Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 112
________________ आप्तपरीक्षा। १०७ प्रतिभाससामान्य तस्य सर्वत्र तदितिचेन्न भाससामान्यमसत्यं विसंवादकत्वात् स्वप्नादिप्रतिमाससामान्यवदिति । न हि स्वप्नादिप्रतिभासविशेषा एव विसंवादिनो न पुनः प्रतिभाससामान्य सद्व्यापकमिति वक्तुं युक्तं, शशविषाणगगनकुसुमकूर्मरोमादीनामसत्वेऽपि तद्व्यापकसामान्यस्य सत्त्वप्रसंगात् । कथमसतां व्यापकं किचिंत्सत्स्यादितिचेत्कथमसत्यानां प्रतिभासविशेषाणां व्यापकं प्रतिभाससामान्यं सत्य. मिति समो वितर्कः । तस्य सर्वत्र सर्वदा सर्वथा वाऽविच्छेदात् सत्यं तदितिचेन्न एवं देशकालाकारविशिष्टस्यैव तस्य सत्यत्वसिद्धेः । सर्वदेशविशेषरहितस्य सर्वकालविशेषरहितस्य च सर्वाकारविशेषरहितस्यैव सर्वत्र सर्वथा सर्वदेति विशेषयितुमशक्तेः । तथा च प्रतिभाससामान्य सकलदेशकालाकारविशेषविशिष्टमभ्युपगच्छन्नेव वेदांतवादी स्वयमेकद्रव्यमनंतपर्यायं पारमार्थिकमितिप्रतिपत्तुमर्हति प्रमाणबलायातत्वात् , तदेवास्तु परमपुरुषस्यैव बोधमयप्रकाशविशदस्य मोहान्धकारापहस्यांतयामिनः सुनितित्वात् तत्र संशयानां प्रतिघातात्सकललोकोद्योतनसमर्थस्य तेजोनिधेरैशुमालिनोऽपि तस्मिन् सत्येव प्रतिभासनात्, असति चाप्रतिभासनादिति कश्चित् तदुक्तं " यो लोकान् ज्वलयत्यनल्पमहिमा सोऽप्येष तेजोनिधिर्यस्मिन्सत्यवभाति नासति पुनर्देवोंऽशुमाली स्वयं । तस्मिन्बोधमयप्रकाशविशदे मोहांधकारापहे येऽन्तर्यामिनि पूरुषे प्रतिहताः संशेरते ते हताः " इति । तदपि न पुरषाद्वैतव्यवस्थापनपरमाभासते तस्यांऽतयामिनः पुरुषस्य बोधमयप्रकाशविशदस्यैव बोध्यमयप्रकाश्यस्यासंभवानुपपत्तेः । यदि पुनः सर्व बोध्यं बोधमयमेव प्रकाशमानत्वाबोधस्वात्मवदिति मन्यते तदा बोधस्यापि बोध्यमयत्वापत्तिरिति पुरुषाद्वैतमिच्छतो बोध्याद्वैतसिद्धिः।। बोधाभावे कथं बोध्यसिद्धिरिति चेद्बोध्याभावेऽपि बोधसिद्धिः कथं है बोध्यनांतरीयकत्वाद्बोधस्य । स्वप्नेंद्रनालादिषु बोध्याभावेऽपि बोधसिद्धेर्न

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146