Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
आप्तपरीक्षा।
संयोगः समवायो वा तद्विशेषोऽस्त्वनेकधा। . . स्वातंत्र्ये समवायस्य सर्वथैक्ये च दोषतः॥५८॥
तस्य विशेषणविशेष्यभावस्यानंत्यातसमवायवदेकत्वानभ्युपगमात् नानवस्था दोषो यदि परैः कथ्यते प्रपतृणामाकांक्षाक्षयतोऽपि वा यत्र यस्य प्रतिपत्तुर्व्यवहारपरिसमाप्तेराकांक्षाक्षयः स्यात् तत्रापरविशेषणविशेष्यमावानन्वेषणादनवस्थानुपपत्तेः तदा समवायादिनापि परिकल्पितेन न किंचित्फलमुपलभामहे समवायिनोरपि विशेषणविशेष्यभावस्यैवाभ्युपगमनीयत्वात संयोगिनोरपि विशेषणविशेष्यमावानतिक्रमात् । गुणद्रव्ययोः क्रियाद्रव्ययोद्रव्यत्वद्रव्ययोःगुणत्वगुणयोः कर्मत्वकर्मणोः गुणत्वद्रव्ययोः कर्मत्वद्रव्ययोविशेषद्रव्ययोश्च द्रव्ययोरिव विशेषणविशेष्यत्वस्य साक्षात्परंपरया वा प्रतीयमानस्य वाधकाभावात् । यथैव हि गुणिद्रव्यं क्रियावद्द्व्यं द्रव्यत्ववद्रव्यं विशेषवद्रव्यं गुणत्ववान्गुणः कर्मत्ववत्कर्मेत्यत्र साक्षाद्विशेषणविशेष्यभावः प्रतिभासते दंडिकुंडलिवत् तथा परंपरया गुणत्ववद्रव्यमित्यत्र गुणस्य द्रव्यविशेषणत्वात् गुणत्वस्य च गुणविशेषणत्वात् विशेषणविशेष्यभावोऽपि, तथा कर्मत्ववद्व्यमित्यत्रापि कर्मत्वस्य कर्मविशेषणत्वात् कर्मणो द्रव्यविशेषणत्वात् विशेषणविशेष्यभाव एव निरंकुशोऽस्तु । ननु च दंडपुरुषादीनामवयवावयव्यादीनां च संयोगः समवायश्च विशेषणविशेष्यभावहेतुः संप्रतीयते तस्य तद्भाव एव भावादिति न मंतव्यं, तदभावेऽपि विशेषणविशेष्यभावस्य सद्भावात् धर्मधर्मिवत् भावाभाववद्वा । नहि धर्मधर्मिणोः संयोगः, तस्य द्रव्यनिष्ठत्वात् । नापि समवायः परैरिष्यते, समवायतदस्तित्वयोः समवायांतरप्रसंगात् । तथा न भावाभावयोः संयोगः समवायो वा परैरिष्टः सिद्धांतविरोधात् तयोर्विशेषणविशेष्यभावस्तु तैरिष्टो दृष्टश्चेति न संयोगसमवायाभ्यां विशेषणविशेष्यभावो

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146