Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 64
________________ आप्तपरीक्षा। पृथगाश्रयाश्रयित्वस्य युतसिद्धिलक्षणस्याभावादयुतसिद्धत्वं शास्त्रीयं समवायिनोः सिद्धमेव ततोऽयुतसिद्धत्वविशेषणं साध्वेवासिद्धत्वाभावात् । लौकिक्ययुतसिद्धत्वं तु प्रतीतिबाधितं नाभ्युपगम्यत एव ततः सविशेषणाद्धेतोः समवायसिद्धिरिति येऽपि समादधते विदग्धवैशेषिकास्तांश्च पर्यनुयुंज्महे । विभुद्रव्यविशेषाणामात्माकाशादीनां कथं तु युतसिद्धिः परिकल्पते भवद्भिस्तेषामन्याश्रयविरहात् पृथगाश्रयाश्रयित्वासंभवात् । नित्यानां च पृथग्गतिमत्वं युतसिद्धिरित्यपि न विभुद्रव्येषु संभवति तद्धि. पृथग्गतिमत्त्वं द्विधाभिधीयते कैश्चित् । अन्यतरपृथग्गतिमत्वं उभयपृथग्गतिमत्त्वं चेति । तत्र परमाणुविभुद्रव्ययोरन्यतरपृथग्गतिमत्त्वं परमाणोरेव गतिमत्त्वात् विभुद्रव्यस्य तु निःक्रियत्वेन गतिमत्त्वाभावात्, परमाणूनां तु परस्परमुभयपृथग्गतिमत्त्वमुभयोरपि परमाण्वोः पृथक् पृथग्गतिमत्त्वसंभवात् । नचैतद्वितयमपि परस्पर विभुद्रव्यविशेषाणां संभवति । तथैकद्रव्याश्रयाणां गुणकर्मसामान्यानां च परस्परं पृथगाश्रयवृत्तेरभावात् युतसिद्धिः कथं नु स्यादिति वितर्कयंतु भवंतः । तेषां युतसिद्धयभावे चायुतसिद्धौ. सत्यां समवायोऽन्योन्यं प्रसज्येत स च नेष्टः तेषामाश्रयाश्रयिभावाभावात् । अत्र केचिद्विभुद्रध्यविशेषाणामन्योन्यं नित्यसंयोगमासंचक्षते तस्य कुतश्चिदजातत्वात् । नह्ययमन्यतरकर्मजो यथा स्थाणोः श्येनेन, विभूनां च. मूर्तेः, नाप्युभयकर्मजो यथा मेषयोर्मल्लयोर्वा । न च संयोगजो यथा द्वितंतुकवीरणयोः शरीराकाशयोर्वा । स्वावयवसंयोगपूर्वको ह्यवयविनः केनचित्संयोगः प्रसिद्धः । न चाकाशादीनामवयवाःसंति निरवयवत्वात् ततो न तत्संयोगपूर्वकः परस्परं संयोगो यतः संयोगजःस्यात् । प्राप्तिस्तु तेषां सर्वदाऽस्तीति तल्लक्षणसंयोगः, अज(नित्य एवाभ्युपगन्तव्यः। तत्सिद्धेश्च युतसिद्धिस्तेषां प्रतिज्ञातव्या । युतसिद्धानामेव संयोगस्य निश्चयात् ।।

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146