Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 26
________________ आप्तपरीक्षा। २१ नामति व्यापारकाऽनु व्यापकत्ववयव्यतिरेको कापलभेन कार्यत्वादिहेतोः कालात्ययापदिष्टत्वाच्च । तथा हि तन्वादयो न बुद्धिमन्निमित्तकास्तदन्वयव्यतिरेकानुपलंभात् । यत्र यदन्वयव्यतिरेकानुपलभंस्तत्र न तन्निमित्तकत्वं दृष्टं यथा घटघटीशरावोदंचनादिषु कुर्विदाद्यन्वयव्यतिरेकाऽननुविधायिषु न कुविंदादिनिमित्तकत्वा बुद्धिमदन्वयव्यतिरेकाऽनुपलंभश्च तन्वादिषु, तस्मान्न बुद्धिमन्निमित्तकत्वमिति व्यापकानुपलंभः तत्कारणकत्वस्य तदन्वयव्यतिरेकोपलंभेन व्याप्तत्वात् कुलालकारणकस्य घटादेः कुलालान्वयव्यतिरेकोपलंभप्रसिद्धेः सर्वत्र वाधकाभावात् । तस्य तद्वयापकत्वव्यवस्थानात् । न चायमसिद्धस्तन्वादीनामीश्वरव्यतिरेकानुपलंभस्य प्रमाणसिद्धत्वात् । स हि न तावत्कालव्यतिरेकः शाश्वतिकत्वादीश्वरस्य कदाचिदभावासंभवात् । नापि देशव्यतिरेकः तस्य विभुत्वेन क्वचिदभावानुपत्तेरीश्वराभावे कदाचित्वचित्तन्वादिकार्याभावानिश्चयात् । स्यान्मतं महेश्वरसिसृक्षानिमित्तत्वात्तन्वादिकार्यस्यायमदोष इति । तदप्यसत्यं । तदिच्छाया नित्यानित्यविकल्पद्वयानतिवृत्तेः । तस्या नित्यत्वे व्यतिरेकासिद्धिः । सर्वदा सद्भावात्तन्वादिकार्योत्पत्तिप्रसंगात् । नन्वीश्वरेच्छाया नित्यत्वेऽप्यसर्वगतत्वात् व्यतिरेकः सिद्ध एव क्वचिन्महेश्वरसिसृक्षापाये तन्वादिकार्यानुत्पत्तिसंभवादिति चेन्न । तद्देशे व्यतिरेकाभावसिद्धेः । देशांतरे सर्वदा तदनुपपत्तेः कार्यानुदयप्रसंगात् । अन्यथा तदनित्यत्वापत्तेः। अनित्यैवेच्छास्त्विति चेत् सा तर्हि सिसक्षा महेश्वरस्योत्पद्यमाना सिसृक्षांतरपूर्विका यदीष्यते तदाऽनवस्थाप्रसंगः परापरसिसृक्षोत्पत्तावेव महेश्वरस्योपक्षीणशक्तिकत्वात्प्रकृततन्वादिकार्यानुदय एव स्यात् । यदि पुनः प्रकृततन्वादिकार्योत्पत्तौ महेश्वरस्य सिसृक्षोत्पद्यते सापि तत्पूर्वसिसृक्षात इत्यनादिसिसृक्षासंतति नवस्थादोषमास्कंदति सर्वत्रकार्यकारणसंतानस्यानादित्वसिद्धेबर्बीजांकुरादिवदित्यभिधीयते तदा युगपन्नानादेशेषु तन्वादिकार्यस्यो

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146