Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 28
________________ आप्तपरीक्षा । २३ तिरेकावेव कार्यस्यान्वेषणीयौ नैकेश्वरान्वयव्यतिरेकौ, सामग्री च तन्वादिकार्योत्पत्तौ तत्समवायिकारणमसमवायिकारणं निमित्तकारणं चेति । तेषु सत्सु कार्योत्पत्तिदर्शनादसत्सु चादर्शनादिति । सत्यमेतत्, केवलं यथा 1 समवाय्यसमवायिकारणानामनित्यानां धर्मादीनां च निमित्तकारणानामन्वयव्यतिरेकौ प्रसिद्धौ कार्यजन्मनि तथा नेश्वरस्य नित्य सर्वगतस्य तदिच्छाया वा नित्यैकस्वभावाया इति तदन्वयव्यतिरेकानुपलंभः प्रसिद्ध एव । न हि सामग्येकदेशस्यान्वयव्यतिरेकसिद्धौ कार्यजन्मनि सर्वसामम्न्यास्तदन्वयव्यतिरेकसिद्धिरिति शक्यं वक्तं । प्रत्येकं सामाम्येकदेशानां कार्योत्पत्तावन्वयव्यतिरेकनिश्चयस्य प्रेक्षापूर्वकारिभिरन्वेषणात् । पटाद्युत्पत्तौ कुविंदादिसामम्येकदेशवत् । यथैव हि तंतुतुरीवेमशलाकादीनामन्वयव्यतिरेकाभ्यां पटस्योत्पत्तिर्दृष्टा तथा कुर्विदान्वयव्यतिरेकाभ्यामपि । तदुपभोक्तजनादृष्टान्वयव्यतिरेकाभ्यामिवेति सुप्रतीतं । ननु सर्वकार्योत्पत्तौ दिक्कालाकाशादिसामम्यन्वयव्यतिरेकानुविधानवदीश्वरादिसामग्यन्वयव्यतिरेकानुविधानस्य सिद्धेर्न व्यापकानुपलंभः सिद्ध इति चेत् न, दिक्कालाकाशादीनामपि नित्यसर्वगतनिरवयवत्वे क्वचिदन्वयव्यतिरेकानुविधानायोगादुदाहरणवैषम्यात् तेषामपि हि परिणामित्वे सप्रदेशत्वे च परमार्थतः स्वकार्योत्पत्तौ निमित्तत्वसिद्धेः ॥ नन्वेवमीश्वरस्यापि बुद्धयादिपरिणामैः स्वतोऽर्थांतरभूतैः परिणामित्वात् सकृत्सर्वमूर्तिमद्द्रव्यसंयोगनिबंधनप्रदेशसिद्धेश्व तन्वादिकार्योत्पत्तौ निमित्तकारणत्वं युक्तं तदन्वयव्यतिरेकानुंविधानस्य तन्वादेरुपपन्नत्वात् । स्वतोनर्थांतरभूतैरेव हि ज्ञानादिपरिणामैरीश्वरस्य परिणामित्वं नेष्यते स्वारभकावयवैश्च सावयवत्वं निराक्रियते । न पुनरन्यथा, विरोधाभावान्न चैवमनिष्टप्रसंगः द्रव्यांतरपरिणामैरपि परिणामित्वप्रसंगात् तेषां तत्रासमवायात् । ये हि यत्र समवयंति परिणा 1

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146