Page #1
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः १५
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये ।। कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥
सङ्कलनमः कीर्तित्रयी दक्षिणायनम् वि.सं. २०६१
2
Jain Education interratiopat
OE Private & Personal Use Only
www.jainelibrary org
Page #2
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरु १५
शासनसम्राजामिह समुदाय मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥
सङ्कलनमः
कीर्तित्रयी
दक्षिणायनम् वि.सं. २०६१
Page #3
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः ॥ पञ्चदशी शाखा || (संस्कृतभाषामयम् अयन-पत्रम् ॥) ।
सङ्कलनम् : कीर्तित्रयी ॥
प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ||
२०६१, इ.सं. २००५
मूल्यम् : रू. १००/
प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर
१२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष : 26622465
सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः"
C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007
मुद्रण : 'क्रिष्ना ग्राफिक्स', नारणपुरा गाम, अमदावाद ॥ SO दूरभाष : 079 - 27494393
Page #4
--------------------------------------------------------------------------
________________
प्रास्ताविकम् भारतस्य भूमिरियं संस्काराणां भूमिरस्ति । अध्यात्म त्वत्र सहजतयैव | प्रवर्तते । तत्तु भारतवर्षस्य भूमिगतो गुणोऽस्ति । नात्राऽध्यात्म शिक्ष्यते किल, किन्तु दैनन्दिनचर्यायामनुस्यूतमिदं तत्त्वं जीवने सहजतयैवाऽवतरति । भूमिरेषा ऋषिमुनीनां तपोभिः, शूरवीराणां समर्पणेन, योगिनां साधनया, तपस्विनां त्यागैश्च चैतन्यपूर्णाऽस्ति । अत्रैतादृश्यां भूमौ निवसतां मनुजानामान्तरिकभूमिका कीदृशी | स्यादिति तु विचारणीयमस्ति ।
प्रश्नस्त्वद्यैष एवं यदेतादृशस्य देशस्य तत्रस्थितानां च नागरिकाणामुन्नतिः किमर्थं न परिदृश्यते ? किमर्थं च तत्तेजः प्रतिदिनं मन्दतामुपगच्छति ? अध्यात्म ह्यस्या भूमेरात्माऽस्ति, नैतिकता त्वस्याः प्राणाः । यदा किल प्राणा मन्दत्वमुपयान्ति तदाऽऽत्माऽपि निस्तेजा भवति । प्राणास्तु यावन्त ऊर्जस्विनः स्युस्तावत्येवोन्नतिरधिका भवति । भारतवर्षस्याऽधःपतनस्य मूलमस्ति नैतिकताया नैतिकमूल्यानां वा हासः । यत्र तत्र वा विकासं पुरस्कृत्य नैतिकतायाः प्राणा अपहृता अस्माभिः । विकासोन्नत्योर्मध्ये महदन्तरमस्ति । विकासो भौतिकतामवलम्बते, उन्नतिस्तु जीवनम् । विज्ञानेन विकासस्तु साधित एव किन्तु न नाम वयमुन्नताः कृतास्तेन । नैतिकताया मूलं विनोन्नतेः परिकल्पना खपुष्पात्सुगन्धेः परिकल्पनतुल्याऽस्ति । नैतिकताशून्यो विकासोऽधःपतनमेवाऽऽमत्रयति ।
प्रभूतसम्पत्तेः सम्पादनं नाम विकासः किन्तु तत्सम्पादने न्यायसम्पन्नो यो व्यवहारः क्रियते स नैतिकता । सुखसाधनानां प्राचुर्यं नाम विकासः किन्तु तदुपयोगे यो विवेकः स नैतिकता । रूप-बलादौ सत्यपि मर्यादाया औचित्यस्य वाऽनुल्लङ्घनं नाम नैतिकता । उच्चैःपदे प्रतिष्ठानमधिकारप्राप्तिर्वाऽस्ति विकासः किन्तु तदा यन्निरभिमानित्वं सन्निष्ठत्वं वा, स्वस्माच्च निम्नपदस्थितान् सामान्यजनांश्च प्रति यः रोहपूर्णो व्यवहारस्तन्नाम नैतिकता । वर्तत एवाडरमासु विकासजो मिथ्याभिमानः किन्तून्नतेर्गौरवमनुभवितुं न वयं शक्नुमः ।।
Page #5
--------------------------------------------------------------------------
________________
___ सर्वेऽप्येवमेव विचारयन्ति यत् 'तथाकथिता महान्तोऽपि उच्चैःपदस्थिता अपि च जना यदि भ्रष्टाचारमनैतिकतां वाऽऽचरन्ति तदाऽस्माभिः किमपराद्धम् ? वयमपि किमर्थं तथा न कुर्याम ?' इति । किन्तु नैषा विचारसरणिोग्या । न चैष किल पन्था उन्नतेः । नहि, नहि, भारतीयत्वं कलयत्येषा विचारसरणिः । महावीरबुद्ध-रामादिमहापुरुषाणां भूमौ किमिदं शोभतेऽपि खलु ? न हि वयं तादृशाः सत्त्वहीनाः, बालिशा वा । कालबलेन यद्यपि मोहाच्छादनं जातं बुद्धेः किन्तु सत्वरमेव तद् विच्छेत्तव्यं सम्यग्ज्ञानेन सम्यगाचरणेन सम्यक्पुरुषार्थेन च । न सामान्या वयं किन्तु ऋषिपुत्रा वयम् । अस्त्यस्माकं पायें नगाधिराजो हिमालयो यः सततमुन्नतिं सत्त्वं च प्रेरयति, अगाधो जलनिधिर्यो गाम्भीर्यं प्रेरयति, विशालं च नभो यदौदार्यं विशालतां च प्रेरयति ।
प्राणानां संरोधे यथा शारीरिक प्रक्रिया सर्वाऽपि विसंवादिनी जायते तथाऽत्र | नैतिकता अवरुद्धाऽस्ति येन च नित्यमनेके प्रश्नाः समुपस्थिता भवन्ति । अद्याऽनैतिकताया भ्रष्टतायाश्चाऽवधिः प्रवर्तते । न तादृशं किमपि क्षेत्रमस्ति यत्र भ्रष्टताभुजङ्गः फटाटोपं कृत्वोपविष्टो न स्यात् । नैतिकतया सहैव चारित्र्यमपि नष्टमेव । किन्तु नाऽत्र कस्याऽप्येकय द्वयोर्चा दायित्वमस्ति । सर्वैरप्येतद् विचारणीयम्, आत्मनिरीक्षणं वा करणीयम् । प्रजा यदि जागृता भविष्यन्ति तदा नाऽस्ति शासकानां तादृशं सामर्थ्यं यत्ते स्वानाचारान् प्रवर्तयेयुः । प्रजानामरमाकं निःसत्त्वतामवलम्ब्यैव ते तथा प्रवर्तन्ते । अतोऽरमाभिरेव किमपि करणीयमस्ति । प्रजा यदा सत्त्वसम्पन्ना भविष्यन्ति तदैव देशोऽयं समुन्नतेः पथि सञ्चरणं करिष्यति । शीघ्रमेतद् भूयाद् ।
सर्वेऽपि सुखिनः सन्तु, सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग् भवेत् ॥
इति प्रार्थयामहे । इति शम् ।
- कीर्तित्रयी |
ज्येष्ठशुक्ला पञ्चमी, वि.सं. २०६१
श्रीस्तम्भतीर्थम्
Page #6
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः'
कीर्ति दे |
नन्दनवनकल्पतरोः चतुर्दशी शाखा प्राप्ता ।
पठिता च ।
विशिष्य श्रीविजयने मिसूरिविरचिता रघुवंशद्वितीयसर्गटीका अवश्यम् अध्ययनयोग्या संग्रहयोग्या च अस्ति । यदि कृतिना तेन समग्रस्यापि द्वितीयसर्गस्य टीका विरचिता स्यात् तर्हि जिज्ञासुलोकः नितान्तम् उपकृतः स्यात् ।
इति प्रणामाः ।
॥ स्वाध्याय-प्रवचनाभ्यान्न प्रमदितव्यम् ॥
श्यामाचरणविद्यापीठ प्राथमिक सह माध्यमिक संस्कृत विद्यालय गुरुधाम बौंसी, बाँका ( बिहार )
वदान्य !
वन्दनम्
भवदीयः
विश्वासः (सं. सम्भाषणसन्देशः )
No - 5-12-762A Haridasa Lane, Manna Gudda, Mangalore - 575003
‘“नन्दनवनकल्पतरु’रचनाकारस्य सर्वविधं श्रेयः कामयमानो भगवन्तं मधुसूदनमभ्यर्थये-यदस्य देशे विदेशे सर्वत्र भूयान् प्रचारो भवतु इति ।
5
देवनारायणशर्मा
Page #7
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
आदरणीये सम्पादिके कीतित्रयि !
जयतु भारती ।
भवत्या सम्पादितस्य नन्दनवनकल्पतरोश्चतुर्दशोऽङ्कः प्राप्तः । तदर्थं साधुवादाऱ्या भवती । अत्र 'सहसा विदधीत न क्रियाम्' नाम ममैकाङ्कनाटकं प्रकाशितम्, तदर्थमहमाभारी । आचार्यविजयहेमचन्द्रसूरिणा कृता भगवदृषभस्तुतिर्दुतविलम्बितवृत्ते रम्या । अभिराजराजेन्द्रमिश्रकृता गलज्जलिका मनोहराः सन्ति । श्रीविजयशीलचन्द्रसूरिणा प्रस्तुता जैनाचार्यश्रीविजयनेमिसूरिविरचिता महाकविकालिदासकृतरघुवंशद्वितीयसर्गस्य त्रिंशश्लोकपर्यन्तं प्राप्ता टीका सारगर्भिता विद्वत्तया च परिपूर्णा विद्यते । मुनिरत्रकीर्तिविजयस्य चिन्तनधारा चिन्तनयोग्या । कथात्रयमपि वरम् । सम्पादकीयं प्रास्ताविकं मननयोग्यमस्ति । अन्या रचना अपि चित्ताकर्षणयुक्ताः सन्ति । अतो नन्दनवनकल्पतरोः प्रकाशनं निरन्तरं समये स्यादित्यहं कामये ।
भवदीयः आचार्यः रामकिशोरमिश्रः २९५/१४, पट्टीरामपुरम
खेकड़ा (बागपत) उत्तरप्रदेशः-२०११०१
।
-
Page #8
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
मान्याः,
रूपनारायणपाण्डेयः
एस्-II / 330, राज्यशिक्षासंस्थानकालोनी, एलनगञ्जः, प्रयाग: (उ.प्र.) - २११००२
सादरं प्रणामाः ।
'नन्दनवनकल्पतरो:' चतुर्दशोऽङ्कोऽधिगतः । 'प्रास्ताविके ' सत्यमुच्यते । आधुनिक समाजे ये दुर्जनाः सन्ति, ते हिंसा हत्यां साहसिकानि च कर्माणि कृत्वा निर्भया विचरन्ति तेषां कृते किमपि विधानं न वर्तते; किन्तु ये साधवः, सज्जनाः सत्कर्मणि च रताः सन्ति, ते जगद्गुरुशङ्कराचार्यसदृशा अपि कारावासे निपीड्यन्ते । वयं पश्यामः कस्मिन्नपि कार्यालये उत्कोचं विना वैधकार्यमपि न सम्पन्नतां याति । विषयेऽस्मिन् सर्वैर्गाम्भीर्येण चिन्तनीयम् । यावत् समाजे सत्यस्य न्यायस्य सदाचारस्य प्रतिष्ठा न स्यात्, तावत् सर्वा समुन्नतिर्वृथैवास्ति । आचार्यश्रीविजयनेमिसूरिविरचिता रघुवंशद्वितीयसर्गटीका वैदुष्योपेता विद्वद्ग्राह्या विद्यते । पूर्वमपि प्रकाशितं नाटकं 'सहसा विदधीत न क्रियाम्' शिक्षाप्रदं रोचकं च वर्तते । एतदर्थं डा. रामकिशोरमिश्रो धन्यवादमर्हति । अन्या अपि रचना रम्याः सांस्कृतिक परम्परां च संवर्धयन्ति । यत्र तत्र सूक्तयो हास्यवचनानि पत्रिकायाः सौन्दर्यं वितन्वन्ति । जयतु संस्कृतं संस्कृतिश्च ।
7
-
Page #9
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
नन्दनवनकल्पतरुसम्पादिके कीतित्रयि ।
स्वीकरोतु मम साभिनन्दनं वन्दनम् ।
नन्दनवनकल्पतरोः चतुर्दशोऽङ्कोऽधिगतो मुन्द्रानगरे भवत्कृपाप्रसादरूपेण ।
"भगवन् ! समेषां सन्मतिं दद्याः" इति प्रास्ताविकं समयोचितम् । 'सहसा विदधीत न क्रियाम्' नाटिकां पठित्वा मनसि हर्षोल्लासो जातः । मम महाविद्यालये करिष्यामि अस्य नाट्यप्रयोगमिति मनःसंकल्पो जातः ।
मुनिधर्मकीर्तिविजयसम्पादिता आचार्यश्रीविजयनेमिसूरिविरचिता 'रघुवंश-द्वितीयसर्गटीका' अभ्यासपूर्णा मनोरम्या च । विविधा-भ्याससन्दर्भसहिता विशदा तात्पर्यबोधिनी मर्मग्राहिणी चाऽस्ति । मुनिरत्नकीर्तिविजयकथिता आस्वादानुगता कथा रम्या वर्तमान-समयानुरूपा च । धर्मवर्णजातिभेदं विस्मृत्य सेवाधर्मो ह्याचरणीय इत्युपदेशने मुनिना सम्यगोपदेशः कृतः ।
अन्यान्यतीव सुन्दराणि पुष्पाणि सन्ति कल्पतरोरुपरि । भवतु, अस्याः पत्रिकायाः प्रकाशनं सततं कामयेऽहम् । ।
IMWARA
EM
ant
भवदीयः
डॉ. कान्तिगोरः
MARAamirmiY
JAN
.
.
.
Page #10
--------------------------------------------------------------------------
________________
More वाचकानां प्रतिभावः ..
)
A
संपादकमहोदय !
सञ्चिकाऽतीव सुन्दरमास्ते । रघुवंशः टीकया सह पठितः । आगामिसञ्चिकां प्रतीक्षे।
वेङ्कटरामु ३१७, ७ मेइन् नागेन्द्र कालोनी, बेंग्लूर-५६००५०
मान्यवर्याः,
नमस्कारः ।
पत्रिकायाः चतुर्दशाङ्को मया पठितः । प्रास्ताविकं तु शोभनं भवत्येव परं प्रास्ताविकमिदमतीव शोभनम् । यत: 'सुनामी' रूपेण प्रकृत्या दत्तः सङ्केतोऽस्माकं ध्यानमाकृषति । किं बोधयत्ययं सुनामीकाल इत्यस्मिन् विषये सम्यग् विवेचनं कृतमस्ति । इतोऽप्यस्याऽङ्कस्य रघुवंशद्वितीयसर्गटीका मह्यमतीवाऽरोचत । पठित्वा मनः प्रसन्नं जातम् । इयं टीका मत्सदृशानां छात्राणां कृते न केवलं ज्ञानदायिनी, अपि तु परीक्षायामङ्कदायिनी व्याकरणज्ञानपरिमार्जिन्यपि अस्ति । व्याकरणसूत्रोल्लेखेन टीकायाः शोभा वृद्धिमुपैति । एतादृशी टीकाऽऽगामिन्यङ्केऽपि भवेत्, इत्यहं कामये ।
रामविकाशमिश्रः पाइबिगहा, गया (बिहार)
Page #11
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
पूज्यमुनिवर्यश्रीविजयशीलचन्द्रसूरे !
