Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 66
________________ आप्तपरीक्षा। कथमिव व्यवस्थाप्यते । न च युतसिद्धानां संयोग एव विभागस्यापि भावात्। न संयोगोविभागहेतुरित्यपिवात । तस्य तद्विरोधिगुणत्वात् तद्विनाशहेतुत्वात्। संयुक्तविषयत्वाद्विभागस्य संयोगो हेतुरिति चेन्न तर्हि विभक्तविषयत्वात्संयोगस्य विभागो हेतुरस्तु । कयोश्चित्विभक्तयोरप्युभयकर्मणोऽन्यतरकर्मणोऽवयवसंयोगस्य चापाये संयोगापायान्न विभागः संयोगहेतुरितिचेत् तर्हि संयुक्तयोरप्युभयकर्मणोऽन्यतरकर्मणोऽवयवविभागस्य चापाये विभागस्याभावात्संयोगो विभागस्यापि हेतु भूत् । कथं च शश्वदविभक्तानां विभुद्रव्यविशेषाणामजः संयोगः सिध्यन् विभागहेतुको व्यवस्थाप्यते । तत्र युतसिद्धिर्विभागहेतुरपि कथमवस्थाप्यते इति चेत् सर्वस्य हेतोः कार्योत्पादनानियमादिति ब्रूमः । समर्थो हि हेतुःस्वकार्यमुत्पादयति नासमर्थः सहकारिकारणानपेक्षोऽतिप्रसंगात् । तेन यथा हिमवद्विभ्यादीनां युतसिद्धिविद्यमानापि न संयोगमुपजनयति सहकारिकारणस्य कर्मादेरभावात् तथा विभुद्रव्यविशेषाणां शाश्वतिका युतसिद्धिः सत्यपि न विभाग, सहकारिकारणस्याऽन्यतरकर्मादेरभावादिति संयोगहेतुं युतसिद्धिमभ्यनुजानंतो विभागहेतुमपि तामभ्यनुजानंतु सर्वथाविशेषाभावात् । तथा च संयोगस्यैव हेतुयुतसिद्धिरित्यपि लक्षणं न व्यवतिष्ठत एव लक्षणाभावे च न युतसिद्धिः। नापि युतसिद्धयमावलक्षणा स्यादयुतसिद्धिरिति युतसिद्धययुतसिद्धिद्वितयापाये व्याघातो दुरुत्तरः स्यात् सर्वत्र संयोगसमवाययोरभावात् । संसर्गहानेः सकलार्थहानिःस्यादित्यभिप्रायः । संयोगापाये तावदात्मांतःकरणासंयोगाद् बुद्धयादिगुणोत्पत्तिर्न भवेत् तदभावे च आत्मनोव्यवस्थापनोपायापायादात्मतत्वहानिः । एतेन भेरीदंडाद्याकाशसंयोगाभावाच्छब्दस्यानुत्पत्तेराकाशव्यवस्थापनोपायासत्वादाकाशहानिरुक्ता सर्वत्रावयवसंयोगाभावात्तद्विभागस्याप्यनुपपत्तेस्तन्निमित्तस्यापि शब्दस्याभा

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146