Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
श्रीविद्यानंदिस्वामिविरचिता
स्वस्मिन् व्यवसायमजनयत् प्रत्यक्षमिष्यते कल्पनापोढाभ्रांतत्वलक्षणसद्भावात्, तथा योगिप्रत्यक्षमपि वर्तमानातीतानागततत्त्वेभ्यः स्वयमनुत्पद्यमानं तदाकारमननुकुर्वत् तद्व्यवसायमजनयत् प्रत्यक्षं तल्लक्षणयोगित्वात्प्रतिपद्यते । कथमन्यथा सकलार्थविषयं विधूतकल्पनाजालं च सुगतप्रत्यक्षं सिद्धयेत् । तस्य भावनाप्रकर्षपर्यंतजत्वाच्च न समस्तार्थनत्वं युक्तं ' भावना प्रकर्षपर्यंतजं च योगिज्ञान' मिति वचनात् । मावना हि द्विविधा श्रुतमयी चिंतामयी च । तत्र श्रुतमयी श्रयमाणेभ्यः परार्थानुमानवाक्येभ्यः समुत्पद्यमानेन श्रुतशब्दवाच्यतामास्कंदता निर्वृत्ता परं प्रकर्ष प्रतिपद्यमाना स्वार्थानुमानलक्षणया चिंतया निवृत्तां चिंतामयीं भावनामारभते सा च प्रकृष्यमाणा परं प्रकर्षपर्यंत संप्राप्ता योगिप्रत्यक्ष जनयति ततस्तत्वतो विश्वतत्वज्ञतासिद्धेः सुगतस्य न तदपेतत्वं सिद्धयति यतो निर्वाणमार्गस्य प्रतिपादकः सुगतो न भवेरिति । तदपि न विचारक्षम, भावनाया विकल्पात्मिकायाः श्रुतमय्याश्चिंतामय्याश्वावस्तुविषयाया वस्तुविषयस्य योगिज्ञानस्य जन्मविरोधात् कुतश्चिदतत्त्व विषयाद्विकल्पज्ञानात्तत्वविषयस्य ज्ञानस्यानुपलब्धेः । कामशोकभयोन्मादचोरस्वप्नायुपप्लुतज्ञानेभ्यः कामिनीमृतेष्टजनशत्रुसंघातानियतार्थगोचराणां पुरतोऽवस्थितानामिव दर्शनस्याप्यभूतार्थविषयतया तत्वविषयत्वाभावात् । तथा चाभ्यधायि " कामशोकभयोन्मादचोरस्वप्नायुपप्लुताः। अभूतानपि पश्यंति पुरतोऽवस्थितानिव " इति । ननु च कामादिभावनाज्ञानादभूतानामपि कामिन्यादीनां पुरतोऽवस्थितानामिव स्पष्टं साक्षाद्द. र्शनमुपलभ्यते किमंग पुनः श्रुतानुमानभावनाज्ञानात्परमप्रकर्षप्राप्ताच्चतुरार्यसत्यानां परमार्थसतां दुःखसमुदायनिरोधमार्गाणां योगिनः साक्षादर्शनं
१ दुःखं दुःखं, स्वलक्षणं स्वलक्षणम् , क्षणिकं क्षणिकम् , शून्यं शून्यम् इति चतुरार्यसत्यानाम् ।

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146