Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 27
________________ श्रीविद्यानंदिस्वामिविरचिता त्पादो नोपपद्येत यत्र यत्कार्योत्पत्तये महेश्वरसिसृक्षा तत्र तस्यैवकार्यस्योत्पत्ति घटनात् । न च यावत्सु देशेषु यांवंति कार्याणि संभूष्णूनि तावत्यः सिसृक्षास्तस्येश्वरस्य सकृदुपजायत इति वक्तुं शक्यं युगपदनेकेच्छाप्रादुर्भावविरोधादस्मदादिवत् । यदि पुनरेकैव महेश्वरसिसृक्षा युगपन्नानादेशकार्यजननाय प्रजायत इतीष्यते तदा क्रमतोऽनेकतन्वादिकार्योत्पत्तिविरोधस्तदिच्छायाः शश्वदभावात् । अथ मतमेतत् यत्र यदा यथा यत् कार्यमुपित्सुस्तत्र तदा तथा तदुत्पादनेच्छा महेश्वरस्यैकैव तादृशी समुत्पद्यते ततो नानादेशेष्वेकदेशे च क्रमेण युगपच्च तादृशमन्यादृशं च तन्वादिकार्य प्रादुर्भवन्नविरुध्यत इति, तदप्यसंभाव्यं क्वचिदेकत्र प्रदेशे समुत्पन्नायाः सिसृक्षाया दविष्टदेशेषु विभिन्नेषु नानाविधेषु नानाकार्यजनकत्वविरोधात् अन्यथा तदसर्वगतत्वेऽपि देशव्यतिरेकानुपपत्तेः । यदि हि यद्देशा सिसृक्षा तद्देशमेवं कार्यजन्म नाऽन्यदेशमिति व्यवस्था स्यात्तदा देशव्यतिरेकः सिद्धयेन्नान्यथेति सिसृक्षाया न व्यतिरेकोपलंभो महेश्वरवत् । व्यतिरेकाभावे च नान्वयनिश्चयः शक्यः कर्तुं, सतीश्वरे तन्वादिकार्याणां जन्मेत्यन्वयो हि पुरुषांतरेष्वपि समानः । तेष्वपि सत्सु तन्वादिकार्योत्पत्तिसिद्धेः । न च तेषां सर्वकार्योत्पत्तौ निमित्तकारणत्वं दिक्कालाकाशानामिव संमतं । परेषां सिद्धांतविरोधान्महेश्वरनिमित्तकारणत्ववैयर्थ्याच्च । यदि पुनस्तेषु पुरुषांतरेषु सत्स्वपि कदाचित्तन्वादिकार्यानुत्पत्तिदर्शनान्न तन्निमित्तकारणत्वं तदन्वयाभावश्चेति मतं तदेश्वरे सत्यपि कदाचित्तन्वादिकार्यानुत्पत्तेरीश्वरस्यापि तन्निमित्तकारणत्वं माभूत् । तदन्वयासिद्धिश्च तद्वदायाता । एतेनेश्वरसिसृक्षायां नित्यायां सत्यामपि तन्वादिकार्याजन्मदर्शनादन्वयाभावः साधितः कालादीनां च, तेषु सत्स्वपि सर्वकार्यानु त्पत्तेः । स्यान्मतं सामग्री जनिका कार्यस्य, नैकं कारणं ततस्तदन्वयव्य

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146