Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 32
________________ आप्तपरीक्षा । कार्योत्पादनादर्शनात् । कार्योत्पादनेच्छापाये च ज्ञातवतोऽपि तदनुपलब्धेः । तत्र प्रयत्नापाये च कार्योत्पादनज्ञानेच्छावतोऽपि तदसंभवात् । ज्ञानादि -- त्रयसद्भावे च कार्योत्पत्तिदर्शनात् तत्त्वज्ञानेच्छाप्रयत्ननिबंधनमेव कार्य-करणमनुमंतव्यं । तदस्ति च महेश्वरे ज्ञानेच्छाप्रयत्नत्रयं । ततोऽसौ मोक्ष1 मार्गप्रणयनं कायादिकार्यवत्करोत्येव विरोधाभावादिति कश्चित् सोऽपि न युक्तवादी विचारासहत्वात् । सदा कर्मभिरस्पृष्टस्य क्वचिदिच्छा प्रयत्न-योरयोगात्तदाह २७ 1 न चेच्छा शक्तिरीशस्य कर्माभावेऽपि युज्यते । तदिच्छा वाऽनभिव्यक्ता क्रियाहेतुः कुतोऽज्ञवत् ॥ ११ ॥ न हि कुंभकारस्येच्छाप्रयत्नौ कुंभाद्युत्पत्तौ निःकर्मणःप्रतीतौ सकर्मण एव तस्य तत्प्रसिद्धेः । यदि पुनः संसारिणः कुंभकारस्य कर्मनिमितेच्छा सिद्धा सदामुक्तस्य तु कर्माभावेऽपीच्छाशक्तिः संभवति सोपायमुकस्येच्छापायात् न च तद्वदीश्वरस्य तदसंभव इति मतं । तदा सा महेश्वरेच्छाशक्तिरभिव्यक्तानभिव्यक्ता वा । न तावदभिव्यक्ता तदभिन्यंजकाभावात् तज्ज्ञानमेव तदभिव्यंजकमिति चेत् न, तस्य शश्वत्सद्भावादीश्वरस्य सदेच्छाभिव्यक्तिप्रसंगात् । न चैवं तस्याः कादाचित्कत्वात् । अन्यथा वर्षशतांते वर्षशतांते महेश्वरेच्छोत्पद्यते इति सिद्धांतविरोधात् । यदि पुनस्तन्वायुपभोक्तृप्राणिगणादृष्टं तदभिव्यंजकमिति मतिः तदा तददृष्टमीश्वरेच्छानिमित्तकमन्यनिमित्तकं वा । प्रथमपक्षे परस्पराश्रयदोषः सत्यामीश्वरेच्छाभिव्यक्तौ प्राणिनामदृष्टं सति च तददृष्टे महेश्वरेच्छाभिव्यक्तिरिति । स्यान्मतं प्राणिनामदृष्टं पूर्वेश्वरेच्छानिमित्तकं तदभिव्यक्तिश्च तत्पूर्वप्राण्यदृष्टनिमित्तात् तदपि तददृष्टं पूर्वेश्वरेच्छानिमित्तकमित्यबादिरियं कार्यकारणभावेन प्राणिगणादृष्टेश्वरेच्छाभिव्यक्त्योः संततिः । 3

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146