Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 98
________________ आप्तपरीक्षा। संसृष्टमानस्य षडंशतापत्तेः, ततएवासंसृष्टाः परमाणवः प्रत्यक्षेणालं. ब्यंत इति चेत् कथमत्यासन्नास्ते विरोधाद्दविष्ठदेशव्यवधानाभावादत्यासनास्त इति चेन्न, समीपदेशव्यवधानोपगमप्रसंगात् । तथा च समीपदेशव्यवधायकं वस्तु व्यवधीयमानपरमाणुभ्यां संसृष्टं व्यवहितं वा स्यात् गत्यंतराभावात् । न तावत्संसृष्टं तत्संसर्गस्य सर्वात्मनैकदेशेन वा विरोधात् । नापि व्यवहितं व्यवधायकांतरपरिकल्पनानुषंगात् व्यवधायकांतरमपि व्यवधीयमानाभ्यां संसृष्टं व्यवहितं चेति पुनः पर्यनुयोगेऽनवस्थानादिति कात्यासन्नाऽसंसृष्टरूपाः परमाणवो बहिः संभवेयुः ये प्रत्यक्षविषयाः स्युस्तेषां प्रत्यक्षाविषयत्वे न कालिंगं स्वभावलिंगं वा परमाण्वात्मकं प्रत्यक्षतः सिध्येत् परमाण्वात्मकसाध्यवत् क्वचित्तदसिद्धौ च न कार्यकारणयोर्व्याप्यव्यापकयोर्वा तद्भावः सिध्येत् प्रत्यक्षानुपलंभव्यतिरेकेण तत्साधनासंभवात् तदसिद्धौ च न स्वार्थानुमानमुदियात् तस्य लिंगदर्शनसंबंधस्मरणाभ्यामेवोदयप्रसिद्धेः । तदभावे तद्नुपपत्तेः । स्वार्थानुमानानुपपत्तौ च न परार्थानुमानरूपं श्रुतमिति व श्रुतमयी चिंतामयी च भावना स्यात् यतस्तत्प्रकर्षपर्यंत योगिप्रत्यक्षमुररीक्रियते तता न विश्वतत्वज्ञता सुगतस्य तत्वतोऽस्ति येन संपूर्ण गतः सुगतः शोभनंगतः सुगतः सुष्टु गत इति सुशब्दस्य संपूर्णाद्यर्थत्रयमुदाहृत्य सुगतशब्दस्य निर्वचनत्रयमुपवर्ण्यते । सकलाविद्यातृष्णा प्रहाणाञ्च सर्वार्थज्ञानवैतृष्ण्यसिद्धेः सुगतस्य जगद्धितषिणः प्रमाणभूतस्य सर्वदावस्थितस्य विधूतकल्पनाजालस्यापि धर्मावशेषाद्विनेयजनसंमतत्वोपदेशप्रणयनं न संभाव्यते सौत्रांतिकमते विचार्यमाणस्य परमार्थतोऽर्थस्य व्यवस्थापनायोगादिति सूक्तं सुगतोऽपि निर्वाणमार्गस्य न प्रतिपादकस्तत्वतो विश्वतत्वज्ञतापायात्कपिलादिवदिति । येऽपि ज्ञानपरमाणव एव प्रतिक्षणविशरारवः परमार्थ संतो ने

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146