Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 46
________________ आप्तपरीक्षा। ४१ सर्वत्र सर्वदा तस्य व्यतिरेकाप्रसिद्धितः।. . अन्वयस्यापि संदेहात्कार्य तद्धेतुकं कथं ॥ ३४॥ तदीश्वरज्ञानं तावदव्यापीष्टं प्रादेशिकत्वात् सुखादिवत् । प्रादेशिकमीश्वरज्ञानं विभुद्रव्यविशेषगुणत्वात् यदित्यं तदित्यं यथा सुखादि तथा चेश्वरज्ञानं तस्मात्प्रादेशिकमिति नासिद्धं प्रादेशिकत्वं साधनं, न च तत्साधनस्य हेतोः सामान्यगुणेन संयोगादिना व्यभिचारो, विशेषग्रहणात् । तथापि विशेषगुणेन रूपादिनाऽनैकांतिक इति न मंतव्यं विभुद्रव्यग्रहणात् । तथापीष्टविरुद्धस्यानित्यत्वस्य साधनात् विरुद्धो हेतुः विभुद्रव्यविशेषगुणत्वस्यानित्यत्वेन व्याप्तत्वात् , यथाहीदं विभुद्रव्यविशेषगुणत्वं प्रादेशिकत्वमीश्वरज्ञानस्य साधयेत् तद्वदनित्यत्वमपि तदव्यभिचारात् , न हि कश्चिद्विभुद्रव्यविशेषगुणो नित्यो दृष्ट इत्यपि नाशंकनीयं महेश्वरस्यास्मद्विशिष्टत्वात् तद्विज्ञानस्यास्मद्विलक्षणत्वात् । न ह्यस्मदादिविज्ञाने यो धर्मो दृष्टः स महेश्वरविज्ञानेऽप्यापादयितुं युक्तोऽतिप्रसंगात् । तस्यास्मदादिविज्ञानवत् समस्तार्थपरिच्छेदकत्वाभावप्रसक्तेः सर्वत्रास्मदादिबुद्धयादीनामेवानित्यत्वेन व्याप्तस्य विमुद्रव्यविशेषगुणत्वस्य प्रसिद्धेः विभुद्रव्यस्य वा महेश्वरस्यैवाभिप्रेतत्वात्, तेन यदुक्तं भवति महेश्वरविशेषगुणत्वात् तदुक्तं भवति विभुद्रव्यविशेषगुणत्वादिति ततो नष्टोवरुद्धसाधनो हेतुर्यतो विरुद्धः स्यात् । न चैवमुदाहरणानुपपत्तिरीश्वरसुखादेरेवोदाहरणत्वात् तस्यापि प्रादेशिकत्वात् साध्यवैकल्याभावात् महेश्वरविशेषगुणत्वाच्च साधनवैकल्यासंभवात् ततोऽस्माद्धेतोरीश्वरज्ञानस्य सिद्धं प्रादेशिकत्वं । ततश्चाव्यापि तदिष्टं यदि वैशेषिकैस्तदा कथं सकृत्सर्वत्र तन्वादिकार्याणामुत्पत्तिरीश्वरज्ञानाद् घटते तद्धि निमित्तकारणं सर्वकार्योत्पत्तौ सर्वत्रासन्निहितमपि कथमुपपद्यते कालादेापिन एव युगपत्

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146