सादरप्रणामाः ।
प्राप्ता विनूतना शाखा नन्दनवनकल्पतरोः । आभाणकजगन्नाथविभागे हासेन सह गम्भीरसत्यानि निरूपितानि सन्ति । "पत्रम्" विभागे पङ्कजस्य निरीक्षणमनेकदृष्ट्या कृतं, कारितञ्च । प्रारम्भतः एव "मङ्गलकलशः" इत्यस्याः कथायाः प्रवाहोऽविच्छिन्नरूपेण अचलत्, परन्तु कथान्तो नीरसोऽनुभूतः ।
डॉ. महेश्वरः द्विवेदी
नन्दपुरम् ।
10
Page #12
--------------------------------------------------------------------------
________________
| वाचकानां प्रतिभावः
"आ नो भद्राः क्रतवः विश्वतः यन्तु" "सर्वमङ्गलमांगल्ये, शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि, नारायणि नमोस्तु ते ॥" आदरणीयमहोदय ! सादरं नमस्कारः ।
अहं भवतां समक्षं निवेदयामि यत् नन्दनवनकल्पतरोादशी शाखा मया प्राप्ता मित्रतः । । पठनादतीव पुलकितः जातः । अस्यां शाखायां काव्यानि तु अद्भुतानि सन्ति । नन्दनवनकल्पतरुलेखा मह्यमतीव रोचन्ते ।
यथा- "कादम्बरीरसज्ञानां आहारोपि न रोचते ।" तथैव"नन्दनवनकल्पतरुरसज्ञानामाहारोपि न रोचते ।" इति मे मन्तव्यम् । अहं नन्दनवनकल्पतरोरभिलाषी अस्मि ।
प्रा. सुरेशचंद्र एम्. पंड्या पी.टी.सी. कोलेज, शामलाजी, ता. भिलोडा, जि. साबरकांठा-३८३३५५
सम्पूज्याः विजयशीलचन्द्रसूरयः, सादरं प्रणतयः ।
'नन्दनवनकल्पतरुः' इत्यस्य सामयिकस्य सप्तमी शाखा मया दृष्टा । OY/5 कीर्तित्रय्याः समुचितः यत्नः नूनं श्लाघनीयः ।
संस्कृत-संस्कृतिसंरक्षणार्थं मुनिवर्याणामाशीर्वादैः कृतोपक्रमश्चैषः धन्यवादार्हः । साम्प्रतेऽस्मिन्काले सरलायाः संस्कृतभाषायाः अर्धमागधीभाषायाः च माध्यमेन विरचितं, तथैव प्रकाशितं संस्कारदं साहित्यं सादरमावकार्यम् । प्रयत्नेऽस्मिन् संलग्नानां समेषां वन्दना विधीयते ।
प्रा. डॉ. वासुदेव वि. पाठक: ‘वागर्थः'
३५४, सरस्वतीनगर, आंबावाडी, हिंमतलाल पार्कके सामने, अहमदाबाद-१५
11
Page #13
--------------------------------------------------------------------------
________________
अनुक्रमः WWWWWWWWWWWowww
कृतिः
कर्ता
पृष्ठम्
11 आर्या-पाचार्विशतिका ।।
आ० विजयहेमचन्द्रसूरिः
श्रीमहावीराष्टकम् मानाय महान
वीराया
राजेशकुमारमिश्रः ४
नमो वध
डॉ. रामकिशोरमिश्रः
प्रणम् पाणिनि वैयाकरणम्।
गलज्जलिकाः
डॉ. अभिराजराजेन्द्रमिश्रः ८
० जीविष्यामि किन्न तथापि
सोऽहम् ० न मां सहन्ते
12
Page #14
--------------------------------------------------------------------------
________________
अनुक्रम: 00000000000000000 गाल
कृति:
स्वाध्याय:
मार्गानुसारिणः पञ्चत्रिंशद् गुणा:
आस्वाद:
ग्रन्थसमीक्षा
000000000000000000000000000000
कर्ता
चिन्तनधारा
भक्तिः
पत्रम
'साहित्यसुरभिः
पृष्ठम्
For Priva1 3 Personal Use Only
मुनिरत्नकीतिविजय: ११
मुनिरत्नकीर्तिविजय: १८
डॉ. महेश्वरः द्विवेदी २०
मुनिधर्मकीर्तिविजयः २२
डॉ. रूपनारायणपाण्डेयः २८
Page #15
--------------------------------------------------------------------------
________________
-
ance
Noti.
अनुक्रमः OMOMoWowwwwwwwwwwwws कृति:
कर्ता
पृष्ठम् र स्पर्शरहस्यम्मु निरत्नकीर्तिविजय: ३१ कथा
मुनिकल्याणकीर्तिविजयः ३२
डॉ. रामकिशोरमिश्रः ४६
मुनिधर्मकीर्तिविजयः ४९
किनाम ज्येष्ठत्वम्
कीर्तित्रयी ७१
AATAAR
प्राकृतविभाग:
शिका।स्व. आ. विजयपद्मसूरिः ७४
॥श्रीहितोपदेशद्वात्रिंशिका ॥स्व. आ. विजयपासूरिः ७४ (कथा) रोहगुत्तस्स गाहाखण्डपूरणं
- पं. अमृतपटेलः ७८
For Private & 14sonal Use Only
Page #16
--------------------------------------------------------------------------
________________
|| आर्या-पञ्चविंशतिका ।।
आ० विजयहेमचन्द्रसूरिः
(परमात्मप्रार्थना)
अहूँ - पदकजममलं, न्यक्कृतसुररलकामघटकल्पम् । मम हृत्ससि विनिद्रं, वितरतु लक्ष्मीमनाबाधाम् ॥१॥ भ्रामं भ्रामं भगवन् ! भवेष्वनेकेषु दुःखबहुलेषु । अद्य मया त्वं लब्धः, प्राक्तनपुण्यप्रकर्षण
રો अयि जगदीश्वर ! जय जय, जय जय दुरिताब्धिशोषणागस्ते ! । संसारामयधन्वन्तरिसन्निभ ! सर्वदा जयतात्
॥३॥ नास्ति जिनेश्वर ! तव गुण-कवने स्वल्पाऽपि मे प्रभो ! शक्तिः । शिशुरिव तदपि गुणांस्ते, गातुं भक्त्योद्यतो भगवन् ! ॥४॥ प्राप्ता चेत्तव पदयो-भक्तिर्भगवन् ! तदाऽन्यदाप्यं किम् ?। तामन्तरेण लब्धं, व्यर्थमिदं निखिलमपि भुवनम् ॥५॥ परितो दुःखदवानल-दग्धमशरणं समस्तमरित जगत् । शमयितुं तं समर्थो, नाथ ! त्वं पुष्करावर्तः प्राप्याऽपि त्वच्छासन-मच्छं भगवन् ! प्रमादपरतत्राः । वर्तामहे न मार्गे, यथोदिते तन्महद् दुःखम्
॥७॥ विद्याऽभ्यस्ताऽधिगता, कीर्तिः प्राप्ता च विश्रुतिर्विश्वे । नो चुच्चेतःशुद्धि-र्जनितैताभिः किमफलाभिः
દો भीमभवाब्धेरस्मात्, त्वया विभो ! तारिता जना नैके । मम तारणवेलाया-मद्यैव किमिति विलम्बयसिं
sો
॥६॥
AM
PAPAJWM
Satta
Plattetos
पिपराजय
Prospeectatray
Page #17
--------------------------------------------------------------------------
________________
A
तत्र विलम्बे हेतु-र्यदि जिन ! तादृक्षयोग्यताविरहः । त्वदधीनैव हि सा खलु, तत्तां मे देहि कृपयेश ! ॥१०॥ संसारसागरं त्वं, येनोपायेन नाथ ! सन्तीर्णः । कृपया तं मे दर्शय, येन भवेयं तवाऽनुचर:
॥११॥ त्वादृशि सत्यपि नाथे, मे नश्येच्चेन्न भावदारिद्र्यम् । ब्रूहि तदा कस्याऽग्रे, नाथाऽहं पूत्करोम्युच्चैः
૨ો त्वं चेन्निजहृदये मां, दधासि नो नाथ वीतरागत्वात् । हृदये मम किं वासं, तथाऽपि जिनराज ! नाऽऽश्रयसे ॥१३॥ आवां भवेत्र भगवन् ! चिरमेकत्र सहवासमध्युषितौ । अशिवे मां मुक्त्वा किं, शिवं प्रयातो ? न तद्युक्तम् ॥१४॥ अथ मां नाथ ! निभालय, प्रसादपूर्णेन चक्षुषा दासम् । कृतमागोऽद्यावधि यत्, क्षमस्व तत्सर्वमपि देव ! ॥१५॥ त्वयि विश्वस्य शरण्ये, प्रारब्धः शिवपुरप्रवासोऽयम् । पन्थानमर्धमाप्तं, मामथ किमुपेक्षसे नाथ ! ॥१६॥ सिंह इव मे वसेच्चेद्-हृगिरिकुहरे निरन्तरं देव ! । न तदा कुमतमतङ्गज-यूथभयं स्वल्पमपि मे स्यात् ॥१७॥ प्रभवतु मुक्तिर्वा मा, भवतु सदा त्वत्पदान्जसेवैव । सा चेन्निश्चलभावा, भवेत्तदा नाऽन्यदवशिष्टम् ॥१८॥ जन्मेदं मम सफलं, स्वामिन् ! जज्ञे त्वदीयदर्शनतः । आमोक्षं तत्प्रतिभव-मस्त्विति विज्ञप्यते नितराम् एतत्प्रार्थनमनिशं, भूयो भूयो विधीयते नाथ ! । त्वच्चरणाम्बुजयमले, श्लिष्यतु मे भूङ्गवच्चेतः ।
VVV
॥१९॥
॥२०॥
Fadnaamenopsara
Page #18
--------------------------------------------------------------------------
________________
जलधिगभीरहृदस्ते, सत्पुरुषाः सन्ति सर्वसमचित्ताः । निर्गुणमपि निजरक्तं, भक्तं ते तारयन्त्येव
॥२१॥ अपरं किं मे प्रार्थ्यं, भुवने निखिले त्वदीयसेवातः । स्वर्धेनौ लब्धायां, किमन्यदवशिष्यते लभ्यम् ॥२२॥ त्वदर्शनलाभेन, नष्टं मिथ्यात्वमन्धतमसं मे। जातच सुप्रभातं, सम्यक्त्वार्कः समुज्ज्वलितः ॥२३॥ नाउरत्यथ मे भवभीति-र्मृत्युजराव्याधिदुःखमपि नष्टम् । प्रकटितमन्तोतिः, परमानन्दश्च सम्प्राप्तः
॥२४॥ कामं नमाम्यहं स्वं, वितरामि सहस्रशो यशोवादान् । यदमितफलदातुरतव, समागमो यस्य मे जातः તારી इति देवोऽर्हन्नीतः, स्तुतिमार्यापञ्चविंशिकायोगात् । गुरुनेमिसूरिविजया-मृतदेवपदाब्जभृङ्गेण
॥२६॥
N
MAN
।
त्रिदोषो जायते यक्ष्मा, गो हेतुचतुष्टयात् । वेगरोघात् क्षयाच्चैव, साहसाद्विषमाशनात् ।।
(आचाराङ्गटीका)
PAGAUMWOMANANA
MPucapana
Page #19
--------------------------------------------------------------------------
________________
श्रीमहावीराष्टकम् अर्धमानाय महावी
वीराया
नमोवर्धक
राजेशकुमारमिश्रः अध्यापक:- राजकीय इण्टर कॉलिज, नागराजाधारः (बमुण्ड), पत्रालयः-कखबाड़ी, वाया-चम्बा (टिहरीगढ़वालः) उत्तराञ्चलप्रदेश:-२४९१४५
चतुर्विंशाय तीर्थङ्कराय त्रिशलासुताय महाजिनाय जैनधर्मजनकाय समाजपूज्याय
नमो वर्धमानाय महावीराय ॥१॥
आदौ श्वेताम्बराय जैनदेवाय पश्चाद् दिगम्बराय साधुवराय ज्ञानप्रदाय जनताशुभचिन्तकाय
नमो वर्धमानाय महावीराय ॥२॥
कुण्डलपुरवासिवीराय कृपाकराय तापसवृद्धाय जैनप्रवर्तकाय मुनीन्द्राय सिद्धार्थनन्दनाय
नमो वर्धमानाय महावीराय ॥३॥
Page #20
--------------------------------------------------------------------------
________________
समत्वदाय भाषोपदेशकाय
शर्मदाय जनतासमताप्रदाय शान्तिप्रदाय भुविनिर्भयाय
नमो वर्धमानाय महावीराय ॥४॥
कुशाग्रबुद्धिवराय सन्मतिप्रदाय विप्रादिशूद्रसमतादर्शकाय परिग्रहरहिताय जनताहिताय
तीर्थप्रवर्तकाय सन्मार्गदाय
नमो वर्धमानाय महावीराय ॥५॥
परपीडाहराय सत्याऽहिंसक कर्मकाय कल्याणदाय जगतीजनसौख्यदाय संसारवैरहाय मैत्रीकराय
नमो वर्धमानाय महावीराय ॥६॥
जातिवर्णविरोधिपुरुषवराय
साधारणादिजन शर्मसमीक्षकाय
नमो वर्धमानाय महावीराय ॥७॥
आध्यात्मिकाय श्रावक संघदाय
धर्मार्थशिक्षकवराय मधुचाचकाय ध्यानाय योगनियमादिकपालकाय नमो वर्धमानाय महावीराय ॥८॥
10
Page #21
--------------------------------------------------------------------------
________________
पूर्णम् पाणिनि वैयाकरणम्
डॉ. आचार्यरामकिशोरमिश्रः
___२९५/१४, पट्टीरामपुरम् खेकड़ा (बागपत) उत्तरप्रदेश:-२०११०१
अष्टाध्यायीरचनाकारम्, वैयाकरणकण्ठकृतिहारम्, दाक्षीपुत्रं व्रज तं शरणम्,
प्रणम पाणिनिं वैयाकरणम् ॥१॥ गुरुपवर्षप्रसादयितारम्, योऽकृत संस्कृतस्य चोद्धारम्, भाषानियमसूत्रनिर्झरणम्,
प्रणम पाणिनि वैयाकरणम् ॥२॥ • जनके नाऽज्ञातेन हि जातम्, . मातुम्निा भुवि विख्यातम्,
शाकल्य-स्फोटायन-भरणम्,
प्रणम पाणिनिं वैयाकरणम् ॥३॥ 'इको यणचि' इह प्रत्याहारैः,
यः सूत्रयति हि विविधप्रकारैः । • सुध्युपास्य-मध्वरि-संस्मरणम्,
प्रणम पाणिनिं वैयाकरणम् ॥४॥
६
Page #22
--------------------------------------------------------------------------
________________
-
| *
सुरेश आद्गुणः' करोति सिद्धिम्, 'वृद्धिरेचि' सर्वदैव वृद्धिम् । द्वयोः सूत्रयोः संस्मृतिकरणम्,
प्रणम पाणिनि वैयाकरणम् ॥५॥ हिमालयो दीर्घेण हि सिद्धः, श्रीशस्त्वीकारेण हि वृद्धः । अक: सवर्ण दीर्घस्मरणम्,
प्रणम पाणिनिं वैयाकरणम् ॥६॥
*
'शिवेहि' ओमाडोः पररूपम्, 'हरेऽव विष्णोऽव' पूर्वरूपम्, एङ: पदान्तादतिस्मरणम्
प्रणम पाणिनिं वैयाकरणम् ॥७॥
*
'देवायिह' पाणिनिमतमेतत्, _ 'देवा' इह' शाकल्यमते तत् ।।
हरी रम्योऽणो दीर्घरमणम्,
प्रणम पाणिनिं वैयाकरणम् ॥८॥
*
*
। १. अत्र 'लोपः शाकल्यस्य' इतिसूत्रेण 'य'लोपो भवति ।
Page #23
--------------------------------------------------------------------------
________________
-
.
..
.
