Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
"४६
श्रीविद्यानंदिस्वामिविरचिता
रविष्वग्भाव इति व्यवहारस्तु न संबंधांतरनिबंधनो यतः कथंचित्तादात्म्यांतर संबंधांतरमनवस्थाकारि परिकल्प्यते तत एव कथंचित्तादात्म्याद्धर्म'धर्मिणोः कथंचित्तादात्म्यमिति प्रत्ययविशेषस्य करणात् । कथंचित्तादात्म्यस्य कथंचिद्भेदस्वीकारत्वात् कथंचिद्भेदाभेदौ हि कथंचित्तादात्म्यं । तत्र कथंचिद्भेदाश्रयणाद् धर्मधर्मिणोः कथंचित्तादात्म्यमिति भेदविभक्तिसद्भावात् भेदव्यवहारसिद्धिः । कथंचिदभेदाश्रयणात्तु धर्मधर्मिणावेव कथंचित्तादात्म्यमित्यमेदव्यवहारः प्रवर्तते धर्मधर्मिव्यतिरेकेण कथंचिद्भेदाभेदयोरभावात् कथंचिद्भेदो हि धर्म एव कथंचिदभेदस्तु धर्येव कथंचिद्भेदाभेदौ तु धर्मर्मिणावेव एवं सिद्धौ तावेव च कथंचित्तादात्म्यं वस्तुनोऽभिधीयते । तच्छब्देन वस्तुनः परामर्शात् । तस्य वस्तुनः आत्मानौ तदात्मानौ तयोर्भावस्तादात्म्यं । भेदाभेदस्वभावत्वं कथंचिदिति विशेषणेन सर्वथा भेदाभेदयोः परस्परनिरपेक्षयोः प्रतिक्षेपात्तत्पक्षे निक्षिप्तदोषपरिहारः । परस्परसापेक्षयोश्च परिग्रहात् जात्यंतरवस्तुव्यवस्थापनात् सर्वथा शून्यवादप्रतिक्षेपसिद्धिरिति कथंचिद्भेदाभेदात्मकं कथंचिद्धर्मधात्मकं कथंचिद्दव्यपर्यायात्मकमिति प्रतिपाद्यते स्याद्वादन्यायनिष्ठैः, तथैव तस्य प्रतिष्ठितत्वात् । सामान्यविशेषवन्मेचकज्ञानवच्च । तत्र विरोधवैय्यधिकरण्यादिदूषणमनेनैवापसारितमिति किं नश्चिंतया । नन्वेवं स्याद्वादिनामपि द्रव्यस्य नित्यत्वात्तदन्वयव्यतिरेकानुविधान कार्याणां न स्यादीश्वरान्वयन्यतिरेकानुविधानवत् पर्यायाणां च क्षणिकत्वात्तदन्वयव्यतिरेकानुविधानमपि न घटते, नष्टे पूर्वपर्याये स्वयमसत्येवोत्तरकार्य स्योत्पत्तेः सति चानुत्पत्तेरन्यथैकक्षणवृत्तित्वप्रसंगात् सर्वपर्यायाणामिति तद्भा वभावित्वानुपपत्तिः । यदि पुनद्रव्ये सत्येव कार्याणां प्रसूतेस्तदन्वयसिद्धिस्तन्निमित्तपर्यायाणामभावे वानुत्पत्तेर्व्यतिरेकसिद्धिरिति तदन्वयव्यति

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146