Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 50
________________ आप्तपरीक्षा । 1 श्वरतदवस्थयोर्मदेऽपि धर्मधर्मिसंप्रत्ययविशेषः स्यात् न तु सह्यविंध्यादीनां तदभावादिति मतं तदाऽसौ प्रत्यासत्ति धर्मधर्मिभ्यां भिन्ना कथं च धर्मधर्मिणोंरिति व्यपदिश्यते न पुनः सह्यर्विध्ययोरिति विशेष हेतुर्वक्तव्यः । प्रत्यासत्यंतरं तद्धेतुरिति चेत् तदपि यदि प्रत्यासत्तितद्वद्भयो भिन्नं तदा तैव्यपदेशनियमनिबंधनं प्रत्यासत्त्यंतरमभिधानीयं तथा चानवस्थानात्कुतः प्रकृत प्रत्यासत्तिनियमव्यवस्था । प्रत्ययविशेषादेवेति चेत्, ननु स एव विचार्यो वर्तते प्रत्ययविशेषः किं प्रत्यासत्तेस्तत्तद्वद्भयां सर्वथा भेदे सतीश्वरतदवस्थयोः प्रत्यासत्तिरिति प्रादुर्भवति किं वाऽनर्थांतरभाव एव कथंचि - तादात्म्ये वा । तत्र सर्वथा भेदाभेदयोर्बाधकसद्भावात् कथंचित्तादात्म्यमनुभवतोरेव तथा प्रत्ययेन भवितव्यं तत्र बाधकानुयात् । “ ननु चैकानेकयोः कथंचित्तादात्म्यमेव धर्मधर्मिणोः प्रत्यासत्तिः स्याद्वादिभिरभिधीयते तच्च यदि ताभ्यां भिन्नं यदा न तयोर्व्यपदिश्यते तदभिन्नं चेत् किं केन व्यपदेश्यं । यदि पुनस्ताभ्यां कथंचित्तादात्म्यस्यापि परं कथंचित्तादात्म्यमिष्यते तदा प्रकृतपर्यनुयोगस्यानिवृत्तेः परापरकथंचित्तादात्म्य परिकल्पनायामनवस्था स्यात् । सैव कथंचित्तादात्म्यपक्षस्य बाधिकेति कथमयं पक्षः क्षेमकरः प्रेक्षावतामक्षणमालक्ष्यते । यदि पुनः कथंांचतादात्म्यं धर्मधर्मिणोर्भिन्नमेवाभ्यनुज्ञायते ताम्यामनवस्थापरिजिहीर्षयाऽनेकांतवादिना तदा धर्मधर्मिणोरेव भेदोऽनुज्ञायतां सुदूरमपि गत्वा तस्याश्रयणीयत्वात् । तदनाश्रयणे भेदव्यवहारविरोधादित्यपरः " सोऽप्यनवबोधाकुलितांतःकरण एव । कथंचित्तादात्म्यं हि धर्मधर्मिणोः संबंधः स चाविष्वग्भाव एव तयोर्जात्यंतरत्वेन संप्रत्ययाद्यवस्थाप्यते । धर्मधर्मिणो ४५ १ प्रत्यासत्तिधर्मधर्मिभ्यः । २ धर्मधर्मिप्रत्यासत्तीनामिदं प्रत्यासत्त्यंतरमिति व्यपदेशनियमस्य कारणं ।

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146