जीविष्यामि किन्न तथापि
डॉ. अभिराजराजेन्द्रमिश्रः
न लपेन्मया सह कोऽपि जीविष्यामि किन्न तथापि अहमेव वा न लपानि, जीविष्यामि किन्न तथापि ॥१॥
अश्रुतकथितवेपथुकथोऽथ च निर्निदाघोऽहम् तुहिनाचलो यद्यरिम, जीविष्यामि किन्न तथापि ॥२॥ कोकिलरवैरथ वञ्चितं शाखोटकछुरितम् यद्यरिम मरुवणमेव, जीविष्यामि किन्न तथापि ॥३॥ निस्तारकं व्योमाऽथवाऽस्ततरङ्गकोऽप्युदधिः वनमेव निस्तरु हन्त, जीविष्यामि किन्न तथापि ॥४॥
सुखदुःखयुग्मसमञ्चितं यदि भूतलं सकलम् तत्राऽस्मि जातः कोऽपि, जीविष्यामि किन्न तथापि ॥५॥
धात्रा धरित्र्यां निर्गुणं सृष्टं न किञ्चिदहो यद्यस्मि बर्बुर एव, जीविष्यामि किन्न तथापि ॥६॥
एकान्तमपि रमयेत्क्वचित् कोलाहलोद्विग्नान् यदि शून्यमेव भवामि, जीविष्यामि किन्न तथापि ॥७॥
Page #24
--------------------------------------------------------------------------
________________
*
*
*
411
8
1144
)
सोऽहम्
डॉ. अभिराजराजेन्द्रमिश्रः
अहितं न येनाऽकाङ्कितं कस्यापि, तं दिष्ट्या अवशिष्टमेकं भूतले पश्यत जनाः सोऽहम् ॥१॥ बुधमानलोलुपमेडमूकमपीश्वरं मेने । निपुणं तमात्माराममिह पश्यत जनाः सोऽहम् ॥२॥ दुःखं चखाद पपौ रुषं ननु परिदधे निन्दाम सुष्वाप यस्ससुखं तदपि पश्यत जनाः सोऽहम् ॥३॥ मानोज्झितं पित्रार्पितं क्रीतञ्च के नाऽपि यूपे वधाय निबद्धमथ पश्यत जनाः सोऽहम् ॥४॥ मुख्यार्थबाधे समुदितं गौणं प्रयोजनजम् लक्ष्यार्थमिव काव्ये स्थितं पश्यत जनाः सोऽहम् ॥५॥ अशृणोत् खलानां वक्तृतां यो विस्मितस्सदयम् जडभरततां संसदि गतं पश्यत जनाः सोऽहम् ॥६॥ स्वपराजयं स्वीकर्तुमेव पुरस्ससार सदा मत्वा सपत्नं हतधियं पश्यत जनाः सोऽहम् ॥७॥ अधरोत्तरं निजजीवनं वाड्मयमहो कृत्वा योऽपूपुजद् वागीश्वरीं पश्यत जनाः सोऽहम् ॥८॥ आयान्ति यान्ति कवीश्वराः कतिधा न लोकेऽस्मिन् सुषुवेऽभिराजी यमजितं पश्यत जनाः सोऽहम् ॥९॥
Page #25
--------------------------------------------------------------------------
________________
__न मां सहन्ते
डॉ. अभिराजराजेन्द्र मिश्रः
अमी ध्वाक्षास्तथापि न मां सहन्ते पिकोऽहं साममाधुर्यं मदन्ते ॥१॥
पुरे ग्रामे वने पथि मरुवणे वा क्व यामि प्रायिकाः परितः प्लवन्ते ॥२॥
रहसि सम्प्रेक्ष्य चरितं वैष्णवानाम् मया श्रद्धाऽहिता सम्प्रति भदन्ते ॥३॥
कृतघ्ना लक्षकोटिमिताः समाजे कृतज्ञः कः कलावस्मिन् दुरन्ते ॥४॥
गृहे कामं त्वदीये मेऽस्तु निन्दा परन्त्वारते यशो मे दिग्दिगन्ते ॥५॥
अलम्मत्ताडनैः पटहोऽस्मि नाऽहम् धुवं वेणुस्समीहे चुम्बनन्ते ॥६॥
नमरयभिराजगीतकथानिबन्धाः क्व नो सम्प्रति खगीभूयोड्डयन्ते ॥७॥
१०
Page #26
--------------------------------------------------------------------------
________________
मार्गानुसारिणः पञ्चत्रिंशद् गुणाः
मुनिरत्नकीर्तिविजयः
मार्गो नाम धर्मः । धर्मो ह्यनिवार्यमङ्गं जीवनस्य । धर्म एव मनुष्यमन्येभ्यः प्राणिभ्यः सकाशात् पृथक् करोति । “धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः" इत्युक्तिः सुज्ञातैवाऽस्माकम् । किन्तु धर्ममार्गस्याऽभिज्ञानमनुसरणं च न तावत् सुकरम् । तत्राऽधिकारः सम्पादनीयो भवति । अधिकारित्वं विना क्रियमाणो धर्मो न | फलति । अतो धर्ममार्गमनुसिसरिषुणा ह्यधिकारित्वसम्पादनाय केचिद् व्यावहारिकगुणा | अनिवार्यतयाऽङ्गीकरणीया भवन्ति । तादृशो गुणिजन एव धर्ममार्गं सम्यगनुसर्तुं प्रभवति । । यो नाम व्यवहार धर्ममेव सम्यग् नाऽभिजानाति न वाऽऽचरितुं शक्नोति स कथं नामाऽऽत्मधर्मं | विजानीयात् समाचरेद् वा ? अतः प्रथमं तावत् स्वकीयं व्यवहारं परिशील्य तत्राऽऽवश्यकानां गुणानां कृते एव प्रयत्नः करणीयः । तदनु चाऽनुसृतो धर्ममार्गः सफलो भवति साध्यं च प्रापयति ।
स्वाध्यायः
तादृशो गुणी मार्गानुसारीत्युच्यते । तस्य पञ्चत्रिंशद् गुणाः कलिकालसर्वज्ञ श्रीमद्हेमचन्द्रसूरिपुङ्गवैर्दर्शिताः सन्ति । तद्यथा
न्यायसम्पन्नविभवः - प्रथमोऽयं गुणो न्यायसम्पन्नता । न्यायसम्पन्नता एव विभवः, यतः साऽऽत्मगौरवं सम्पादयति, चिरस्थायिने च सुखाय भवति । अन्यायोपार्जितो विभवः साधनानि तु कदाचित् समुपलम्भयेदपि, न किन्तु सुखम् । अद्य बहवो जना: सन्ति ये सत्यपि विभवे भयग्रस्ता भयत्रस्ताश्च जीवन्ति । सत्स्वपि सुखसाधनेषु सुखलेशमपि ते नाऽनुभवन्ति । यतोऽन्यायो भयमेव जनयति । अभयं तु न्यायेनैव सम्पद्यते । न्यायेन व्यवहारनैर्मल्यमपि सम्पद्यते । यस्य व्यवहारो निर्मलो नाऽस्ति तस्य धर्म: कथं निर्मलो भवेत् ? अतो न्यायेनैव व्यवहर्तव्यमस्माभिः । स एव समीचीनः
पन्थाः ।
२. शिष्टाचारप्रशंसकः - देश - कालानुरूपं यः सर्वत्र सम्यग् व्यवहरति स शिष्टः ।
११
Page #27
--------------------------------------------------------------------------
________________
DODDDDDDDDDDDDDDDDDDDDI
तादृशानां शिष्टजनानां-उत्तमजनानां य आचारस्तस्य प्रशंसको भवेत् । न किन्तु ईर्ष्यादिभिः प्रेरितोऽसूयां कुर्यात् । सदाचारस्य पक्षपातेनैव तथाऽऽचरितुं स्वयमपि शक्तो भवति मनुष्यः । सतां प्रशंसक एव च सन्मार्ग प्राप्तुं प्रभवति । अत एव चला स्वार्थसाधनं पुरस्कृत्याऽपि न कदाप्यशिष्टानां पुरस्कर्ता भवेद् येन ते तदाचाराश्च समाजे राज्ये राष्ट्रे वा बलवन्तो भूत्वा हानि जनयेयुः ।। कुलशीलसमैः सार्धं कृतोद्वाहोऽन्यगोत्रजैः - यस्य कुलं शीलं च समाने स्तः, गोत्रं च भिन्नमस्ति तेन सहैव कृतविवाह: स्यात् । पितृ-पितामहादिर्यः पूर्ववंशः स कुलमित्युच्यते, भोजनादीनां चाऽऽचारः शीलमुच्यते । एते द्वे अपि स्त्रीणां पुरुषाणां च समाने स्याताम् । गोत्रेण तुल्यैः समं विवाहो नाऽनुमतः । एषा च मर्यादाऽस्ति प्रत्येकं कुलस्य । तत्र च रहस्यमप्यस्त्येव । अद्य तु बहुलतया मर्यादापालनं शिथिलं जातं दृश्यते । तस्य च कटुविपाकानप्यनुभवन्ति सर्वे । पापभीरुः - पापाद्भयमेव धर्ममार्गस्य प्रथमा योग्यता । अन्धकार-प्रकाशयोरिव पापधर्मयोर्मध्ये विरोधोऽस्ति । एकस्य स्थितावन्यस्याऽनवस्थितिरेव भवति । उभयोरपि सहावस्थानं तु कदापि न सम्भवत्येव । अतो धर्मं चिकीर्षुणा जनेन सदैव पापाद् भेतव्यम् । यो नाम पापाद् बिभेति तस्य मृत्योरपि भयं न विद्यते । प्रसिद्धं च देशाचारं समाचरन् - स्वस्य देशस्य या मूलभूताऽऽचारपरम्परा तामेव सम्यगनुसरेत् सम्यगनुपालयेच्च । “परधर्मो भयावहः" इत्यार्षवचनं खलु ! अतः स्वसंस्कृतेरेव पुरस्कर्ताऽनुसर्ता च भवेत् । यो हि स्वदेशप्रसिद्धान् ऋषिप्रणीतानुत्तमानप्याचारान् परित्यज्य परकीयान् श्रवणमधुरानाचारानङ्गीकरोति स उभयतो भ्रष्टो भवति । तस्य स्वधर्मोऽपि नष्टो भवति । अवर्णवादी न वापि राजादिषु विशेषतः - कस्यचिदप्यवर्णवादं न कुर्यात् । तत्राऽपि विशेषतो राजादीनां तु नैव कुर्यात् । राजादीनामभावे वर्तमानकाले प्रधानपुरुषादयो ग्राह्याः । अवर्णवादस्याऽऽश्रयणं स एव करोति यः सत्यमुच्चारयितुं न क्षमः । असहिष्णुरीालुर्वा जन एवाऽवर्णवादं करोति । यश्च गम्भीरः सत्यप्रियश्च भवति स सर्व पात, अवसरं च प्राप्य यदपि कथनीयं करणीयं वा भवति तत् सौम्यतया कथयति करोति च । तादृशस्य वचनं सर्वग्राहि भवति । यस्तु निन्दापरो भवति स का
गगनलालगनगन
Page #28
--------------------------------------------------------------------------
________________
शनैः शनैः समाजेऽप्रियो विश्वासानहश्च जायते । सत्यमपि तस्य वचनं न कोऽप्यङ्गी-el करोति। अनतिव्यक्तगुप्ते च स्थाने सुप्रातिवेश्मकः, अनेकनिर्गमद्वारविवर्जितनिकेतन:अतिव्यक्ते स्थाने, अतिगुप्ते च- ग्रामाद् नगराद् वा दूरे एकान्तस्थाने गृहं न निर्मातव्यम् । गृहे प्रवेशनिर्गमनार्थं च बहूनि द्वाराणि न स्युस्तथाऽऽयोजनं कर्तव्यम् । अपरं च, प्रतिवेशिनोऽपि यत्र सज्जनाः सहायकारकाश्च भवेयुस्तत्र गृहनिर्माणं कर्तव्यम् । एतच्च न सर्वमपि स्वस्य, स्वपरिवारस्य, स्वसम्पत्तेः, संस्काराणां च रक्षणाय जायते । कृतसङ्गः सदाचारैः - उत्तमाचारवद्भिः सद्भिः सहैव संसर्गं स कुर्यात् । सम्पद इव संस्कारा अपि रक्षणीयाः संवर्धनीया एव, तदर्थं चैतदमोघमालम्बनमस्ति । पदे पदे चाऽसत्संस्कारोत्तेजकानि निमित्तानि समुपलभ्यन्ते, तादृशे समये सतां सङ्गतिः कवचायतेऽस्माकं कृते । योऽसत्संस्कारेभ्योऽसदाचारेभ्यश्च स्वस्य रक्षणं करोति स एव धर्मं हृदये आधातुं प्रभवति । मातापित्रोश्च पूजकः - सदैव मातापित्रोराज्ञाधीनेन भवितव्यम् । तदेव तयोः पूजनम् । मातापितरौ ह्यार्यावर्ते आदिदेवत्वेन प्रतिष्ठितौ स्तः । यो मातापितरौ न तोषयति नाऽपि तेषां प्रीतिं सम्पादयति स कथं नामेश्वरं तोषयितुं तत्प्रीतिं सम्पादयितुं (C) च प्रभवेत् ? 'मातृदेवो भव', 'पितृदेवो भव' - इत्यादयः सन्त्यार्यसंस्कृतेः संस्कारमन्त्राः, ये चाऽऽबाल्यादेव कर्णातिथयः क्रियन्ते । अन्यः सर्वोऽपि धर्मो मातापितृचरणानां हृदयतुष्ट्यैव सिध्यति, नाऽन्यथा । बहुविचारणीयमेतद् वर्तमानकाले । मातापित्रोरतुष्टावन्यः प्रभूतोऽपि कृतो विकासो न सुखाय जायते तात्मविकासरूपस्य
धर्मस्य तु का कथा ? १०. त्यजन्नुपप्लुतस्थानम् - यत्र स्थाने पुन: पुनरुपद्रवा जायन्ते तादृशे स्थले वासो न
करणीयः । यतो भयद्रुते वातावरणे जीवनस्य दैनन्दिनव्यवहारोऽपि सम्यग् न प्रचलति -
तत्र धर्मस्य तु का गतिः ? ११. अप्रवृत्तिश्च गर्हिते - गर्हितेषु - निन्दितेषु कार्येषु प्रवृत्तिं नैव कुर्यात् । यस्मिन् कार्ये ।
कृते सति लोकापवादः स्यात्, कुलगौरवस्याऽऽत्मगौरवस्य च हानिः स्यात् तत्
०
OOOOOOOणगगनगलागील
Page #29
--------------------------------------------------------------------------
________________
DDDDDDDDDDDDDDDDDDDDDD
___ कदापि न करणीयम् । गहिते प्रवर्तनेन समाजे कुटुम्बे चाऽप्यप्रियो भवति । १२. व्ययमायोचितं कुर्वन् - आयं विचार्य तदनुरूपमेव व्ययं कुर्यात्, येन मनस्तापो न )
स्यात् । विवेको हि सर्वत्राऽऽवश्यकः । "प्रावारकप्रमाणमेव पादप्रसारणं कर्तव्यम्" (C)
इत्येषोक्तिरपि प्रसिद्धाऽस्ति । तथा व्यवह”व सुखी भवति । १३. वेषं वित्तानुसारतः - स्वकीयार्थव्यवस्थानुरूप एव वेषः परिधातव्यः । 'वित्तानुसारतः' el
इत्यस्य तात्पर्य न केवलं धनस्य न्यूनाधिकतायामस्ति किन्तु मर्यादायामप्यस्ति । वेषो कि यथा वित्तं द्योतयति तथा चित्तमपि द्योतयति । एष कुलीनः संस्कारी वा, अस्य का विचाराः कीदृशाः - इत्यस्य निर्णयो वेषेणाऽपि कर्तुं शक्यते । वेषो बहुमूल्योऽल्पमूल्यो वा स्यात् किन्तूबॅटो वा मर्यादाया उपहासको वा यथा न स्यात् तथा सावधानेन
भवितव्यम् । १४. अष्टभिर्धीगुणैर्युक्तः - शुश्रूषते- श्रोतुमिच्छति, प्रतिपृच्छति - पुनः पृच्छति,
