Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 90
________________ आप्तपरीक्षा। प्रधानं मोक्षमार्गस्य प्रणेतृ स्तूयते पुमान् । मुमुक्षुभिरितिबूयात्कोऽन्योऽकिंचित्करात्मनः ॥८॥ "प्रधानमेवास्तु मोक्षमार्गस्योपदेशकं ज्ञत्वात् । यस्तु न मोक्षमार्गस्योपदेशकः स न ज्ञो दृष्टो यथा घटादिः मुक्तात्माच, ज्ञं च प्रधानं तस्मान्मोक्षमार्गस्योपदेशकं । न च कपिलादिपुरुषसंसर्गभाजः प्रधानस्य ज्ञत्वमसिद्धं विश्ववेदित्वात् । यस्तु न ज्ञः स न विश्ववेदी यथा घटादिः । विश्ववेदि च प्रधानं ततो ज्ञमेव च, विश्ववेदि च तत्सिद्धं सकलकर्मभूभृद्भतृत्वात् । तथाहि-कपिलात्मना संस्पृष्टं प्रधानं विश्ववेदि कर्मराशिविनाशित्वात् । यत्तु न विश्ववेदि तन्न कर्मराशिविनाशीष्टं दृष्टं वा यथा व्योमादि । कर्मराशिविनाशि च प्रधानं तस्माद्विश्ववेदि । न वाऽस्य कर्मराशिविनाशित्वमसिद्धं रजस्तमोविवर्ताशुद्धकर्मनिकरस्य संप्रज्ञातयोगबलात्प्रध्वंससिद्धेः सत्त्वप्रकर्षाच्च संप्रज्ञातयोगघटनात् । तत्र सर्वज्ञवादिनां विवादाभावात् इति सांख्यानां दर्शनं " तदप्यसंभाव्यमेव । स्वयमेव प्रधानस्याचेतनत्वाभ्युपगमात् । तथाहि-न प्रधानं कर्मराशिविनाशि स्वयमचेतनत्वात् । यत्स्वयमचेतनं तन्न कर्मराशिविनाशि दृष्टं यथा वस्त्रादि । स्वयमचेतनं च प्रधानं तस्मान्न कर्मराशिविनाशि । चेतनसंसर्गात्प्रधानस्य चेतनत्वोपगमादसिद्धसाधनमिति चेन्न, स्वयमिति विशेषणात् । स्वयं हि प्रधानमचेतनमेव चेतनसंसर्गात्तपचारादेव तच्चेतनमुच्यते स्वरूपतः पुरुषस्यैव चेतनत्वोपगमात् ५ चैतन्यं पुरुषस्य स्वरूपमिति" वचनात् । ततः सिद्धमेवेदं साधनं कर्मराशिविनाशित्वाभावं साधयति तस्माच्च विश्ववेदित्वाभावः कर्मराशिविनाशित्वाभागे कस्यचिद्विश्ववेदित्वविरोधात् । ततश्च न प्रधानस्य ज्ञत्वं स्वयमचेतनस्य ज्ञत्वानुपलब्धेः। नचाज्ञस्य मोक्षमार्गस्योपदेशकत्वं संभाव्यत इति प्रधानस्य

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146