Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 101
________________ श्रीविद्यानंदिस्वामिविरचिता ९६ स्वतोऽन्यतो वा प्रतिपत्त्यभावादित्याहयत्तु संवेदनाद्वैतं पुरुषाद्वैतवन्न तत् । सिद्धयेत्स्वतोऽन्यतो वापि प्रमाणात्स्वेष्टहानितः ॥ ८५ ॥ ताद्ध संवेदनाद्वैतं न तावत्स्वतः सिध्यति पुरुषाद्वैतवत् । स्वरूपस्य स्वतोगतेरभावात्। अन्यथा कस्यचित्तत्र विप्रतिपत्तेरयोगात् पुरुषाद्वैतस्यापि प्रसिद्धेरिष्टहानिप्रसंगाच्च । ननु च पुरुषाद्वैतं न स्वतोऽवसीयते तस्य नित्यस्य सकलकालकलापव्यापितया सर्वगतस्य च सकलदेशप्रतिष्ठिततया वाऽनुभवाभावादिति चेन्न । संवेदनाद्वैतस्यापि क्षणिकस्यैकक्षणस्थायितया निरंशस्यैकपरमाणुरूपतया सकृदप्यनुभवाभावाविशेषात् । यदि पुनरन्यतः प्रमाणासंवेदनाद्वैतसिद्धिः स्यात् तदापि स्वेष्टहानिरवश्यंभाविनी साध्यसाधनयोरम्युपगमे द्वैतसिद्धिप्रसंगात् । यथा चानुमानात्संवेदनाद्वैतं साध्यते । यत्संवेद्यते तत्संवेदनमेव यथा संवेदनस्वरूप संवेद्यन्ते च नीलसुखादीनि । तथा पुरुषाद्वैतमपि वेदांतवादिभिः साध्यते । प्रतिभासएवेदं सर्वं प्रतिभासमानत्वात्, यद्यत्प्रतिभासमानं तत्तत्प्रतिभासएव यथा प्रतिभासस्वरूपं प्रतिभासमानं चेदं जगत्तस्मात्प्रतिभास एवेत्यनुमानात् । नह्यत्रजगतः प्रतिभासमानत्वम सिद्धं साक्षादसाक्षाच्च तस्याऽप्रतिभासमानत्वे सकलशब्दविकल्प वाग्गोचरातिक्रांततया वक्तुमशक्तेः प्रतिभासश्च चिद्रूपएव अचिद्रूपस्य प्रतिभासत्वविरोधात् । चिन्मात्रं च पुरुषाद्वैतं तस्य च देशकालाकारतो विच्छेदानुपलक्षणत्वात् नित्यत्वं सर्वगतत्वं साकारत्वं च व्यवतिष्ठते । नहि स कश्चित्कालोऽस्ति यश्चिन्मात्रप्रतिभासशून्यः प्रतिभासविशेषस्यैव विच्छेदान्नीलसुखादिप्रतिभासविशेषवत् । सह्येकदा प्रतिभासमानोऽन्यदा न प्रतिभासते प्रतिभासांतरेण विच्छेदात्प्रतिभासमात्रं तु सकलप्रतिभासविशेषकालेऽप्यस्तीति न कालतो विच्छिन्नं, नापि देशतः क्वचिदेशे प्रतिभास

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146