Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 85
________________ श्रीविद्यानंदिस्वामिविरचिता तदप्यनुपपन्नं । तथोपचारादेव सत्प्रत्ययप्रसंगात् पुरुषे यष्टिसंबंधाद्यष्टि रिति प्रत्ययवत् । यदि पुनर्यष्टिपुरुषयोः संयोगात्पुरुषो यष्टिरिति ज्ञानमुपचरितं युक्तं न पुनर्द्रव्यादौ सदिति ज्ञानं तत्र सत्वस्य समवायादिति मतं, तदवयवेष्ववयविनः समवायादवयविव्यपदेशः स्यात् न पुनरवयवव्यपदेशः । द्रव्ये च गुणस्य समवायाद्गुणव्यपदेशोऽस्तु क्रियासम - वायात्क्रियान्यपदेशस्तथा च न कदाचिदवयविष्ववयविप्रत्ययः गुणिनि गुणिप्रत्ययः क्रियावतिक्रियावत्प्रत्ययश्चोपपद्येतेति महान् व्याघातः पदार्थोंतरभूतसत्तासमवायवादिनामनुषज्येत तदेवं स्वतः सत् एवेश्वरस्य सत्वसमवायोऽभ्युपगंतव्यः कथंचित्सदात्मतया परिणतस्यैव सत्वसमवायस्योपपत्तेः । अन्यथा प्रमाणेन बाधनात् स्वयं सतः सत्वसमवायेऽस्य च प्रमाणप्रसिद्धेः । स्वयं द्रव्यात्मना परिणतस्य द्रव्यत्वसमवायः । स्वयमात्मरूपतया परिणतस्यात्मत्वसमवायः । स्वयं ज्ञानात्मना परिणतस्य महेश्वरस्य ज्ञानसमवाय इति युक्तमुत्पश्यामः स्वयं नीलात्मनोनीलसमवायवत् न हिकश्चिदतथापरिणतस्तथात्वसमवाय भागुपलभ्यतेऽतिप्रसंगात् ततः प्रमाणबलान्महेश्वरस्य सत्वद्रव्यत्वात्मत्ववत् स्वयं ज्ञत्वप्रसिद्धेर्ज्ञानस्य समवायात् तस्य ज्ञत्वपरिकल्पनं न कंचिदर्थं पुष्णाति । ज्ञव्यवहारं पुष्णातीति चेन्न, ज्ञे प्रसिद्धे ज्ञव्यवहारस्यापि स्वतः प्रसिद्धेः । यस्य हि योऽर्थः प्रसिद्धोः स तत्र तद्व्यवहारं प्रवर्तयन्नुपलब्धो यथा प्रसिद्धाकाशात्माआकाशे तद्व्यवहारप्रसिद्धो, ज्ञश्च कश्चित्तस्मात् ज्ञे तद्वयवहारं प्रवर्तयति । यदि तु प्रसिद्धेऽपि ज्ञे ज्ञत्वसमवायपरिकल्पनमज्ञव्यवच्छेदार्थमिष्यते तदाप्रसिद्धेऽप्याकाशेऽनाकाशव्यवच्छेदार्थमाकाशत्वसमवायपरिकल्पनमिष्यतां । तस्यैकत्वादाकाशत्वासंभवात्स्वरूप निश्चयादवाकाशव्यवहारप्रवृत्तौ, ज्ञेऽपीश्वरे स्वरूपनिश्चयादेव ज्ञव्यवहारोऽस्तु किं तत्र ज्ञान ८०

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146