शृणोति, गृह्णाति- श्रुत्वा गृह्णाति, ईहते- गृहीत्वा पर्यालोचनं करोति, अपोहते - निश्चिनोति, धारयति - निश्चितं चाऽर्थं सदैव चेतसि धारयति, करोति-श्रुतानुरूपं
सदनुष्ठानं करोति- इत्येवंरूपो जनोऽष्टभिर्धीगुणैर्युक्तः कथ्यते । १५. शृण्वानो धर्ममन्वहम् - धर्मकथां स नित्यं शृणुयात् । धर्मश्रवणेन सदसद्विवेको
हेयोपादेयविवेकः कर्तव्याकर्तव्यविवेकश्च जागृतो भवति । श्रवणसंयोगाभावे सद्वाचनमपि (e)
कुर्यात् । सच्छ्रवणेन सद्वाचनेन च सत्संस्कारा दृढा भवन्ति । १६. अजीर्णे भोजनत्यागी - अजीर्णे सति भोजनस्य त्यागो विधेयः । भोजनस्य हेतुः )
शरीरस्वास्थ्यमस्ति । लोकेऽप्येवमुच्यते - 'जीवनाय भोजनमस्ति, न भोजनाय जीवनम्' इति । प्रथमं तावद् विवेकनैव वर्तितव्यम्, अजीर्णं यथा स्यात्तथा न कि भोक्तव्यम् । एवं सत्यपि यद्यजीर्णं स्यात्तर्युत्तममपि भोजनं त्यक्तव्यमेव । "अजीर्णे व भोजनं विषम्" - इति ध्येयम् । काले भोक्ता च साम्यतः - भोजनवेलायामेव भोजनं करणीयम्, न यदा तदा वा। युवावस्थायां यो जागरुकतया विवेकेन वा न वर्तते स वृद्धावस्थायां दुःखी भवति । शरीरमेव तं पीडयति । न केवलं काले भोक्तव्यमपि तु साम्यतोऽपि । जिह्वालौल्यमनसृत्य
Page #30
--------------------------------------------------------------------------
________________
।
ये भुञ्जन्ते ते स्वास्थ्यहानिं लभन्ते । लोलुपो जनो भक्ष्याभक्ष्यस्य पेयापेयस्य च विवेकं कर्तुं न शक्नोति । तेन च तस्य स्वास्थ्येन सह सत्त्वमपि नष्टं भवति । अस्माकं साधूनां मध्ये एका उक्तिः प्रचलिताऽस्ति - ‘अन्नं परकीयं न तूदरम्' इति । अतो यत् स्वकीयं 6
तत् प्रयत्नेन रक्षणीयम् । १८. अन्योन्याप्रतिबन्धेन त्रिवर्गमपि साधयन् - धर्मार्थकामलक्षणान् त्रीनपि वर्गान्
साधयेत् किन्तु त्रयाणामपि मध्येऽन्योन्यं कोऽपि केनाऽपि बाधितो यथा न स्यात्तथा
साधयेत् । एवं साधिता एवैते सुखाय जायन्ते । १९. यथावदतिथौ साधौ दीने च प्रतिपत्तिकृत् - अभ्यागतानां साधूनां दीनानां च
यथाशक्ति प्रतिपत्तिं कुर्यात् । ‘अतिथिदेवो भव' - एषाऽस्माकमार्यपरम्पराऽस्ति ।
अतिथीनां कृते कदापि ह्यार्यजनस्य गृहं पिहितं नैव भवति । २०. सदाऽनभिनिविष्टश्च - सदैवाऽऽग्रहरहितेन भवितव्यम् । आग्रही कदापि सत्यं ज्ञातुं
प्राप्तुं वा न शक्नोति । औदार्याभावे ह्यभिनिवेशः समुद्भवति । अभिनिवेशादुक्तं सत्यमपि समाजे मान्यं न भवति । अतः सत्यपक्षपातिना सत्पक्षपातिना च
जनेनाऽभिनिवेशादात्मा प्रयत्नेन रक्षणीयः । २१. पक्षपाती गुणेषु च - गुणेष्वेव पक्षपातो विधेयः, गुणदृष्टिना वा भाव्यम् । सतां
गुणानां सङ्कीर्तनेन स्वयमपि गुणी सम्पद्यते नरः । गुणानुरागो हृदयस्य सारल्यं विना न संभवति । "गुणी च गुणरागी च, सरलो विरलो जनः" । सरलतां विना च
धर्मोऽपि सिद्धो न भवति । २२. अदेशकालयोश्चर्यां त्यजन् - देशकालाननुरूपं किमपि कार्यं नैव कुर्यात् । यत्र देशे टा __यस्मिश्च काले यदपि विरुद्धं तत्करणं न कदापि यशसे भवति । प्रत्युताऽऽपदेऽयशसे |
वा भवति । अतो देशकालानुरूपामेव चर्यां कुर्यात् । २३. जानन् बलाबलम् - स्वीयं बलाबलं विचार्यैव कुत्रचिदपि प्रवर्तेत । शक्तिमतिक्रम्य नि
साहसं नैव कुर्यात् । अन्यथा पश्चात्तापो भवति । २४. व्रतस्थज्ञानवृद्धानां पूजकः - व्रतस्थानां ज्ञानवृद्धानां च जनानां पूजन-सेवां कुर्यात् ।
तेषां प्रत्यादरेण वर्तितव्यम् । व्रतस्थानामादरेण सेवया च स्वकीयेऽपि जीवने व्रतप्राप्तिः
9
.
Page #31
--------------------------------------------------------------------------
________________
सुलभा भवति, स्वयमपि व्रतानामनुष्ठाने शक्तो भवति । ज्ञानवृद्धानां च पूजया ज्ञानार्जनं सुकरं भवति ।
२५. पोष्यपोषकः - मातृ-पितृ - भ्रातृ-भगिनी - भर्ता - पुत्र-पुत्र्यादिकुटुम्बं पोष्यं कथ्यते । तेषां सुखं यथा स्यात्तथा पोषणं कुर्यात् । तेषां सुख-दुःखादिविषये सावधानं प्रवर्तेत । कर्तव्यपालनं हि प्रथमो धर्मः ।
२६. दीर्घदर्शी - यत्किमपि कार्यं पूर्वापरपरिणामं विचार्यैव कुर्यात् । अविचारितमेव कृतं कार्यं खेदाय क्लेशाय च जायते । आयतिहितविचारणं हि दीर्घदर्शित्वं नाम । २७. विशेषज्ञः कदा किं करणीयमकरणीयं वा, कथं प्रवर्तितव्यम्, किं वक्तव्यम्, इत्यादिकं यः सम्यगभिजानाति तथैव च व्यवहरति स विशेषज्ञः । विशेषज्ञो हि जनोऽभिप्रेतं प्राप्तुं शक्नोति । विशेषज्ञस्यैवाऽभिप्रायः सर्वत्र सर्वैश्च ग्राह्यो भवति । २८. कृतज्ञ: परकृतोपकारान् कदाऽपि न विस्मरेत् । कृतज्ञो हि जनः सर्वत्र प्रीतिभाजनमादरपात्रं च भवति । स्वल्पस्याऽपि परकृतस्य विस्मरणं जनमयोग्यं प्रस्थापयति । व्यवहारेऽप्ययोग्यो धर्मे तु सुतरामयोग्य एव जायते ।
२९. लोकवल्लभः - प्रतिष्ठितजनेषु शिष्टजनेषु च मध्ये स वल्लभः स्यात् । एतच्च वल्लभत्वं नं चाटुवचनैः प्राप्तं स्यात् किन्तु स्वकीयसहजविनयादिगुणैः प्राप्तं स्यात् । एतादृशं वल्लभत्वं हि चिरस्थायिनं हिताय च भवति ।
-
३०. सलज्ज:
सर्वदा लज्जालुना भाव्यम् । न कदापि मर्यादामतिक्रम्य प्रवर्तेत । यो लज्जालुर्भवति स लज्जास्पदो न भवति । यो लज्जां मुक्त्वा प्रवर्तते सोऽन्यत् किमपि प्राप्नुयात् किन्त्वात्मगौरवं स नैव प्राप्नोति ।
I
३२. सौम्यः
-
३१. सदयः - दयालुः स स्यात् । प्राणिमात्रं प्रति तस्य हृदये दया प्रवहेत् । कमपि दीनं दुःखिनं पीडितं वा दृष्ट्वा तस्य हृदयं द्रवेदेव । दया किल धर्मस्य मूलमुक्तमस्ति । यत्र दया नास्ति तत्र धर्मोऽपि नाऽवतिष्ठते । उक्तं च
-
-
दयानद्या महातीरे, सर्वे धर्मास्तृणाङ्कुराः ।
तस्यां शोषमुपेतांया, कियन्नन्दन्ति ते चिरम् ॥ इति ।
आकृत्या स्वभावेन च स शान्तो गम्भीरश्च स्यात् । तद्दर्शनेनाऽप्यकारणं
१६
OOOOOOOO
OOOOOOOOOO
Page #32
--------------------------------------------------------------------------
________________
O
प्रीतिरेव समुद्भवेत् । तादृशस्य सान्निध्यमपि परस्य कृते सुखाय भवति । ३३. परोपकृतिकर्मठः - परोपकार एव तस्य स्वभावः स्यात् । सदैव स तत्र तत्परो C)
भवेत् । किमप्यनपेक्ष्यैव कृतस्य परोपकारस्य मूल्यं महदस्ति । परोपकारी जनः स्वयं e)
धर्मं कर्तुं परांश्च तत्र योजयितुं समर्थो भवति । ३४. अन्तरङ्गारिषड्वर्गपरिहारपरायणः - क्रोध-मान-माया-लोभ-हर्ष-कामाः - एते
हि षडन्तरङ्गरिपवः सन्ति । तेषां त्यागे, दमने तथा तांश्च प्रतनून् कर्तुं सततं प्रयत्नरतो भवेत् । एतेभ्य एकस्याऽपि प्रभुत्वं न स्यात्तथा मनोवृत्तिं विदध्यात् । एतेषां प्रभुत्वे कि
सति धर्मो न विकसति । ३५. वशीकृतेन्द्रियग्रामः - इन्द्रियाधीनं मनो न कुर्यात् किन्त्वात्माधीनानीन्द्रियाणि कुर्यात् ।
इन्द्रियैः सह विषयाणां संयोगो रोद्धं न शक्यः किन्तु तत्र जायमानं मनःप्रवर्तनं यदि रुध्येत तर्हि स संयोगो विफलो भवति, येनेन्द्रियाण्यात्मानं पाशयितुं नाऽलं भवन्ति । अतो य आत्मोन्नतिमिच्छति तेनेन्द्रियाणि जेतव्यान्येव । उक्तं च -
बिभेषि यदि संसाराद्, मोक्षप्राप्तिं च काङ्क्षसि ।।
तदेन्द्रियजयं कर्तुं, स्फोरय स्फारपौरुषम् ।। (ज्ञानसाराष्टकम् ७/१) एतैर्गुणैर्युक्तो हि धर्ममार्गाधिकारी भवति । स एव च धर्मं सम्यगवबोद्धं सम्यगाराधयितुं च समर्थो भवति ।
OOOOOOOOOOD
भ्रमावेश: ससंरम्भो, द्वेषोद्रेको हृतस्मृतिः । अपस्मार इति ज्ञेयो, गदो घोरश्चतुर्विधः ।।
__ (आचाराङ्गटीका)
१७
Page #33
--------------------------------------------------------------------------
________________
आस्वादः
चिन्तनधारा
मुनिरत्नकीर्तिविजयः विपत्तौ किं विषादेन, सम्पत्तौ हर्षेण किम् ? ।
भवितव्यं भवत्येव, कर्मणामीदृशी गतिः ॥ सुखं च दुःखं चेति द्वयमप्यनुभवरूपमस्ति, सम्पत्तिविपत्तिश्चेति द्वयं च * हूँ निमित्तभूतमस्ति । स्वरूपं तु यत्किमपि स्यात् किन्तु येन केनाऽपि सुखानुभूतिः स्यात् सा * सम्पत्तिः, येन केनाऽपि च दुःखानुभूतिः स्यात् सा विपत्तिः । एतच्च हर्षविषादादीनां * * सुखदुःखादीनां च चक्रं सततं परिवर्तते । कदाचिद् हर्षः सुखं वाऽनुभूयते कदाचिद् विषादो * दुःखं वा । निमित्तानां परिवर्तनेनाऽनुभवोऽपि परिवर्तते । कस्यचिदागमनं श्रुत्वा विपदागतेवाऽनुभूयते, अन्यस्य चाऽऽगमनेन सुखानुभवो जायते । एवमेव चाऽभिप्रायपरिवर्तने *
निमित्तान्यपि परिवर्तन्ते- अद्य यावद् यानि दुःखनिमित्तान्यनिष्टानि चाऽऽसन् तान्येवाऽन्यदा * सुखनिमित्तानीष्टानि च भवन्ति । यानि च सुखनिमित्तानीष्टानि च कल्पितानि स्युस्तान्येव
दुःखनिमित्तान्यनिष्टानि च जायन्ते । एवमेकत्र कुत्रचिदपि सर्वदा न तुल्यभाव: प्रवर्तते । 21 उक्तं च -
"कश्चिच्छुभोऽपि विषयः परिणामवशात् पुनर्भवत्यशुभः । कश्चिदशुभोऽपि भूत्वा कालेन पुनः शुभीभवति ॥ कारणवशेन यद्यत् प्रयोजनं जायते यथा यत्र । तेन तथा तं विषयं शुभमशुभं वा प्रकल्पयति ॥"
___ इति (प्रशमरतिप्रकरणे श्लो. ४९-५०) 3 परिवर्तनं ह्येतत् संसारस्य शाश्वतमनिवार्यं च सत्यमस्ति । यो नामैतत् परिवर्तनं र सम्यग् जानाति, ज्ञात्वा च तत् स्वीकरोत्यपि स एव हि सुखदुःख-हर्षविषादादिद्वन्द्वादुत्तीर्य हूँ सदाऽऽनन्दानुभूति कर्तुं शक्नोति । तदेव च वास्तवं सुखं खलु !
अत्र च श्लोके द्वन्द्वातीतो भवितुं निर्दिष्टमस्ति । यथा विषादादात्मा रक्षणीयस्तथा । र हर्षादपि रक्षणीय एव । यो हि हर्षकाले संयतो न भवति स विषादेनाऽवश्यमेव पीडितो
Page #34
--------------------------------------------------------------------------
________________
* भवति । सुखावसर एव यः सावधानं प्रवर्तते-तिष्ठति वा स दुःखावसरे न कदापि विषीदति । १. * दुःखं यथा सोढव्यं परिगण्यते तथा सुखमपि सोढव्यमेव । यतो द्वयमपि मोहजन्या
5 नुभवरूपमस्ति । किञ्चिन्निमित्तं प्राप्यैव प्रवर्तते द्वयमपि । अतः प्रथमं तावद् हर्षविषाद* सुखदुःखादिषु याऽस्माकमिष्टानिष्टत्वरूपा मतिः प्रवर्तते सा परिवर्तनीया । न च सुखमिष्टं 15 दुःखं चाऽनिष्टमस्ति । द्वयमपि हि निमित्ताधीनत्वादनिष्टमेव । निनिमित्तक: सहजः स्वाधीन से S आनन्द एवैष्टव्यः ।
श्लोकार्थेनाऽऽनन्दानुभवस्य मन्त्रं किल दर्शयति-"भवितव्यं भवत्येव, कर्मणामीदृशी गतिः " इति । नैतत् सूत्रं निष्क्रियत्वं प्रेरयति किन्तु फलनिरपेक्षतामेव पुरस्करोति । सस
हर्षविषाद-सुखदुःखादीनां द्वन्द्वानां जनन्यस्त्यस्माकं फलैषणैव । वयं यत्किमपि कुर्महे तत्र किञ्चिदपि फलं मनसि निधायैव कुर्महे । अत एव च परिणामे हर्षो वा विषादो
वाऽनुभोक्तव्य एव भवति । गीतावचनमत्र स्मर्तव्यम् - "कर्मण्येवाधिकारस्ते, मा फलेषु र " कदाचन" इति । वस्तुतस्तु कर्मणि-पुरुषार्थ एवाऽस्माकमधिकारोऽस्ति, न फले । यच्च ) किलाऽस्मदधीनमेव नास्ति तत्र किं हर्षेण वा विषादेन वाऽपि ?
