Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 49
________________ ४४. श्रीविद्यानंदिस्वामिविरचितासन्निधानलक्षणावस्थाविशिष्टादीश्वरात्पूर्वं तदविशिष्टेश्वरोऽन्यः कथं न प्रसिद्धयेत् । स्यान्मतं द्रव्याद्यनेकविशेषणविशिष्टस्यापि सत्तासामान्यस्य यथा न भेदः समवायस्य वाऽनेकसमवायिविशेषणविशिष्टस्याप्येकत्वमेव तद्वदनेकावस्थाविशिष्टस्यापीश्वरस्य न भेदः सिद्धयेत् तदेकत्वस्यैव प्रमाणतः सिद्धेरिति तदेतत्स्वगृहमान्यं । सत्तासामान्यसमवाययोरपि स्वविशेषणभेदाढ़ेदप्रसिद्धेय॑तिलंघयितुमशक्तेः । तस्यैकानेकस्वभावतयैव प्रमाणगोचरचारित्वात् तदेतेन नानामूर्तिमद्रव्यसंयोगविशिष्टस्य व्योमात्मादिविभुद्रव्यस्याभेदः प्रत्याख्यातः स्वविशेषणभेदाञदसंप्रत्ययादेकानेकस्वभावत्वव्यवस्थानात् । योऽप्यवस्थावतोऽवस्थां पदार्थांतरभूतां नानुमन्यते तस्यापि कथमवस्थाभेदादवस्थावतो भेदो न स्यादवस्थानां वा कथममेदो न भवेत् तदर्थातरत्वाभावात् । स्यादाकूतं अवस्थानामवस्थावतः पदार्थातरत्वाभावेऽपि न तदभेदः तासां तद्धर्मत्वात् न च धर्मो धर्मिणोऽनर्थातरमेव धर्मधर्मिव्यवहारभेदविरोधात् भेदे तु न धर्माणां भेदाद्धर्मिणो भेदः प्रत्येतुं शक्येत यतोऽवस्थाभेदादीश्वरस्य भेदः संपाद्यत इति । तदपि -स्वमनोरथमात्रं धर्माणां सर्वथा धर्मिणो भेदे धर्मधार्मभावविरोधात् सह्यविध्यादिवत् । ननु धर्मधर्मिणोः सर्वथाभेदेऽपि निर्बाधप्रत्ययविषयत्वात् न धर्मर्मिभावविरोधः । सह्यविंध्यादीनां तु निर्बाधधर्मधर्मिसंप्रत्ययविषयत्वाभावान्न धर्मधर्मिभावव्यवस्था । न हि वयं भेदमेव धर्मधर्मिव्यवस्थानिबंधनमभिदध्महे येन भेदे धर्मधर्मिभावो विरुध्यते सर्वथैवाभेद इव प्रत्ययविशेषात्तद्वयवस्थाभिधानात् ।सर्वत्राबाधितप्रत्ययोपायत्वाद्वैशेषिकाणां तद्विरोधादेव विरोधसिद्धेरिति कश्चित् । सोऽपि स्वदर्शनानुरागांधीकृत एव बाधकमवलोकयन्नपि नावधारयति । धर्मधर्मिप्रत्ययविशेषस्यैव धर्मधर्मिणोर्मेदैकांतेऽनुपपत्तेः सह्यविध्यादिवत्प्रतिपादनात् । यदि पुनः प्रत्यासत्तिविशेषादी

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146