Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 25
________________ श्रीविद्यानंदिस्वामिविरचिता ष्टस्य बुद्धिमन्निमित्तत्वसामान्यस्य साध्यस्य तत्र सद्भावात् । सिद्धे च बुद्धिमन्निमित्तत्वसामान्ये किमयं बुद्धिमान् हेतुः सशरीरोऽशरीरो वेति विप्रतिपत्तौ तस्याशरीरत्वं साध्यते सशरीरत्वे बाधकसद्भावात् । तच्छरीरं हि न तावन्नित्यमनादि सावयवत्वादस्मदादिशरीरवत् । नाप्यनित्यं सादि, तदुत्पत्तेः पूर्वमीश्वरस्याशरीत्वसिद्धेः । शरीरांतरेण सशरीरत्वेऽनवस्थाप्रसंगात् । तथा किमसौ सर्वज्ञोऽसर्वज्ञो वेति विवादे सर्वज्ञत्वं साध्यते तस्यासर्वज्ञत्वे समस्तकारकप्रयोक्तृत्वानुपपत्तेः तन्वादिकारणत्वाभावप्रसंगात् । तन्वादिसकलकारकाणां परिज्ञानाभावेऽपि प्रयोक्तृत्वे तन्वादिकार्यव्याघातप्रसंगात् । कुविंदादेर्वस्त्रादिकारकस्यापरिज्ञाने तद्वयाघातवत् । न चेश्वरकार्यस्य तनुकरणभुवनादेः कदाचिद्वयाघातः संभवति महेश्वरसमीहितकार्यस्य यथाकारकसंपतिं विचित्रस्यादृष्टादेरव्याघातदर्शनात् । यदप्यभ्यधायि तनुकरणभुवनादिकं नैकस्वभावेश्वरकारणकृतं विचित्रकार्यत्वात् । यद्विचित्रं कार्यं तन्नैकस्वभावकारणकृतं दृष्टं यथा घटपटमुकुटशकटादि, विचित्रकार्यं च प्रकृतं तस्मान्नैकस्वभावेश्वराख्यकारणकृतमिति तदप्यसम्यक् सिद्धसाध्यतापत्तेः। न ह्येकस्वभावमीश्वराख्यं तन्वादेर्निमित्तकारणमिष्यते तस्य ज्ञानशक्तीच्छाशक्तिक्रियाशक्तित्रयस्वभावत्वात् । तनुकरणभुवनाद्युपभोक्तृप्राणिगणादृष्टविशेषवैचित्र्यसहकारित्वाच्च विचित्रस्वभावोपपत्तेः घटपटमुकुटादिकार्यस्यापि तन्निदर्शनस्य तदुत्पादनविज्ञानेच्छाक्रियाशक्तिविचित्रतदुपकरणसचिवेनैकेन पुरुषेण समुत्पादनसंभवात्साध्यविकलताननुषंगात् तदेवं कार्यत्वं हेतुस्तनुकरण भुवनादेर्बुद्धिमन्निमित्तत्वं साधयत्येव सकलदोपरहितत्वादिति वैशेषिकाः समभ्यमंसत तेऽपि न समंजसवाचः । तनुकरणभुवनादयो बुद्धिमन्निमित्तका इति पक्षस्य व्यापकानुपलंभेन बाधितत्वात् १ कारकसंघातमित्यपि पाठः । २०

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146