यद्यप्येत् सर्वमपि वयं सम्यग् जानीमहे एव तथाऽपि फलैषणां त्यक्तुमशक्नुवन्तो " वयं 'भवितव्यं भवत्येव' इत्यादि विस्मरामः । वस्तुतस्तु, यो नाम फलं नाऽपेक्षते * फलप्राप्त्यवसरे च सुखदुःख-हर्षविषादादिद्वन्द्वेभ्यो विरक्तः सन् कर्मणां वैचित्र्यमेव विचार्य ६
समतयाऽवतिष्ठते पुरुषार्थमेव च स्वधर्मं मत्वा प्रवर्तते स एव निर्द्वन्द्वां स्वाधीनां शाश्वतां चाऽऽनन्दानुभूतिं करोति ।
सर्वाण्यप्येतानि संस्कारसूत्राण्यस्माकम् । आर्यसंस्कृतावेव चोपलभ्यान्येतानि । " है अतः संस्कर्तव्योऽयमात्मा प्रयत्नेनैतैरेतादृशैश्च सूत्रः, येन सर्वोऽपि शीघ्रमेवाऽऽनन्दभाजनं * भूयादिति ।
Page #35
--------------------------------------------------------------------------
________________
आस्वाद:
.
स्वादः
भक्तिः
।
डॉ. महेश्वरः द्विवेदी
जीवितं नाम सुखदुःखयोः, गुणदोषयोः, सत्कर्मविकर्मणोः, सुविचारकुविचाराद्यो..S ईन्द्वयोः संयोग एव । ईश्वरप्राप्तिरेव परमं लक्ष्यं जीवनस्य । अनेके मार्गाः सन्तीश्वरप्राप्त्यै; 2. तत्र कः श्रेष्ठः ? इत्यत्र
मोक्षसाधनसामग्रयां भक्तिरेव गरीयसी । सर्वेषां भक्तिरेव श्रेष्ठतमा ।
भक्तेः प्रथमं सोपानं ज्ञानम् । किमत्र ज्ञानं नाम ? ज्ञानं नाम विवेकः । किमकर्म ? * किं विकर्म ? किं कर्म ? - तस्य विवेक एव ज्ञानम् ।।
धर्मशास्त्रे, नीतिशास्त्रे वोपदिष्टम् - अहिंसा-सत्य-दया-करुणा-परोपकारादीनामाचरणं कर्म । तद्विरुद्धम् - धर्मशास्त्रनिषिद्धानामसत्य-हिंसा-द्वेष-काम-क्रोधादीनामाचरणं 15 विकर्म । कर्माभावोऽकर्मेति ।
भक्तेः द्वितीयं सोपानं वैराग्यम् । किं वैराग्यमत्र ? निषिद्धकर्मणां त्याग एव वैराग्यम् । वैराग्ये सत्कर्मणां त्यागो नैव करणीयः । तेषां त्वाचरणमेव कर्तव्यं भवति । 15 शास्त्रविरुद्धकर्मणां त्यागः करणीयः । तस्यैव त्यागो "वैराग्यम्" कथ्यते ।
___ भक्तिर्नाम शनैः शनैरीश्वराभिमुखं गमनम् । प्रथमं ज्ञानेन सत्कर्मणां विकर्मणां च * सम्यग् बोधं कृत्वा शनैः शनैरभ्यासेन मनः संयम्य विकर्मणां त्यागः करणीयः । यथैव विकर्मणां त्यागो भविष्यति तथैव सत्कर्मणामाविष्कारो भविष्यति । कारणं यत् -
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
शनैः शनैः सत्कर्मणि जीवनस्य समर्पणं भविष्यति, आत्मनिवेदनं भविष्यति -* 15 एषा चरमावस्था भक्त्याः । नव सोपानान्यस्या भक्त्याः , श्रवणादात्मनिवेदनपर्यन्तम् । S यथोक्तं श्रीमद्भागवते
२०
Page #36
--------------------------------------------------------------------------
________________
श्रवणभक्तिः परीक्षितः, कीर्तनभक्तिर्नारदस्य, स्मरणभक्तिः प्रह्लादस्य, पादसेवनभक्तिर्लक्ष्म्याः, अर्चनभक्ति: पृथो:, वन्दनभक्तिरक्रूरस्य, दास्यभक्तिर्हनुमतः, सख्यभक्तिरर्जुनस्य, आत्मनिवेदनं बलेश्च ।
प्रथमः
व्यसनी
प्रथमः
व्यसनी
-
-
-
श्रवणं कीर्तनं विष्णोः, स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं, सख्यमात्मनिवेदनम् ॥
-
सर्वदा सर्वभावेन, भजनीयो व्रजाधिपः ।
स्वस्याऽयमेव धर्मो हि नाऽन्यः क्वापि कदाचन ॥
द्वे मित्रे आस्ताम् । तयोरेकं मदिराव्यसनी आसीत् ।
अधुना कफप्रकोपः सञ्जातः ।
वल्लभाचार्यः ।
का चिन्ताऽस्मिन् विषये । मदिरां पिब, शीघ्रमेव कफप्रकोपो गमिष्यति ।
निश्चयेन वा ?
मम कृषियोग्या भूमिरपि गतवती तर्हि का कथा तव
कफप्रकोपस्य ?
डॉ. महेश्वर: द्विवेदी
२१
Page #37
--------------------------------------------------------------------------
________________
-
पत्रम
मुनिधर्मकीर्तिविजयः
___नमो नमः श्रीगुरुनेमिसूरये ।। आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । विहारयात्रा सुखरूपा प्रवर्तते । अत्र सर्वेऽपि गुरुभगवन्तः कुशलाः सन्ति ।
विहारयात्रया य आनन्दः प्राप्यते स आनन्दस्त्वनिर्वचनीयोऽस्ति । अस्माभिर्मनोभीष्टस्य व्यक्तेर्वस्तुनश्च समागमेनाऽप्यानन्दस्तु प्राप्यते एव किन्तु स क्षणिकः, न तु शाश्वतः । यतः तत्तद्व्यक्तौ तत्तद्वस्तुनि च विनष्टे सति दुःखं भवत्येव खलु । ततो दुःखावसान एव आनन्दोऽस्ति । विहारयात्रायां तु निरन्तरं निसर्गस्य नूतनसौन्दर्यस्य दर्शनेन, अस्मिन्नपि कलियुगे स्वं गौणीकृत्य निःस्वार्थतयैव केवलमन्येषां हितार्थमेव प्रयतमानानां परमश्रद्धावतां - सज्जनानां च समागमेन तथा परिचयमृतेऽप्यातिथ्यभावनासंभृतकोमलहृदयवतां जनानां कि - पुण्यदर्शनेन तु कल्पनातीत आनन्दो जायते । एतादृश आनन्दस्तु देवदेवेन्द्रचक्रवर्त्यादीनामपि ।
दुर्लभोऽस्ति । यदा यदैतादृश आनन्दोऽनुभूयते तदा तदा न केवलं शारीरिकश्रमोऽपि तु . - मानसिकश्रमोऽप्यस्तङ्गतो भवति । देहे प्रबलं चैतन्यं प्रचण्डोर्जा च प्रादुर्भवति । दैनन्दिनजीवने । - 'किञ्चिन्नूतनं प्राप्तमिव, यथार्थं जीवनं जीवितमिव चे'त्यनुभूयते । अस्मिन् पृथिवीतलेऽस्मादृशाः । या पादचारिण एवाऽस्या आनन्दप्राप्तेः सौभाग्यमवाप्तुमर्हाः सन्ति । 'कार्'यानादिकेऽटतां का पीक कूपदर्दुरसमानां त्वादृशानां वराकाणां नगरजनानां च कृते स्वप्नेऽप्येतादृशस्याऽऽनन्दस्य
कल्पनाऽप्यशक्याऽस्ति । तथाऽप्यद्य मया य आनन्दोऽवाप्तः तस्मिन्नानन्दे त्वामपि सहभागिनं * कर्तुमिच्छुकोऽहं किञ्चिद् लिखामि । तमानन्दं संप्राप्य त्वमपि जानीया यद्- आनन्दो न
२२
Page #38
--------------------------------------------------------------------------
________________
7 बन्धनेऽपि तु निर्बन्धनेऽस्तीति ।
बन्धो ! कश्चन गूर्जरराज्यान्तर्गतः सौराष्ट्रनामप्रदेशोऽस्ति । स प्रदेशस्तु सर्वैरपि सो । विदितोऽस्ति । अस्यां भुवि श्रेष्ठतमाः साधवः कवयः साहित्यकाराश्च संजाताः सन्ति । अत्रैव
" विश्रुताः शूराः लुण्टाकाश्चाऽप्यजनिषत । अस्यां भूमावेवैतादृशं सत्त्वं निहितमस्ति, कार - येनाऽत्रोत्पन्नानां जनानां नैतिकता शौर्यं स्वाभिमानः पापभीरुतौदार्यं सारल्यं चेत्यादिका गुणा
रुधिरगता एव सन्ति । तत्राऽप्यत्राऽऽतिथ्यभावना तु सहजा विशेषतो विद्यते । ए कदाचिदप्यत्राऽऽगन्तुकः कश्चिदपि जनो निराहारो न स्वपिति । यस्य कस्यचिदपि गृहात्
तकं दुग्धमपूपश्चेत्यादिकं भोजनं त्ववश्यंतया प्राप्यते तेन । 'एष कः ? कुत आगतः ?
कथमागतवान् ?' इति कदाचिदपि न विचारयन्त्यत्रत्या जनाः । एतदेवाऽस्या भूमेौरवमौदार्य र चाऽस्ति । वयं तु साधवः स्मः, अतो वयं निखिलेऽपि भारतदेशेऽत्र तत्र सर्वत्रैवाऽटामः । । किन्त्वेतादृशं हृदयस्य प्रेमोष्मभृतं माधुर्यपूर्णं चाऽऽतिथ्यं न कुत्रचिदपि दृष्टं प्राप्तं वा ।
अत्रत्यानां जनानामन्यदपि वैशिष्ट्यमस्ति यत्, साधुं दृष्ट्वा त्वरितमेव नमन्ति ते। - स साधुः कस्याऽपि धर्ममतस्याऽनुयायी स्यात्, किन्तु "साधूनां दर्शनं पुण्य"मित्येव मन्यन्ते ।
ते । तत एव कमपि कदाग्रहं विना साधुवेषं संप्रेक्ष्याऽत्रत्याः सर्वे जना नमस्यन्ति सत्कारयन्ति - " च । एतादृशी शुद्धधर्मभावनाऽपि सर्वत्र न दृश्यते ।
एको रमणीयः प्रसङ्गः पौन:पुन्येन स्मृतिपथमायाति ।
एकदा विहारं कुर्वन्तो वयं 'लींबडी'समीपस्थं 'टोकराला'ग्रामं गतवन्तः । तत्र न. जैनमतानुयायिन एकमपि गृहमासीत् । तस्मिन् ग्रामे एकस्य ठक्कुरस्य गृहमासीत् । तत्र - वयमुषिताः । अस्मान् दृष्ट्वा सर्वेऽपि कौटुम्बिकजना आगतवन्त उक्तवन्तश्च- आगम्यताम्, - आगम्यताम् । स्वागतं स्वागतम्, सातं वर्तते ? इति । क्षणेनैवाऽस्मभ्यो वस्तुं दत्तमपवरकद्वयम् । -
"अद्याऽस्माकं दिष्टं जागृतम् । भवादृशानां साधुपुरुषाणां पादरजसा नः सदनं पवित्रीभूतम् । - अद्याऽस्माकमुपरि भगवतः कृपादृष्टिरभूत्, इति मन्येऽहम् । भवतां पुण्यदर्शनेन समागमेन र र चाऽस्माकं पापं नष्टं भविष्यति" इत्यादिकं गद्गद्स्वरेण पुनःपुनर्वदति स्म स ठक्कुरः ।
तेषामेतादृशीं भावनां श्रद्धां च संवीक्ष्य मे मनः प्रफुल्लितमभूत् । अहं तस्य मुखभावानेव ) का मुहुर्मुहुनिरीक्षे स्म । मया व्याकृतम्- भो ! भवता तु निरन्तरं साधुजनानां सेवा क्रियते,
२३
Page #39
--------------------------------------------------------------------------
________________
तद्वारेण च महत्पुण्यमुपार्ज्यते एव ।
स उवाच- तेन किम् ? प्रभो ! भवद्भिस्तु हस्तगतं सुखं तत्साधनं, गृहं, परिवारवात्सल्यं चैवं सर्वमपि संसारं विहाय बहुकष्टभृतो मार्ग : स्वीकृतः । सर्वमपि कष्टं, विषह्य प्रभुभक्तिर्लोककल्याणमात्मकल्याणं चैव क्रियते । अहं तु तत्किमपि कर्तुमसमर्थः । अतो भवादृशां पुण्यजनानां स्वल्पसेवाया व्याजेन काञ्चित् प्रभुभक्तिं करोमि । एवं दशनिमेषपर्यन्तं वार्तालाप: प्रचलितः । तदा तस्य मनोभावनां चित्तशुद्धिं च ज्ञात्वा मे * मानसेऽतीव प्रसत्तिः संजाता, तथा तत्क्षणं विहारपरिश्रमोऽपि गलितः ।
तदैव "प्रभो ! गृहमागम्यताम्, आहारादिकं गृहीत्वाऽस्मान् लाभान्वितान् करोतु भवान्" इत्युक्तं तेन ।
"न किमप्यावश्यकम् । केवलं जलमेव पर्याप्तम्" इत्युवाचाऽहम् ।
स अवोचत् कथम् ? निर्दोषाहार एवाऽत्र प्राप्स्यते ।
मनसि ग्लानिमनुभवता मयोक्तम्- बहिस्त आहारादिकं गृहीत्वा श्रावक आगमिष्यति । यतोऽत्र सर्वाऽपि व्यवस्थाऽस्तीति न ज्ञातमस्माभिरिति ।
एतदाकयैव वज्राघात इव स स्तब्धो मूढश्च जात: क्षणं तु वातावरणेऽपि ★ स्तब्धता गम्भीरता च प्रसृता । पश्चात् सखेदं स जगाद - किं गृहमत्र नाऽस्ति ? किं वयमत्र, न स्मः ? किं वयमपूपादिकं न दद्याम ? येनैवं कृतम् । प्रभो ! अस्माकं गृहे मिष्टान्नादिकं नाऽस्ति, किन्तु तक्रमपूपो दुग्धं चाऽस्त्येव । अस्माकं गृहे यदस्ति तद् भवद्भ्योऽपि दद्याम ।. हन्त ! अस्मादृशा हतभागिनः पापिन: के सन्ति ? हा, हा, एतत्वस्माकं दुर्भाग्यं * महत्पापोदयश्चाऽस्ति, येनाऽस्माकं सदने आगता अपि पवित्रसाधुजना मद्गृहस्याऽन्नकणमपि न स्वीकुर्वन्ति, इत्युक्तवतः तस्य मुखोपर्यकथनीयाऽदर्शनीया च ग्लानिः प्रसृता, देहः स्तब्धो `जातः, नयने जलबिन्दुभृते जाते । सर्वेऽपि मूका इव संजाताः । तदोपस्थितानां सर्वेषामपि कौटुम्बिकजनानां नेत्राणि बाष्पार्द्राणि जातानि । तद् दृष्ट्वा मे हृदयेऽतीव खेद उत्पन्नः । 'अस्माकं साधुजनानामपि नयनान्यार्द्राणि जातानि । तदा तेषां शुद्धभावनाभिरभिभूतोऽहं' जात: 'किं कथयानि, किं करवाणि चे 'ति चिन्तितवानहम्
