Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 54
________________ आप्तपरीक्षा। क्लेशकर्मविपाकाशयरपरामृष्टः समस्तकारकशक्तिपरिज्ञानभाक् सिसृक्षाप्र--- यत्नविशेषवांश्च प्रभुर्विभाव्यते तद्विपरीतस्य समस्तकारकाधिष्ठातृत्वविरोधात बहूनामपि समस्तकारकाधिष्ठायिनां पुरुषविशेषाणां प्रतिनियतज्ञानादिशक्तीनामेकेन महाप्रभुणाऽधिष्ठितानामेव प्रवृत्तिघटनात् सामंतमहासामंतमंडलीकादीनामेकं चक्रवर्त्यधिष्ठितानां प्रवृत्तिवदिति महेश्वरसिद्धिः । तत्राचेतनत्वादिति हेतोर्वत्सविवृद्धिनिमित्तं प्रवर्त्तमानेन गोक्षीरेणानैकांतिकत्वमिति न शंकनीयं । तस्यापि चेतनेन वत्सेनादृष्टविशेषसहकारिणाधिष्ठितस्यैव प्रवृत्तेः । अन्यथा मृते वत्से गोभक्तेनैव तस्य प्रवृत्तिविरोधात् । न च वत्सादृष्टविशेषवशात्प्रवृत्तावपि समानोऽयं दोष इति शक्यः तत्क्षीरोपभोक्तजनादृष्टविशेषसहकारिणापि चेतनेनाधिष्ठितस्य प्रवृत्तिघटनात् सहकारिणामप्रतिनियमात् । यदपि कश्चिदुच्यते महेश्वरोऽपि चेतनांतराधिष्ठितः प्रवर्तते चेतनत्वाद्विशिष्टकर्मकरादिवदिति । तदपि न सत्यं तदधिष्ठापकस्यैव महेश्वरत्वात् । यो ह्यत्योऽधिष्ठाता स्वतंत्रः स महेश्वरस्ततोऽन्यस्य महेश्वरत्वानुपपत्तेर्न चांत्योऽधिष्ठाता न व्यवतिष्ठते तन्वादिकार्याणामुत्पत्तिव्यवस्थानामभावप्रसंगात् । परापरमहेश्वरप्रतीक्षायामेवोपक्षी णशक्तित्वात् ततो निरवद्यमिदं साधनमिति कैश्चित् । तेऽपि न हेतुसामर्थ्यवोर्दनः । अचेतनत्वस्य हेतोः संसारिजनज्ञानेषु स्वयं चेतनस्वभावात्पक्षाव्यापकत्वात् । ननु च न चेतनत्वप्रतिषेधोऽचेतनत्वं किं तर्हि चेतनासमवायप्रतिषेधः स च ज्ञानेष्वस्ति तेषां स्वयं चेतनत्वात् तत्रापरचेतनासमवायाभावात् ततोऽचेतनत्वं साधनं न पक्षाव्यापकं ज्ञानेष्वपि सद्भावादिति त मंतव्यं । संसार्यात्मसु चेतनासमवायात् चेतनत्वप्रसिद्धेरचेतनत्वस्य हेतोरभावात् पक्षाव्यापकत्वस्य तदवस्थत्वात् । यदि तु संसार्यात्मनां स्वतोऽचेतनत्वादचेतनत्वस्य हेतोस्तत्र सद्भावान्न पक्षाव्यापक

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146