Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 62
________________ आप्तपरीक्षा। mmmmmmmmmmmmmm इह तंतुषु पट इत्यादिरिहेदं प्रत्ययः समवायसंबंधनिबंधन एव, निर्बाधत्वे सत्ययुतसिद्धेहेदंप्रत्ययत्वात् । यस्तु न समवायसंबंधनिबंधनः स नैवं यथेहसमवायिषु समवाय इति वाध्यमानेहेदं प्रत्ययः । इह कुंडे दधीति युतसिद्धेहेदं प्रत्ययश्च । निर्बाधत्वेसत्ययुतसिद्धेहेदं प्रत्ययश्चायमिह तंतुषु पट इत्यादिः, तस्मात्समवायसंबंधनिबंधन इति केवलव्यतिरेकी हेतुरसिद्धत्वादिदोषरहितत्वात् स्वसाध्याविनाभावी समवायसंबंधं साधयतीति परैरभिधीयते सत्यामयुतसिद्धाविति वचनसामर्थ्यात् । तत्रेदमयुतसिद्धत्वं यदि शास्त्रीयं हेतोर्विशेषणं तदा न साधु प्रतिभासते समवायिनोरवयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतोः सामान्यतद्वतोविशेषतद्वतोश्च शास्त्रीयस्यायुतसिद्धत्वस्य विरहात् वैशेषिकशास्त्रे हि प्रसिद्धम्- अपृथगाश्रयवृत्तित्वमयुतसिद्धत्वं' । तच्चेह नास्त्येव यतःकारणद्रव्यं तंतुलक्षणं स्वावयवांशेषु वर्तते कार्यद्रव्यं च पटलक्षणं स्वावयवेषु तंतुषु वर्तत इति स्वावयवाधारमित्यनेनावयवावयविनोः पृथगा श्रयवृत्तित्वसिद्धेरपृथगाश्रयवृत्तित्वमसदेवेति प्रतिपादितं, यतश्च गुणः कार्यद्रव्याश्रयो रूपादि । कार्यद्रव्यं तु स्वावयवाधारं प्रतीयते तेन गुणगुणिनोरपृथगाश्रयवृत्तित्वमसंभाव्यमानं निवेदितं । एतेन क्रियायाः कार्यद्रव्यवर्तनात्कार्यद्रव्यस्य च स्वावयवेषु, क्रियाक्रियावतोरपृगाश्रयवृत्तित्वाभावः कथितः । तथा सामान्यस्य द्रव्यत्वादेर्द्रव्यादिषु वृत्तेद्रव्या दीनां च स्वाश्रयेषु, सामान्यतद्वतोः पृथगाश्रयवृत्तित्वं ख्यापितं । तथैवापरविशेषस्य कार्यद्रव्येषु प्रवृत्तेः कार्यद्रव्याणां च स्वावयवेषु विशेषतद्वतोरपृथगाश्रयवृत्तित्वं निरस्तं वेदितव्यं । ततो न शास्त्रीयायुतसिद्धिःसमवायिनोरस्ति या तु लौकिकी लोकप्रसिद्धैकभाजनवृत्तिः सा दुग्धांभसोरपि युतसिद्धयोरस्तीति तयापि सत्या नायुतसिद्धत्वं समवायिनोः साधीय

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146