သင်တို့နှင့်သင်တို့
ဆ သားစာ
"
तदा पुनः स आह- 'प्रभो ! 'अत्र नाऽऽगन्तव्यम्" इति दूरभाषद्वारेण तस्मै
२४
Page #40
--------------------------------------------------------------------------
________________
कथयतु भवान्' ।
साम्प्रतं तु स अत्राऽऽगमनार्थं प्रायशो निर्गतः स्यात् । अतः तन्न शक्यमस्ति । तथाऽपि सायाह्ने भवतो वेश्मन एवाऽऽहारादिकं ग्रहीष्याम इत्युक्तं मया ।
__खिन्नमनसा 'अस्तु' इत्युक्त्वा स उवाच- प्रभो ! वयं षष्टिवर्षेभ्यः सर्वेषामपि साधुजनानां भक्तिं कुर्मः । ये केचित् कियन्तोऽपि साधव आगताः स्युः, तेषां सर्वेषांक र यथाशक्ति सेवां कुर्मः । किन्तु दुर्भाग्यमद्य यद्, अस्माकमतिथीनामातिथ्यमन्यः करोति । ,
अस्तु, तथाऽप्येकाऽस्माकं विज्ञप्तिरस्ति-इतः परमन्येभ्यः सर्वेभ्यः साधुभ्यः कथनीयं यद्, टोकरालाग्रामो गन्तव्यः, तत्र च सर्वाऽपि व्यवस्थाऽस्तीति । - गच्छतः तस्य शुद्धभावनां पुनः पुनः अनुमोदयामः स्म वयं सर्वे । तदा पूज्यगुरुभगवन्त र
ऊचुः-नैष जनो जैनः, किन्तु ठक्कुरजातीयोऽस्ति । तथाऽपि तस्य भावना त्वतीव निर्मलाऽस्ति । " एतादृशा हि भाविकजना निर्मलभावनयैव बोधिं प्राप्स्यन्ति तथा संसारमपि तरिष्यन्ति । र कोटीरूप्यकाणां दानं दत्तवन्तः श्रेष्ठिनः तथाऽस्मादृशाः साधवोऽपि पदप्रतिष्ठादिमोहपाशबद्धाः कथं निस्तरिष्यामः तन्न जानीमहे । एते त्वस्माकमुपरि दृढविश्वासं परमश्रद्धां च विधाय पूजयन्ति, तेन ते तरिष्यन्ति । अत्राऽस्माभिरेव चिन्तयितव्यं यत् "किं वयं पूजार्हाः स्मो को न वे"ति । तथेत्युक्त्वा वयं स्वकार्ये निमग्ना जाताः ।
सायाह्नो जातः । “आहारादिकं गृहीत्वाऽस्मान् लाभान्वितान् करोतु" इति विज्ञप्ति कृतवान् स ठक्कुरः । मुनिश्रीकल्याणकीर्तिविजय आहारग्रहणार्थं गतवान् । तेन । ठक्कुरेणाऽत्याग्रहेण शुद्धभावनया हृदयनिर्मलप्रेमामृतेन च सिञ्चिता अपूपा दत्ताः । अस्माभिरपि प्रसन्नतया ते भक्षिताः । तस्मिन् काले देहस्य प्रतिरोम माधुर्यं प्रसृतम् । चित्ते परमतृप्तिरपि ।
-
-
- संजाता।
बन्धो ! “निर्मलहृदयोद्भूता यथार्था भक्तिः फलत्येव" इत्युक्त्यनुरूपं तदैव । " स्थानकवासिसम्प्रदायस्य दशाऽन्ये साधवोऽप्यागताः । तथाऽपि तेन ठक्कुरेण "इदानीं - सूर्यास्तवेला वर्तते, एतेषां सर्वेषां कृते कथमाहारादिकं संपन्नं भविष्यती" ति न केऽपि .. विकल्पाः कृताः । हसद्वदनेन हर्षोल्लासेन चाऽऽहारादिना सादरं तेषां भक्तिः कृता । न केवलं " - साधुजनानामेव किन्तु वन्दनार्थमागतानां सर्वेषां जनानां तथाऽस्मत्सेवकानामपि तथैव
२५
Page #41
--------------------------------------------------------------------------
________________
age disarjade
भावोल्लासेन साग्रहं भोजनं कारितम् । तेषामेतादृशीं भक्तिं दृष्ट्वा प्रसन्नचित्तास्ते सेवका या अपि 'एतादृशी भक्तिर्न कुत्रचिदपि दृष्टा तथाऽस्मद्गृहे एव भोजनं कृतमित्यनुभूतम्' । र एवमूचुः । सर्वे परममुदमनु-भूतवन्तः।
- बन्धो ! एतादृशा आह्लादकारिणोऽनुभवास्तु ग्रामे ग्रामे संजाताः । तान् सर्वान् तु जोन पोक कथं लिखेयम् ? एतादृश एवाऽन्योऽपि एकोऽनुभवो जातः । प्रदेशेऽस्मिन्नेव कश्चन -
ग्रामोऽस्ति । तत्रत्याः सर्वेऽपि सत्सङ्गिनः सन्ति । न कदाचिदपि ते केषाञ्चिदप्यवर्णवाद र को निन्दां च कुर्वन्ति । न केवलं वृद्धा एव किन्तु युवानो युवतयोऽपि यदा यदा संमीलन्ति, FM तदा तदा ते भगवतां कथाः साहित्यचर्चामीशभजनादिकं चैव कुर्वन्ति । मया यदा श्रुतं
र तदाऽहमपि न स्वीकृतवान्, किन्तु पश्चाद् मया ज्ञातं यद्, एतद् यथार्थं सत्यमस्ति । Po, अद्याऽप्येतादृशा जना विद्यन्तेऽस्मिन् सौराष्ट्रदेशे ।
यदैतादृशा अनुभवा जायन्ते तस्मिन् काले य आनन्द उत्पद्यते स अनिर्वचनीयोऽस्ति । किन कोटिरूप्यकव्ययेन रचिते सप्ततलप्रासादभवने नवनीतसममृदुकार्पासरचिते तल्पे शयने कृते
सति तथा पञ्चतारकोपाहारगृहे चाईनीस्-पञ्जाबीभोजने कृते सति यत् सुखं न प्राप्यते तत्र र सुखं शून्यगृहे उच्चावचभुवि शयनद्वारेण तथाऽपूपादिशुद्धसात्त्विकभोजनेन च प्राप्यतेऽस्माभिः । ।
मिष्टान्नभोजनेन या तृप्तिर्न भवति सा तृप्तिरत्र भवति । यतोऽत्रैतेषामातिथ्ये हृदयनिर्मलवात्सल्यं । देहशुद्धचैतन्योर्जा मनोमाधुर्यं च समाविष्टं भवति । तत एव शुष्कोऽपूपोऽप्यमृतसममधुरोऽनुभूयते ।
बन्धो ! एषैवाऽत्रत्यानां संस्कारिताऽस्ति । एतादृशाः संस्कारा आनुवंशिकरूपेणैवाऽऽगच्छन्ति । शिक्षिता धनिकाः प्रतिष्ठिताश्चैव संस्कारिणः स्युरिति न मान्यं - र कदाचिदपि। श्रीमत्ता महत्ता च संस्कारिताया न प्रमाणपत्रं किन्तु नीतिमत्ता सदाचारो FO हृदयौदार्यं चैवाऽस्ति । सत्सु धनेष्वपि धनिका प्रतिष्ठिता जनाः संस्कारदरिद्रा सन्ति । तेषां के बाह्यव्यवहारे केवलमौपचारिकता कृत्रिमता चैव दृश्यते । अत्रत्या जना ग्रामीणा अशिक्षिताश्च
सन्ति, किन्तु संस्कारैस्तु धनिकाः सन्ति । अत एव तेषामातिथ्यं मनसि प्रसन्नतां शान्ति तृप्ति । " च जनयति।
बन्धो ! अत्रत्यानां जनानां मन:तृप्तिकरं सहजमातिथ्यमनुभूय मे मनस्यतीतकालस्य १. कविः दुलाभाया 'कागः'
( P
सरसो
२६
Page #42
--------------------------------------------------------------------------
________________
asics
स्मरणं जागृतमभूत् । तदैका पङ्क्तिः स्मृतिपथमागता - "हे भगवन् ! सौराष्ट्रप्रदेशे कदाचिदतिथीभूयाऽऽगच्छ, तदा स्वर्गमपि विस्मारयिष्यामि " । एषा पङ्क्ति चरितार्था
जाता ।
बन्धो ! अस्मिन् देशेऽद्याऽप्येतादृशा बहवो जनाः सन्ति, ये करुणा-प्रेम- नीतिमत्ता^ संवेदनादीनां साक्षाद् मूर्तयः सन्ति । तेऽद्याऽप्यपेक्षां विना केवलं परोपकारबुद्ध्यैव स्वजीवनं गमयन्ति । तत एव यावदेकोऽप्येतादृशो जनोऽस्यां भुवि विद्यते तावदेषाऽऽर्यसंस्कृति`रखण्डाऽभग्ना जागृता च स्थास्यत्येवेति निश्चितमस्ति ।
अन्ते, किं बहुना ? यथा कागमहोदयेन कथितं तथाऽहमपि त्वां निमन्त्रयामि यत्, त्वमेकदा सौराष्ट्र प्रदेशेऽस्मिन् आगत्याऽत्रत्यानामातिथ्यमनुभव । तदैव ज्ञास्यते ' किं नाम सौराष्ट्रस्याऽऽतिथ्यम्' इति शम् ।
प्रकामं वेपते यस्तु, कम्पमानश्च गच्छति । कलापखअं तं विद्या-न्मुतसन्धिनिबन्धनम् ॥
(आचाराङ्गटीका)
२७
Page #43
--------------------------------------------------------------------------
________________
'साहित्यसुरभिः '
ग्रन्थसमीक्षा
* (समीक्षकः - रूपनारायणपाण्डेयः, एस्. II / 330, राज्यशिक्षासंस्थान कालोनी, एलनगञ्जः, प्रयागः, उ.प्र. - २११००२ )
ग्रन्थकारः प्रकाशकश्च - डा. रामकिशोरमिश्रः, ३७७/१४, पट्टीरामपुरम्, खेकड़ा- २०११०१ * (बागपत), उत्तरप्रदेश: ।
पृ.सं. १४४, प्र.व. २०५९ वि. । मूल्यम् - १००/
विश्ववाङ्मये स्वसाहित्यगरिम्णाऽद्यापि विराजतेतरां सुरभारती । तत्साहित्यसंवर्धने साम्प्रतं ये विद्वांसः कृतिनः सन्ति, तेषु डॉ. रामकिशोर मिश्रमहोदयो नानाविधसाहित्यग्रन्थानां * प्रणयने प्रमुखतां भजते । तेन विविधविधसाहित्यसंग्रहात्मको ग्रन्थः 'साहित्यसुरभि:' इति * नाम्ना प्राणायि ।
ग्रन्थेऽस्मिन् भागत्रयं शोभते नाट्यत्रयी, कवितैकविंशकम्, लेखषट्कञ्च नाटकत्रय्यां 'त्यागपत्रनिरासे' विद्योत्तमा शास्त्रार्थे पराजिता मूर्ख कालिदासं परिणयति, किन्तु सौभाग्यनिशायां तस्य मूर्खत्वं विज्ञाय तं स्वकक्षाद् बहिष्करोति । विद्वत्त्वं कवित्वं * चोपलभ्य कालिदासः तां पत्नीत्वेन नाऽङ्गीकरोति । विद्योत्तमा विक्रमादित्यराजसभायां >न्यायार्थं याति, न्यायानुसारं कालिदासश्च तां पत्नीरूपेणाऽङ्गीकरोति । 'देवयान्याम्' बृहस्पतिपुत्रः * कचो देवयानौ प्रतिशपति यत् सा ब्राह्मणवरं न लप्स्यते । देवयानीच्छलेन ययातिं परिणयति । शर्मिष्ठामुपपत्नीत्वेनाऽङ्गीकारेण शुक्रो ययातये वृद्धत्वं शपति । ययातिः पुरोर्यौवनं गृह्णाति, शर्मिष्ठानुरोधाच्च पुनस्तस्मै प्रयच्छति । ' श्रीचन्द्रशेखरचरिते' क्रान्तिकारिणां वरिष्ठस्य आजादोपनामकस्य श्रीचन्द्रशेखरस्य जन्मतः प्रारभ्य बलिदानपर्यन्तं साहसिकं स्वातन्त्र्य - भावभरितं चरितं वर्णितं विलसति । आजादसदृशः क्रान्तिवीरोत्तमः कथं धनलोभिनः कृतघ्नस्य कुकृत्यादकाले स्वप्राणान् भारतस्य स्वतन्त्रतायै समर्पितवान् - इत्यत्र सम्यग* ङ्कितमस्ति । कवितैकविंशके- सरस्वत्या वन्दनम्, कालिदासाह्वानम्, संस्कृताक्षादशकम्, वन्दे तं चन्द्रशेखरम् श्रीसुभाषचन्द्रवसुपञ्चकम्, अरविन्दपञ्चकम्, स्वतन्त्रतासेनानीः
२८
Page #44
--------------------------------------------------------------------------
________________
R) श्रीभक्तसिंहः, काकोरीकाण्डम्, बमविष्फोटकाण्डकम्, पश्य गतो राकेशो नभसा, समागतो र राकेशो गगनात्, रूप्यकमहिमा, एहि सुरभे देवि, प्रिये ! प्रेम तव जीवनसारः, बालगीतम्, 8 हिन्दुराष्ट्रम्, स्वतन्त्रता, जयतात् सा, भावना, शोकगीतम्, कविचिन्ता चेति कविता विभान्ति। B)लेखषट्के लेखाश्च सन्ति-स्वतन्त्रतासेनानीः श्रीमङ्गलपाण्डेयः, भारतीयसंस्कृतौ योगस्य (
महत्त्वम्, यतो धर्मस्ततो जयः, अथर्ववेदे रोगोपचारः, संस्कृतवाङ्मयेऽन्नपरककृषिः, ( र वर्तमानभारतस्य विभिन्नक्षेत्रेषु संस्कृतस्य स्थितिश्च ।
मिश्रमहाभागस्य कृतिरियं तत्साहित्यसर्जनासौन्दर्यस्य सुरभिं प्रसारयति । अत्र |8) यद्यपि काश्चन रचनाः प्रागपि प्राकाश्यं नीताः सन्ति, तथापि तासामत्र संकलनं ग्रन्थस्याऽस्य R)श्रियं संवर्धयति । 'त्यागपत्रनिरासे' विद्योत्तमायाः चरितं भारतीयनार्या गौरवभमिवर्धयति, ॐ
किन्तु सौभाग्यनिशायां तस्याः प्रगल्भता मर्यादां न रक्षति । एवंविधं तत्कथनं कथमपि न Va युज्यते । अपि कापि नवपरिणीता नारीत्थं वदति ?
