “धात्वर्थ लक्षणानां च दृष्ट भेदो विरुध्यत एव तस्य प्रतिभासमानस्यापि
१०८

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146