Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 75
________________ श्रीविद्यानंदिस्वामिविरचिता wanaannnnnn ज्ञानमिति विशिष्टेहेदंप्रत्ययात्प्रमाणोपपन्नात्तत्रैव ज्ञान समवायो व्यवतिछते न खादिषु, विशेषणभेदात्समवायस्य भेदप्रसिद्धेरिति केचिद्व्युत्पनवैशेषिकाः समनुमन्यतोऽपि न यथार्थवादिनः । समवायस्य सर्वथैकत्वे नानासमवायिविशेषणत्वायोगात् सत्तादृष्टांतस्यापि साध्यत्वात् । नहि सर्वथैका सत्ता कुतश्चित्प्रमाणात्सिद्धा । ननु सत्प्रत्ययाविशेषाद्विशेषलिंगाभावादेका सत्ता प्रसिद्धैवेति चेन्न । सर्वथा सत्प्रत्ययाविशेषस्यासिद्धत्वाद्विशिष्टलिंगाभावस्य च, कथंचित्सत्प्रत्ययाविशेषस्तु कथंचिदेवैकत्वं सत्तायाः साधयेत् यथैव हि सत्सामान्यादेशात् सत्सदिति प्रत्ययस्याविशेषस्तथा सद्विशेषादेशात् सत्प्रत्ययविशेषोऽपि घटः सन् पटः सन्नि: त्यादिः समनुभूयते । घटादिपदार्थ एव तत्र विशिष्टो न सत्तेति चेन्न, एवं घटादीनामपि सर्वथैकत्वप्रसंगात् । शक्यो हि वक्तुं घटप्रत्ययाविशेषादेको घटः, तद्धर्मा एव विशिष्टप्रत्ययहेतवो विशिष्टा इति । घटस्यैकत्वे क्वचिद्धटस्य विनाशे प्रादुर्भावे वा सर्वत्र विनाशः प्रादुर्भावो वा स्यात् । तथा च परस्परव्याघातः सकृद्घटविनाशप्रादुर्भावयोः प्रसज्यते इति चेन्न, सत्ताया अपि सर्वथैकत्वे कस्यचित्प्रागसतः सत्तायाः संबंधे सर्वस्य सकृत्सत्तासंबंधप्रसंगात् । तदसंबंधे वा सर्वस्यासंबंध इति परस्परव्याघातः सत्तासंबंधासंबंधयोः सकृत्तदुःपरिहारःस्यात् । प्रागसतः कस्यचिदुत्पादककारणसन्निधानादुत्पद्यमानस्य संबंधः, परस्य तदभावात् संबंधाभाव इति प्रागुक्तदोषाऽप्रसंगे घटस्यापि क्वचिदुत्पादककारणभावादुत्पादस्य धर्मस्य सद्भावे घटेन संबंधः क्वचित्तु विनाशहेतूपादानाद्विनाशस्य भावो घटस्य तेनासंबंध इति कुतः परोक्तदोषप्रसंगः । सर्वथैकत्वेऽपि घटस्य तद्धर्माणामुत्पादादीनां स्वकारणनियमाद्देशकालाकारनियमोपपत्तेः । ना. त्पादादयो धर्मा घटादन तरभूता एव, सत्ताधर्माणामपि तदनतिरत्वप्र

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146