'एतौ हि सर्वः पिबतीह लोकः, प्रेम्णा गृहीत्वा च करद्वयेन । 3) एहि त्वमग्रे हि कुचौ गृहाण, पीत्वाधरं मे प्रणयं कुरुष्व ।।' इति (सा., पृ. १६) (
एतादृशानि स्खलितानि 'देवयान्याम्' अपि विद्यन्ते । 'श्रीचन्द्रशेखरचरिते'* भारतराष्ट्रस्य स्वाधीनतायै स्वजीवितमर्पितवतो देववाणीसमाराधनारतस्य साहसिका-3
नामग्रगण्यस्य श्रीमतः चन्द्रशेखरस्य चरितं नितरां रम्यतरमस्ति, किन्तु तत्र कस्यचित् कवेः/ 8)'चलन्तु देशभक्ताः प्रयान्तु देशभक्ताः ।' (तत्रैव, पृ. ८२) इति कवितायाः स्वरचनायां ग्रहणं B) ग्रन्थकृतः कीर्तिं नैव वर्धयति । कविकर्मदक्षो डा.मिश्रोऽत्र नूतनां कवितां रचयेत् । ॐ R) 'कवितैकविंशके' राष्ट्रभक्तान् समाश्रित्य प्रणीताः कविता राष्ट्रानुरागभावान् युवकेषु (ॐ जनयन्ति । अन्याश्च कविता अप्यत्र चित्रं हरन्ति ।
'क्रान्तिकारी कदाचिद्वै, दण्डाद् बिभेति नो क्वचित् ।। विचारा इति यस्याऽऽसन्, भक्तसिंहं नमामि तम् ॥' (तत्रैव, पृ. ११०)
'लेखषट्के' 'स्वतन्त्रतासेनानी: श्रीमङ्गलपाण्डेयः' इति लेखने पाण्डेयवर्यस्य B)चरितं विशदतया वर्णितं राष्ट्ररक्षायाः सत्प्रेरणामुद्भावयति । वस्तुत आङ्लशासकानां विरुद्धे (
भारतीयानां स्वाधीनतायै कृतस्य तस्य कार्यस्य कृते संस्कृतभाषायामेको विशालकायो |
Page #45
--------------------------------------------------------------------------
________________
R) ग्रन्थोऽपेक्ष्यते । 'अथर्ववेदे रोगोपचारः' इत्यादिका लेखा ग्रन्थकृतो वैदिकं वैदुष्यं प्रकाशयन्ति। Va
वर्तमानभारतस्य विभिन्नक्षेत्रेषु संस्कृतस्य स्थितिः, तस्य प्रचाराय प्रसाराय चोपायाः' इति - Bा लेखः तस्य संस्कृतं प्रति निष्ठां चिन्तां च सम्यक् प्रस्तौति । स सत्यं वक्ति - 'वस्तुतो यदि B)संस्कृतं सुरक्षितं तर्हि संस्कृतिः सुरक्षिता । अतः स्वत्वरक्षायै प्रत्येकहिन्दुबालस्य कृते 6
प्राथमिककक्षात एव संस्कृताध्ययनस्याऽनिवार्यत्वं विधेयम् ।' (तत्रैव, पृ. १४३) । किन्तु, lea
यदा संस्कृतेन लब्धाजीक अपि विद्वांसः स्वबालान् संस्कृतं न पाठयन्ति, तर्हि क/ संस्कृतस्याऽनिवार्यत्वे कः प्रयतेत ?
विविधविधसाहित्यविलसितः 'साहित्यसुरभिः' इति ग्रन्थः सर्वैः संस्कृतप्रणयिभिः संग्राह्योऽध्येतव्यश्च । ग्रन्थकारस्य स्वसंस्कृतिनिष्ठापरकमेकं पद्यमुदाहरता विरम्यते ।।
'मातृभूमेः सेवनादथ कथं यूयं भवथ विमुखाः ? देशवासिविपत्तिनाशं कर्तुमधुना भवथ प्रमुखाः । दीनहीनविपन्नपार्वे कुशलपृच्छायै न याताः ? न यूयं रुदतां जनानाम श्रुपौञ्छणपरा जाताः ? भरतभूमि कथमिमां मुस्लिमाधीनां कर्तुमिच्छथ ?
भारतं भो ! हिन्दुराष्ट्रं कथं नो निर्मातुमिच्छथ ?' (तत्रैव, पृ. ११६)
(धर्मनिरपेक्षतादिशि अत्र प्रयुक्तं 'हिन्दुराष्ट्रम्' इति पदं साम्प्रदायिकं भावमुद्बोधयति। B/ अतश्चिन्त्यम् ।) जयतु संस्कृतं संस्कृतिश्च ।
पुराणोदकभूमिष्ठाः, सर्वर्तुषु च शीतलाः । ये देशास्तेषु जायन्ते, श्लीपदानि विशेषतः ।
(आचाराङ्गटीका
३०
Page #46
--------------------------------------------------------------------------
________________
कथा ।
स्पर्शरहस्यम्
__ मुनिरत्नकीर्तिविजयः प्रख्यातो वैष्णव आसीदाचार्यरामानुजः । स यदा वृद्धो जातस्तदा त्वन्यन्तमशक्तो जातः । कुत्रचिदपि गमनागमनं तदर्थं कष्टकरं सञ्जातम् । तथाऽपि कस्यचित् स्कन्धमवलम्ब्याऽपि स स्नानार्थं नित्यं नदीं गच्छति स्म । नदी प्रति गमनसमये स स्वकीयब्राह्मणशिष्यस्य स्कन्धमवलम्ब्य गच्छति स्म किन्तु स्नानान्तरं निवर्तनसमये च शूद्रजातीयस्य स्वशिष्यस्य स्कन्धमवलम्ब्य स्वस्थानं प्रति निवर्तते स्म । एष हि तस्य नित्यक्रमः सञ्जात आसीत् ।
अथैकदा रामानुजाचार्यस्यैतादृशीं विचित्रां रीतिं दृष्ट्वा केचित् पुरातनविचारपरम्परां वहन्तः सनातनीया जना असन्तुष्टा जाताः । 'किमपि करणीयमत्र' इति विचिन्त्य सर्वेऽपि सम्मील्य रामानुजाचार्यस्य समीपे गतवन्तः । 'आचार्यवर्य ! भवते किञ्चिन्निवेदयितव्यमस्ति' इति बलादाक्रोशं रुन्धन्तोऽवदन् । आचार्यः - कथयन्तु तावत् ! सर्वे - भवतो रीतिरस्मभ्यं नैव रोचते । आचार्यः - एवम् ? कां रीतिमाश्रित्य भवतां समेषामरुचिः ? सर्वे - भवान् सदा स्नानार्थं गच्छति तदा ब्राह्मणस्य स्कन्धमवलम्बते किन्तु
निवर्तनसमये शूद्रमवलम्बते । एषा नाऽस्मत्परम्परानुरूपा रीतिः । आचार्यः - तर्हि ? सर्वे - शूद्रस्य स्पर्श एव वर्जनीयो भवता । तथाऽपि यदि करणीय एव तर्हि स्नानात्
पूर्वमेव करणीयः, न तदनन्तरम् ।
एतच्छ्रुत्वाऽऽचार्यो हसन्नुवाच- भोः ! किं भवन्तो जानन्ति यदहं किमर्थमेवं करोमि ? भवन्तो यं शूद्रं मन्यन्ते तस्य स्कन्धेऽहं स्नानान्तरं यद् हस्तं स्थापयामि तत्तु मम जात्यभिमानस्य प्रक्षालनार्थमेव । तादृशी शुद्धिस्तु जलेन नैव कर्तुं शक्या । सत्यं खलु ?
आचार्यस्य प्रत्युत्तरेण सर्वेऽपि तूष्णीका जाताः ।
३१
Page #47
--------------------------------------------------------------------------
________________
कथा
दैवविलसितम्र
मुनिकल्याणकीर्तिविजयः ।
इह किल जम्बूद्वीपे भारते क्षेत्रे षट् खण्डाः सन्ति । तत्र दक्षिणार्धभरतस्य 3 मध्यखण्डे धरित्रीवरवणिन्या कर्णाभरणमिव, सकलैः पुरगुणैः समाकीर्णं, सौन्दर्येण चा
ऽलकायमानं क्षितिप्रतिष्ठितं नाम नगरमस्ति । तच्च समस्तसामन्तनृपप्रणतपदकमल: का प्रबलपराक्रमपराजितप्रत्यर्थिपार्थिवमण्डलः प्रजापालनैकरसिको वीरसेनो नाम राजा शास्ति की
स्म । तस्य च सकलगुणगणाधारभूता निर्मलाखण्डशीलकलिता धारिणी नाम महाराज्ञी आसीत् । पुण्यफलमप्रत्यूहतयाऽनुभवतोस्तयोः कालो गच्छति स्म ।
अन्यदा रात्रौ वासभवने महाघे शयनीये सुखनिर्भरं प्रसुप्ता धारिणी पुरतो चलन्तं , सुरेन्द्रं स्वप्ने दृष्ट्वा सहसा प्रतिबुद्धा । तत उज्जृम्भमाणभुजयुगला प्रोन्मीलितनयना च सा राजानं जागरयित्वा तत् कथितवती । स्वप्नं श्रुत्वा किञ्चिद् विचिन्त्य च तेन उक्तम् - "प्रिये ! स्वप्नोऽयं सूचयति यत् तवैकः पराक्रमी सौन्दर्यशाली च पुत्रो भविष्यति । किन्तु त्वया । दृष्टः सुरेन्द्रश्चलन्नासीत् । अतोऽयं पुत्रोऽपि ते चलप्रकृतिको भविष्यति ।' साऽपि तदङ्गीकृत्य हृष्टमानसा सञ्जाता । तद्दिनाच्चाऽऽरभ्य प्रवर्धमानं गर्भं सम्यक्तया पालयति स्म । यथाकालं राज्ञा संपूर्यमाणदोहदा सा कालमासे प्रवररूपादिगुणकलितं सुन्दरं शिशुं प्रसूते स्म । चेटीभिर्वर्धापितो नृपो महोत्सवपूर्वकं वर्धापनकं कारयित्वा नामदिने सम्प्राप्ते स्वप्नानुसारं का तन्नाम 'देवराज' इति स्थापितवान् । सोऽपि शिशुः स्वमात्रा पाल्यमानोऽनुदिनं प्रवर्धते स्म।
अथाऽन्यदा कदाचित् रात्रौ शुभशयनीये निद्रायमाणा राज्ञी पुनरपि स्वप्नमेकं - ददर्श । तत्र सा शङ्खतलविमलधवलमाभूषणविभूषितं सुपुष्टशरीरं सुन्दरमेकं वृषभं स्वमुखे
प्रविशन्तं दृष्ट्वा विबुद्धा । शुभसङ्केतसूचकमिदं स्वप्नमिति हृष्टा, अपूर्वः कोऽपि लाभो कर - भवितेति तुष्टा, स्वाम्यपि ज्ञात्वैतत् प्रसन्नो भविष्यतीत्यानन्दिता विकसल्लोचनकपोलयुगला च । V सा राजानं प्रतिबोध्य यथातथं कथितवती । नृपोऽपि तच्छ्रुत्वाऽऽह्लादितोऽकथयत्- 'यतस्त्वया ।
३२
Page #48
--------------------------------------------------------------------------
________________
मुखे प्रविशन् वृषभ: स्वप्ने दृष्टोऽतस्तवैकस्तेजस्वी गुणगणैश्चाऽनन्यसदृशः पुत्रो भविष्यति ।' धारिण्यपि तद्वच उररीकृत्य सुखंसुखेन गर्भं पालयति स्म, यथाकालं च प्रसरत्कान्ति पुत्ररत्नमेकं प्रसूते स्म । वृत्तमिदं ज्ञात्वा राजाऽपि महामहः पुरस्सरं विशिष्टं वर्धापनकं कारितवान् सर्वेभ्योऽपि च प्रजाजनेभ्यो महार्घोपायनदानादिभिः प्रीणितवान् । तत: स्वप्नानुसारं तस्य नाम वत्सराज इति प्रस्थापितवान् । एषोऽपि बालो द्वितीयाचन्द्रमा इव गुणगणैर्देहोपचयेन चाऽवर्धततराम् । अष्टमे वर्षे च प्राप्ते स कलाशिक्षणाय शोभने दिने कलाचार्याय समर्पितो
राज्ञा ।
बालोऽप्येष पूर्वजन्माभ्यस्तसमस्तकल इवाऽल्पेनैव कालेन सर्वमपि कलाकलापमनन्यसमतया शिक्षितवान्, अन्यमपि च गुणनिकुरम्बं दृढमभ्यस्तवान् । एवं च सर्वकलाप्रवीणे गुणशालिनि च तस्मिन् सर्वेऽपि पौरा गाढमनुरागमुद्वहन्ति स्म ।
अत्राऽन्तरे सहसा पूर्वकर्मविपाकै राजा महारोगाक्रान्तोऽभवत् । तथाहि - दाहज्वरेण तच्छरीरं वनदवेन तप्तस्य कुञ्जरस्येव संतप्यते स्म, श्वास - कासरोगैस्तद्देहो वृक्षपतितपर्णमिव शुष्यते स्म तथाऽन्यैरपि बहुविधैर्दारुणै रोगैस्तद्देहो जर्जरितोऽभवत् । एवंविधवेदनाभरविकलं राजानं दृष्ट्वा भट-सामन्तादयः परिजना राज्ञीप्रमुखाश्च परिवारजनाः सर्वेऽपि दुःखसन्तप्तहृदया: सञ्जाताः । तैर्झटिति राजवैद्या आकारिताः । वैद्यैरागत्य नृपदेहः परीक्षितः । ततः परस्परं किमप्यालोच्य निराशतया कथितं तैर्यदेते व्याधयः सर्वथाऽसाध्याः सन्ति ।
-
एतच्छ्रुत्वा तत्रस्थाः सर्वेऽपि स्वजनपरिजनादयः कम्पिता हृदये । तेषां परस्परं संलापाः प्रारब्धा यथा – 'यदि राजा पञ्चत्वं प्राप्स्यति तदा कस्तस्योत्तराधिकारी भविष्यति ? यद्यपि कुमारो देवराजो ज्येष्ठोऽस्ति तथाऽपि गुणैर्ज्येष्ठो वत्सराज एव नृपत्वाय सर्वथा योग्योऽस्ति, अतः स एव राजा भवतु' इत्यादि ।
एवंविधान् संलापान् श्रुत्वा कश्चन मन्त्री देवराजेन विविधप्रलोभनादिभिः साधितः । ततश्च द्वावपि सम्मील्य गज- तुरगादिसमूहं स्ववशं कर्तुमारब्धौ । एतत् कोलाहलं श्रुत्वा राज्ञा स्वपरिचारकाः पृष्टा: ‘भोः ! किमर्थमेष आघट्टः ?' तदा तैरपि सर्वं यथावस्थितं कथितं यथा ‘देव ! इदमीदृशं जात’मिति । एतेन मनस्यधिकं सन्तप्तो राजा विलपति स्म - 'हा हा ! इदं तेन मन्त्रिणा सर्वथाऽयुक्तं विहितम् । वत्सराजकुमाराद् ऋते नाऽन्यः कश्चिद्
३३
Page #49
--------------------------------------------------------------------------
________________
राजपदार्होऽस्ति । अहं च ईदृशीमवस्थां प्राप्तोऽस्मि, किं करिष्ये ? अहो ! अथवा भवत्वेतदपि ..... ' । इति कथयन् राजाऽत्यन्तं दुःखितहृदयस्तत्क्षणमेव पञ्चत्वं प्राप्तः ।
अथ च मन्त्रिसाहाय्येन देवराजकुमारः स्वयमेव स्वं राजत्वेन घोषयित्वा सिंहासनमारूढः । वत्सराजकुमारोऽपि सरलहृदयतया सर्वमपि स्वीकृत्य प्रतिदिनं ज्येष्ठभ्रातुः सेवां करोति स्म, जनकमिव च विनय - नमस्कारादिकां सर्वामपि प्रतिपत्तिं विधत्ते स्म ।
परन्तु प्रजाजनानां सर्वेषामप्यनुरागो वत्सराजकुमारे एवाऽऽसीन्न तु देवराजे । एतज्ज्ञात्वा मन्त्रिणश्चित्तं चिन्ताकुलं जातं यद् 'नूनमेष यदाकदाचिदपि राज्यं हस्तसात् करिष्यति, अतो यावदेष व्याधिः कोमलोऽस्ति तावदेवाऽस्य कश्चिदुपायोऽन्वेष्टव्यः ।' ततश्च दुर्जनस्वभाव: स मोहमूढमतित्वात् नानाविधान् विकल्पान् कर्तुमारब्धः ।
अथवा, किमत्राऽऽश्चर्यं ? यतो दुर्जनानां प्रकृतिरेवेदृशी । अत्राऽर्थे विद्वांसोऽप्येवं भणन्ति यत् – ‘अस्मिञ्जगति शुद्धस्वभाववान् साधुजनोऽन्यथैव व्यवहरति, किन्तु दुष्टस्वभावो दुर्जनजनस्तमन्यथैव मन्यते । यथा यथा परिशुद्धधियः सुजनाः स्नेहेन काश्चित् चेष्टाः कुर्वन्ति, तथा तथेतरोऽपि दृढतया ता अन्यथैव विकल्पते । '
अथ च, मन्त्री तत्क्षणमेव देवराजनृपान्तिकं गत्वा विनिवेदितवान् - 'प्रभो ! एष तव लघुभ्राता एवं वर्धमानो न शोभनो भवतो हिताय ।'
देवराजेन पृष्टं - ' तर्हि किमत्र क्रियते ?'
