Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 38
________________ आप्तपरीक्षा। सति धर्मविशेषे हि तीर्थकृत्त्वसमाह्वये ।.. बयाज्जिनेश्वरो मार्ग न ज्ञानादेव केवलात् ॥ १४ ॥ सिद्धस्यापास्तनिःशेषकर्मणो वागसंभवात् । विना तीर्थकरत्त्वेन नाना नार्थोपदेशना ॥१५॥ महेश्वरः समाहामंतरेणापि प्रयत्नं च ज्ञानशक्त्यैव मोक्षमार्गप्रणयनं तन्वादिकार्य च कुर्वीत महेश्वरत्वात् यथा प्रतिवादिप्रसिद्धो जिनेश्वरः प्रवचनोपदेशमिति प्रतिवादिप्रसिद्धमपि निदर्शनमनुमानस्य नोपपद्यते स्याद्वादिभिः प्रतिज्ञायमानस्य जिनेश्वरस्य ज्ञानशक्त्यैव प्रवचनलक्षणकार्यकरणासिद्धेः। सत्येव तीर्थकरत्वनामपुण्यातिशये दर्शनविशुद्धयादिभावनाविशेषनिबंधने समुत्पन्नकेवलज्ञानस्योदयप्राप्ते प्रवचनाख्यतीर्थकरणप्रसिद्धेः । प्रक्षीणाशेषकर्मणः सिद्धस्य वाक्प्रवृत्तरसंभवात्तीर्थकरत्वनामपुण्यातिशयापाये केवलिनोऽपि वाक्प्रसिद्धयसंभववत् । इति धर्मविशेषविशिष्ट एवोत्तमसंहननशरीरः केवली प्रवचनाख्यतीर्थस्य कर्ता प्रसिद्ध इति कथमसौ निदर्शनं महेश्वरस्यापि । तथा धर्मविशेषोऽस्य योगश्च यदि शाश्वतः। तदेश्वरस्य देहोऽस्तु योग्यंतरवदुत्तमः॥ १६ ॥ यस्य हि धर्मविशेषो योगविशेषश्च महर्षियोगिनः प्रसिद्धः तस्य देहोऽप्युत्तम एवायोगिजनदेहाद्विशिष्टः प्रसिद्धस्तथा महेश्वरस्यापि देहेनोत्तमेन भवितव्यं तमंतरेण धर्मविशेषस्य योगविशेषस्य वाऽनुपपत्तिरैश्वर्यायोगाद्वैराग्यायोगवत् । कुतो जगन्निमित्तकारणत्वं सिद्धचेदज्ञजंतुवन्मुक्तात्मवच्च । मतांतरमाशंक्य निराकुर्वन्नाहनिग्रहानुग्रहौ देहं स्वं निर्मायान्यदेहिनां। करोतीश्वर इत्येतन परीक्षाक्षम वचः ॥१७॥

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146