Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 89
________________ ८४ श्रीविद्यानंदिस्वामिविरचिता चैव मुक्तात्मापेक्षया प्रधानस्य नष्टधर्मत्ववचनात् अमुक्तापेक्षया चानष्टत्वप्रतिज्ञानादिति कश्चित्सोऽपि न विरुद्धधर्माध्यासान्मुच्यते प्रधानस्यैकरूपत्वात् येनैव हि रूपेण प्रधानं मुक्तात्मानं प्रतिचरिताधिकार नष्टं च प्रतिज्ञायते तेनैवानवसिताधिकारमनष्टममुक्तात्मानं प्रतीति कथं न विरोधः प्रसिद्धयेत् । यदि पुनः रूपांतरेण तथेष्यते तदा न प्रधानमेकरूपं स्यात् रूपद्वयस्य सिद्धेः । तथाचैकमनेकरूपं प्रधानं सिध्येत् सर्वमनेकांतात्मकं वस्तु साधयेत् । स्यादाकूतं न परमार्थतः प्रधानं विरुद्धयोधर्मयोरधिकरणं तयोः शब्दज्ञानानुपातिना वस्तुशून्येन विकल्पेनाध्यारोपितत्वात्पारमार्थिकत्वे धर्मयोरपि धर्मातरपरिकल्पनायामनवस्थानात् । सुदूरमपि गत्वा कस्यचिदारोपितधर्माभ्युपगमे प्रधानस्याप्यारोपितावेव नष्टत्वानष्टत्वधर्मों स्यातामवसितानवसिताधिकारत्वधर्मी च तदपेक्षानिमित्तं स्वरूपद्वयं च ततोनैकमनेकरूपं प्रधानं सिध्येत् यतः सर्व वस्त्वेकानेकात्मकं साधयेदिति । तदपि न विचारसहं । मुक्तामुक्तत्वयोरपि पुंसामपारमार्थिकत्वप्रसंगात् । सत्यमेतत् न तत्त्वतः पुरुषस्य मुक्तत्वं संसारित्वं वा धर्मोऽस्ति प्रधानस्यैव संसारित्वप्रसिद्धेः । तस्यैव च मुक्तिकारणतत्त्वज्ञानवैराग्यपरिणामान्मुक्तत्वोपपत्तेः । तदेवं मुक्तेः पूर्व निःश्रेयसमार्गस्योपदेशकं प्रधानमिति परमतमनूद्य दूषयन्नाह । प्रधानं ज्ञत्वतो मोक्षमार्गस्याऽस्तूपदेशकं । तस्यैव विश्ववेदित्वाद्धेतृत्वात्कर्मभूभृतां ॥ ७९ ॥ इत्यसंभाव्यमेवास्याऽचेतनत्वात्पटादिवत् । तदसंभवतो नूनमन्यथा निष्फलः पुमान् ॥ ८० ॥ भोक्ताऽऽत्मा चेत्स एवास्तु कर्ता तदविरोधतः। विरोधे तु तयोर्मोक्तुः स्याद्भुजौ कर्तृता कथं ॥ ८१ ॥

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146