Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 60
________________ आप्तपरीक्षा। वृक्षाणां संबंध इति न तेन व्यभिचारः । तथापि इहाकाशे शकुनिरिति इहेदं प्रत्ययेन संयोगसंबंधमात्रंनिबंधनेन व्यभिचार इत्याधाराधेयभूतानामिति निगद्यते । न हि यथाऽवयवावयव्यादीनामाधाराधेयभूतत्वमुभयोः प्रसिद्धं तथा शकुन्याकाशयोरौत्तराधर्यायोगात् आकाशस्य सर्वगतत्वेन शकुनेरुपर्यपि भावादधस्तादिवेति न तत्रेहेदंप्रत्ययेन व्यभिचारः । नन्वाकाशस्यातींद्रियत्वात्तदस्मदादीनामिहेदं प्रत्ययस्यासंभवात् कथं तेन व्यभि. चारचोदना साधीयसीति न मंतव्यं । कुतश्चिल्लिंगादनुमितेऽप्याकाशे श्रुतिप्रसिद्धेर्वा कस्यचिदिहेदमिति प्रत्ययाविरोधात् तत्र, भ्रांतेन वा केषां चिदिहेदमिति प्रत्ययेन व्यभिचारचोदनायाः न्यायप्राप्तत्वात् तत्परिहारार्थमाधाराधेयभूतानामिति वचनस्योपपत्तेः । नन्वेवमपीह कुंडे दधीति प्रत्ययेनानेकांतस्तस्य संयोगनिबंधनत्वेन समवायाहेतुत्वादिति न शंकनीयमयुतसिद्धानामिति प्रतिपादनात् । नहि यथावयवावयव्यादयोऽयुतसिद्धास्तथा दधिकुंडादयः तेषां युतसिद्धत्वात् । तमुयुतसिद्धानामेवेति वक्तव्य माधाराधेयभूतानामिति वचनस्याभावेऽपि व्यभिचाराभावादिति न चेतसि विधेयं । वाच्यवाचकभावेनाकाशाकाशशब्दयोर्व्यभिचारात् । इहाकाशे वाच्ये वाचक आकाशशब्द इति इहेदप्रत्ययलिंगस्यायुतसिद्धसंबंधस्य वाच्यवाचकभावप्रसिद्धेः तेन व्यभिचारोपपत्तेराधाराधेयभूतानामिति वचनस्योपपत्तेः । नन्वाधाराधेयभूतानामयुतसिद्धानामपि संबंधस्य विषयविषयिभावस्य सिद्धेः कुतः समवायसिद्धिः । नह्यात्मनि-इच्छादीनां ज्ञानमयुतसिद्धं न भवति । तथाहमितिज्ञानमाधाराधेयभावस्याप्यत्र भावात् नचाहमितिप्रत्ययस्यात्मविषयस्यायुतसिद्धस्यात्माधारस्य विषयविषयिभावोऽसिद्ध इति कुतस्तयोः समवाय एव सिध्येदिति न वक्तव्यं । आधाराधेयभूतानामेवायुतसिद्धानामेवेति चावधारणात् । वाच्यवाचकभावे

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146