Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 104
________________ आप्तपरीक्षा। mmrammar.maare हिभूर्तस्य द्वितीयत्वायोगात् । एतेन षोडशपदार्थप्रतीत्या प्रागभावादिप्रतीत्या च पुरुषाद्वैतं बाध्यत इति वदन्निवारितः । तैरपि प्रतिभासमानैर्द्रच्यादिपदार्थरिव प्रतिभासमात्रादवहिभूतैः पुरुषाद्वैतस्य बाधनायोगात्।स्वयमप्रतिभासमानस्तु सद्भावव्यवस्थामप्रतिपद्यमानैस्तस्य बाधने शशविषाणादिभिरपि स्वेष्टपदार्थनियमस्य बाधनप्रसंगात् । एतेन सांख्यादिपरिकल्पितैरपि प्रकृत्यादितत्वैः पुरुषाद्वैतं न बाध्यते इति निगदितं बोद्धव्यं । न चात्र पुरुषाद्वैते यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टौ योगांगानि योगो वा संप्रज्ञातोऽसंप्रज्ञातश्च योगफलं च विभूतिकैवल्यलक्षणं विरुध्यते प्रतिभासमात्रात्तबहिर्भावाभावात् प्रतिभासमानत्वेन तथाभावप्रसिद्धेः । येऽप्याहुः प्रतिभासमानस्यापि वस्तुनः प्रतिभासाद्भेदप्रसिद्धेः न प्रतिभासांतःप्रविष्टत्वं प्रतिभासो हि ज्ञानं स्वयं न प्रतिभासते स्वात्मनि क्रियाविरोधात्तस्य ज्ञानांतरवेद्यत्वसिद्धेर्नापि तद्विषयभतं वस्तु स्वयं प्रतिभासमानं तस्य ज्ञेयत्वात् । ज्ञानेनैव प्रतिभासत्वसिद्धेरिति स्वयं प्रतिभासमानत्वं साधनमसिद्धं न कस्यचित्प्रतिभासांतःप्रविष्टत्वं साधयेत् । परतःप्रतिभासमानत्वं तु विरुद्धं प्रतिभासबहिर्भावसाधनत्वादिति तेऽपि स्वदर्शनपक्षपातिन एव ज्ञानस्य स्वयमप्रतिभासने ज्ञानांतरादपि प्रतिभासनविरोधात् प्रतिभासत इति प्रतिभासैकतया स्वातंत्र्येण प्रतीतिविरोधात् प्रतिभास्यत इत्येवं प्रत्ययप्रसंगात् तस्य परेण ज्ञानेन प्रतिभासमानत्वात्, परस्य ज्ञानस्य च ज्ञानांतरप्रतिभासने प्रतिभासतइति संप्रत्ययो न स्यात् संवेदनांतरेण प्रतिभास्यत्वात् । तथा चानवस्थानान्न किंचित्संवेदनं व्यवतिष्ठते । नच ज्ञानं प्रतिभासत इति प्रतीतिभ्रीता वाधकाभावात् । स्वात्मनि क्रियाविरोधो बाधक इति चेत्का पुनः स्वात्मनि क्रिया विरुध्यते ज्ञप्तिरुत्पत्तिा ? न तावत्प्रथमकल्पना स्वात्मनि

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146