Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 45
________________ श्रीविद्यानंदिस्वामिविरचिता मेवोपक्षीणत्वादीश्वरस्य प्रकृतबुद्धेः करणं न स्यादनवस्थानात् । स्यान्मतं प्रकृतबुद्धेः करणे नाऽपूर्वबुद्धयंतरं प्रतीक्षते महेशः । किं तर्हि पूर्वोत्पन्नां बुद्धिमाश्रित्य प्रकृतां बुद्धिं कुरुते तामपि तत्पूर्वी बुद्धिमित्यनादिबुद्धिसंततिरीश्वरस्य ततो नानवस्थेति । तदप्यसत् । तथाबुद्धिसंतानस्य कर्मसंतानापायेऽसंभवात् । क्रमजन्मा हि बुद्धिः परापरतद्धेतोरदृष्टविशेषस्य क्रमादुत्पद्यते नान्यथा । यदि पुनर्योगजधर्मसंततेरनादेश्विरस्य सद्भावादयमनुपालंभः पूर्वस्मात् समाधिविशेषाद्धर्मस्यादृष्टविशेषस्योत्पादात्ततो बुद्धिविशेषस्य प्रादुर्भावाददृष्टसंताननिबंधनाया एव बुद्धिसंततेरभ्युपगमादिति मतं तदापि कथमीश्वरस्य सकर्मता न सिद्धयेत् । तत्सिद्धौ च सशरीरताऽपि कथमस्य न स्यात् तस्यां च सत्यां न सदा मुक्तिस्तस्य सिद्धयेत् । सदेहमुक्तेः सदासिद्धौ तदेहेन च कार्यत्वादेः साधनस्य तन्वादेर्बुद्धिमत्कारणत्वे साध्ये कथमनैकांतिकता परिहतुं शक्यति तस्य बुद्धिमत्कारणत्वासंभवात् । संभवे चानवस्थानुषंगादिति प्रागेवोक्तं । किं चेदं विचार्यते किमीश्वरज्ञानमन्यापि किं वा व्यापीति प्रथमपक्षे दूषणमाह अव्यापि च यदि ज्ञानमीश्वरस्य तदा कथं । सकृत्सर्वत्र कार्याणामुत्पत्तिर्घटते ततः॥ ३१ ॥ यद्येकत्र स्थितं देशे ज्ञानं सर्वत्र कार्यकृत् । तदा सर्वत्र कार्याणां सकृत् किं न समुद्भवः ॥३२॥ कारणांतरवैकल्यात्तथाऽनुत्पत्तिरित्यापि । कार्याणामीश्वरज्ञानाहेतुकत्वं प्रसाधयेत् ॥ ३३ ॥ १ अदोषः । २ जीवन्मुक्तेः । ३ नित्यत्वे । ४ जीवन्मुक्तदेहेन ।

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146