Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
श्रीविद्यानंदिस्वामिविरचिता
rammarmnmomrrrrrrrr
तिशयानां क्रमभुवां ततो भिन्नत्वात्, तदभेदेऽतिशयानामिवेश्वरज्ञानस्यापि नाशोत्पादप्रसंगात् । ईश्वरज्ञानवद्वा तदतिशयानामनुत्पादविनाशधर्मकत्व-- प्रसंगात् । तदेवमीश्वरज्ञानं क्रमेणानेकातिशयसंपाते क्रमवदेव । क्रमवतश्चेश्वरज्ञानात्कार्याणां क्रमो न विरुध्यत एव, सर्वथाप्यक्रमादेव हेतोः कार्यक्रमविरोधसिद्धेः । एतेन सांख्यैः परिकल्प्यमानस्य पुरुषस्य निरतिशयस्य सर्वदोदासीनस्य वैयर्थ्यमापादितमिति बोद्धव्यं । वैशेषिकाणामात्मादिवस्तुनो नित्यस्याप्यर्थातरमतैरतिशयैः सातिशयत्वोपगमासर्वदोदासीनस्य कस्यचिदप्रतिज्ञानादिति केचिदाचक्षते । तेऽप्येवं प्रष्टव्याः कथमीश्वरस्य ज्ञानस्य ततोऽर्थीतरभूतानामतिशयानां क्रमवत्त्वे वास्तवं क्रमवत्त्वं सिद्धयेत्, तेषां तत्र समवायादिति चेत् समानः पर्यनुयोगः कथमांतरभूतानामतिशयानामीश्वरज्ञान एव समवायो न पुनरन्यत्रेति तत्रैवेहेदमिति प्रत्ययविशेषोत्पत्तेरिति चेत् ननु स एवेहेदमिति प्रत्ययविशेषः कुतोऽन्यत्रापि न स्यात् सर्वथा विशेषाभावात् । यथैव हि, इह महेश्वरज्ञानेऽतिशया इति ततोऽर्थातरभाविनोऽपि प्रतीयते तथेह घटे तेऽतिशयाः प्रतीयंतां । तत्रैव तेषां समवायादिहेदमिति प्रत्ययविशेषो न पुनरन्यत्रेति चेत् सोयमन्योन्यसंश्रयः सतीहेदमिति प्रत्ययविशेषेऽतिशयानामीश्वरज्ञान एवं समवायः सिद्धयेत् तत्रैव तेषां समवायादिहेदमिति प्रत्ययविशेषो नियम्यत इति नैकस्यापि प्रसिद्धिः । भवतु वा तेषां तत्र समवायः, स तु क्रमेण युगपद्वा, क्रमेण चेत् कथमक्रममीश्वरज्ञानं क्रमभाव्यनेकातिशयसमवायः क्रमेण प्रतिपद्यत इति दुरवबोध, क्रमवर्तिभिरतिशयांतरैरीश्वरज्ञानस्य क्रमवत्वसिद्धेरदोषोऽयमिति चेत् ननु तान्यप्यन्यान्यतिशयांतराणीश्वरज्ञानादातरभूतानि कथं तस्य क्रमवत्तां साधयेयुरतिप्रसंगात् । तेषां तत्र समवायादिति चेत् स

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146