'स्वामिन् ! निर्विषय: क्रियतामेषः, येन भवतो न कोऽप्यपायो भावी तत्सकाशात्' । राज्ञाऽपि तद्ववचः समर्थितं; प्रभातकाले च वन्दनार्थं समागताय वत्सराजकुमाराय समादिष्टं यत् - 'कुमार मम देशं परित्यज्य भवानन्यत्र कुत्राऽपि गच्छतु' इति । 'भवदादेशः शिरोधार्योऽस्तीति साञ्जलि भणित्वा स निजजननीपार्श्वे गतः । तस्यै च सर्वमपि यथावृत्तं कथितवान् सः । साऽपि तन्निशम्य मन्युभरपूर्णमानसाऽश्रुपूर्णनयना चाऽत्यन्तं दुःखिता जाता । तां दुःखिनीं दृष्ट्वा वत्सराजेन विज्ञप्तं 'मातः ! मैवं शुचत्, अथ च मे गमनादेशं प्रयच्छतु ।'
‘पुत्र ! यद्येवं तर्ह्यहमपि त्वया सहैव निजभगिनीयुताऽवश्यमागमिष्यामि ।' ‘किन्तु मात: ! देशान्तराण्यतीव विषमाणि भवन्ति । भवती पुनः सुखसमुचिताऽस्ति ।
३४
-
Page #50
--------------------------------------------------------------------------
________________
कथं भवत्या तानि तानि दुःखानि सहिष्यन्ते ? अतोऽत्रैव सुखं तिष्ठतु ।'
'पुत्र ! मा वोच एवम् । त्वं यदि मम पार्वेऽसि तदा किं दुःखं मम ? तथा र परिजनोऽपि भविष्यति अस्माभिः सह । अतो न काऽपि चिन्ताऽस्ति मम ।' इत्येवं धारिणीदेव्याऽतिनिर्बन्धे कृते वत्सराजेन तदङ्गीकृतम् ।
ततश्च कुमारस्तन्माता मातुःष्वसा च समग्रेण दासादिपरिजनेन वाहनैश्च सह प्रस्थिताः । म V एतज्ज्ञात्वा देवराजो नृपो झटित्यागत्य परिजनं वारयन् रोषेणोक्तवान् - 'अनेन समं यः Me कश्चिदपि यास्यति तस्य प्राणानेव ग्रहीष्यामि ।' एतच्छ्रुत्वा वत्सराजेन स्वयमेव सर्वेऽपि Ka दासादयः प्रतिनिवर्तिताः । एतावता देवराजेन वाहनान्यपि निवारितानि ।
एतद् विलोक्याऽपि क्षोभमप्राप्ते द्वे अपि भगिन्यौ कुमारेण सह पादचारेणैव म * गन्तुमारब्धे । ताभ्यां किञ्चित् सम्बलं पिटके स्थापयित्वा शीर्षे धृतमासीत् । एतद् व्यतिकरं - - दृष्ट्वा समस्तेऽपि नगरे जनेषु हाहाकारः समुच्छलितः । तादृशः कोऽपि जन एव नाऽऽसीत् । तत्र यस्य नयने गलदश्रुणी न सञ्जाते । यत्र तत्र च करुणापूर्णानि वचांसि श्रूयन्ते स्म यथा
__'अहो ! अद्येदं नगरं नितरामनाथं जातम् । श्रीवीरसेननृपस्त्वद्यैव मृत इतीव NB प्रतिभाति । नूनमधन्यमिदं नगरं निर्भाग्यशेखराश्च वयं यदीदृशेन पुरुषरत्नेन मुच्यामहे । से अथवाऽप्युचितमेवेदं यतः कल्पवृक्षः कदाचिदपि दुरदृष्टवतां स्थिरो नैव भवति......' ।
इत्येवमादीनि विलापवचनान्याकर्णयन्तस्त्रयोऽपि ते चलन्तः कण्टक-कर्करादीन् । विषहमाणाश्च दुर्गमपथान् नदी-पर्वतादींश्च विलय तद्देशसीमामतिक्रम्याऽवन्तिदेशं प्राप्ताः । तत्राऽपि च विहरन्तस्ते सुरम्यां क्षिप्रातटिनीतटोपशोभितां पुर्यग्रगण्यामुज्जयिनीपुरीं प्राप्ताः । क्रमशः ।
तत्र च स्वीयसौहार्देनाऽजातशत्रुरपि जितशत्रुप नृपतिः शासनं कुरुते स्म । तस्य चाऽग्रमहिषी रूपेण कनकाभा गुणैश्च श्रियः सदृशी कनक माऽऽसीत् । यत्र चाऽर्थिन: र कदापि न याचन्ते, कलङ्कस्तु निशाकरे एवाऽस्ति, विवादास्तु पण्डितसभास्वेव जायन्ते, कलहस्तु बालक्रीडास्वेव भवति तादृश्याः पुर्या बहिरुद्याने वृक्षस्य च्छायायां विश्रामार्थं ।
त्रयोऽप्युपविष्टाः । तावता धारिणीदेवी चिन्ताकुलहृदया सञ्जाता । विकल्पैस्तस्याश्चित्तं दुःखितं । V जातम् - 'हा हताश ! हतविधे ! तव मनसि किमेतत् समागतं येन त्वयाऽस्माकमीदृशी
३५
Page #51
--------------------------------------------------------------------------
________________
दुरवस्था विहिता ? तवैतादृशे अत्यन्तमचिन्त्यरूपे विषमे स्वरूपेऽस्माभिः किं कर्तव्यं ? YO कुत्र गन्तव्यं ? कथं च निस्तरीतव्यं जन्म ?....'
एतावता एवंविधैर्विकल्पैर्व्याकुलां तां सहसा तद्भगिन्या विमलाभिधया भणितं-V 'जामे ! अहं नगरान्तर्गत्वा तादृशं कञ्चिदाश्रयं गवेषयामि यत्राऽस्माकं निर्वाहो निवासश्चाऽपि ।
सुखं स्यात् ।' धारिण्योक्तं - 'आम् विमले ! कुरुष्वैतत् ।' ततो विमलाऽपि नगरी प्रविश्य Ko १० यूथभ्रष्टा मृगीव प्रचुरजनसङ्कीर्णेषु मार्गेष्वितस्ततः प्रलोकयन्ती एकस्योत्तुङ्गस्य ध्वजपटाकीर्णस्य हर्म्यस्याऽग्रे समागता । तस्य च प्राङ्गणे एकं मध्यमवयस्कं श्रेष्ठिनं दृष्ट्वा तत्पावें गता
सा पृच्छति स्म 'महोदय ! वयमत्र नगरे निवसितुमिच्छामः । यदि भवानस्माकं कञ्चिदाश्रयं R दर्शयेत् तदा वयं भवतो निश्रायां सुखेन निवसामः ।'
तेन पृष्टं - ‘भद्रे ! भवत्कुटुम्बे कति जना वर्तन्ते ?' 'महोदय ! द्वे भगिन्यौ आवां तथा मम भगिनीसुतश्चेति त्रयो जनाः स्मः ।' ‘एवं तर्हि अस्मिन्नपवरके तिष्ठन्तु । परं भाटकं तु किञ्चिद् दातव्यम् ।'
'भोः ! अस्माकं समीपे तु किमपि नास्ति । किन्तु आवां द्वे भगिन्यौ भवदीयगृहे M कार्यं करिष्यावः । तदेव यदि भाटकरूपेण स्वीकरोति भवान् तथा भोजनव्ययमपि तत एव । मन्यते तदा वयमेतदपवरके निवसितुमागच्छेम ।'
भवतु भद्रे !, भवत्याः कथनं मम सम्मतम् । अद्यैव आगच्छन्तु अत्र' इति । श्रेष्ठिनोक्ते ते त्रयोऽपि तत्राऽऽगता निवस्तुम् । द्वे अपि भगिन्यौ तद्गृहे कर्मनिरते अभवताम् । यतो दुष्पूरोदरदरीपूरणाय यत् कदाऽपि न कृतं तदपि करोति जनः । अपि च, स्वपूर्वकर्मणांक वशंवदा जीवा सुबहुदुःखानां भाजनं भवन्ति । यथैषैव धारिणी महाराज्ञी भूत्वाऽपि परगृहकर्माणि करोति स्म । बहुविधसुखलालिताऽपि च विविधदुःखभाग् जाता । किञ्चाऽत्र कारणं त्विदं प्रतिभाति यद् - दानं ददता यदि चित्तं किञ्चिदपि कलुषितं स्यात् तदा दायक:
परत्र सुखानि भुक्त्वा पश्चाद् दुःखान्यप्यनुभवति । अतोऽस्माभिर्मन:कालुष्यं सर्वथा निरोद्धव्यम् । ॐ सर्वमपि च धर्मकृत्यं सदा विशुद्धचित्ततयैव कर्तव्यमिति । स एवं च श्रेष्ठिगृहकर्मनिरतयोस्तयोः कतिपयदिनानि व्यतीतानि । तावता तेन म Vवणिजाऽन्यदोक्तं धारिण्यै- 'भद्रे ! भवत्याः पुत्र एष सर्वथा निर्व्यवसायोऽस्ति । यदि
Page #52
--------------------------------------------------------------------------
________________
भवत्योरुचितं प्रतिभाति तदाऽयं मे गोधनं रक्षतु ।' एतन्निशम्य यत्किञ्चिदर्दवितर्दै च * Ho विचिन्त्याऽनिच्छन्त्यावपि ते श्रेष्ठिवचनमङ्गीकृतवत्यौ । वत्सराजकुमारोऽपि च सुविनीतत्वात् A चित्तेऽभाव्यमानमपि तत् कार्यं जननीवचसा कर्तुमारब्धः, प्रतिदिनं च श्रेष्ठिनो गोवत्सादीन् । गृहीत्वाऽटवीं गच्छति ।
अथाऽन्यदा स एवमेवाऽटवीं गतः सन् चरत्सु गोवत्सेषु कस्यचिद् वृक्षस्याऽधो Hd विश्राम्यति स्म । तावता कुतश्चित् प्रदेशात् तेन शस्त्रचालनशब्दः श्रुतः । सोऽचिन्तयत् यद और 'ननु कुत्रचित् कोऽपि शस्त्रचालनाभ्यासं करोति इति प्रतिभाति, यत एष शब्दस्तस्यैवाऽस्ति ।' 'नूनं मया द्रष्टव्यमेतद्' इति निश्चित्य शब्दानुसारं स वनखण्डमध्यभागं प्राप्तः । तत्र च तेन बहवः कुमाराः कलाचार्यसान्निध्ये नानाशस्त्राणि चालयन्तो दृष्टाः । एतेनाऽत्यन्तं हृष्टो हर्षेण पर चोत्फुल्ललोचनः स एकस्मिन् कोणे स्थित्वा तेषां विज्ञानं पश्यति स्म । ...
यदि कश्चित् कथञ्चिदीषदपि घाताद् भ्रश्यति तदैष ‘हा हा...' इति वदन् मुखे र विच्छायतां भजति स्म, यदि च कश्चित् लक्ष्ये स्थाने वा प्रहारं निपातयेत् तदाऽतीव सन्तोषेण 'साधु भोः ! साधु...' इति वदन् प्रफुल्लत्वं भजति स्म । एवं कुर्वाणं तं दृष्ट्वा कलाचार्येण चिन्तितं, 'नूनमेष शस्त्रास्त्रचालने कोविदोऽस्ति यतो बालोऽप्येष एवं शस्त्राणां मर्माणि
जानाति ।' ततस्तेन निजसमीपे आहूय पृष्टोऽसौ- 'वत्स ! कोऽसि त्वम् ? कुतस्त्यश्चाऽसि ?' - तेनाऽपि गदितं - 'तात ! अहं वैदेशिकोऽस्मि, कौतुकेनेदं प्रेक्षितुमत्राऽऽगतोऽस्मि ।'
'त्वं कियन्मानं शस्त्रास्त्रव्यापारणं जानासि ? कथय माम् ।' _ 'प्रभो ! सङ्गतिवशात् किञ्चित् परिचयमानं ममाऽस्ति शस्त्राणाम् ।' ततः कलाचार्येणाऽऽदिष्टं, 'वत्स ! शस्त्रं करे कृत्वा स्वविज्ञानं दर्शयाऽस्माकं तावत् ।' असावपि तदङ्गीकृत्य सर्वेष्वर्थेषु स्वकौशलं प्रकटितवान् । एतद् दृष्ट्वा सर्वेऽपि विस्मतचित्ताः म सञ्जाताः । सर्वेऽपि च तमभिनन्दन्ति स्म ।
एवं चाऽनेन सर्वैः सह शस्त्रचालनप्रयोगाः कृताः कञ्चित् कालं, तावत् कुमाराणां । कृते राजप्रासादात् वरभोजनं गृहीत्वाऽनुचराः समायाताः । कुमारैस्त्वेषोऽपि सहैव प्रवर१ भोजनविधिना भोजितः । ततः पुनरपि सर्वेऽभ्यासनिरता अभवन् । विकाले च सञ्जातेऽयं निजगृहं प्रति प्रस्थितः । तस्य गोवृन्दं तु सति दिवस एव स्वरक्षकमदृष्ट्वा गृहे समागतमासीत् ।
Page #53
--------------------------------------------------------------------------
________________
LASSIC
* अतो यावत् स गृहं न प्राप्तस्तावत् श्रेष्ठिना पृष्टं तन्मात्रे- 'किमित्येते गवादयोऽद्य सद्दिवस % Y एव गृहं समागताः ?' । तयोक्तं, 'न ज्ञायते महाभाग !, यतो वत्सराजस्तु इतोऽपि
नैवाऽऽगतोऽस्ति ।' श्रेष्ठिनोक्तं, 'अहो एतदपि न शोभनं यदितोऽपि स बालो नाऽऽयातः ।' एवमधृतिपरा एते यावद् विलपन्ति तावत् स समागतः । 'कुत्र गत आसीस्त्वम् ?' सर्वैरपि - पृष्टम् । 'अहो ! तत्र वृक्षस्याऽध उपविष्टस्य मम शीतलसमीरणेन निद्राऽऽगताऽत एवं का जातम्', तेनोक्तम् । 'अस्तु, अग्रेऽवहितो भवः' इति श्रेष्ठिना कथितम् ।
किन्तु द्वितीयदिने तृतीयदिने चाऽप्येवमेव घटितम् । अतः श्रेष्ठिना ते त्रयोऽपि दृढमुपालब्धाः । द्वे भगिन्यावपि रुष्टतया तं शिक्षयतः स्म यत्, 'वत्स ! किं त्वं न जानीषे । यद् वयं परदेशे वसामः, कर्मकरत्वं भजामः, परगेहे निवसामः, कष्टेन च भोजनादि प्राप्नुमः ? किमर्थमेवं कुरुषे येनाऽस्माभिरुपालम्भः श्रोतव्यो भवेत् ?' एतच्छ्रुत्वा तेनाऽपि . सहसा कथितम्, 'अम्बे ! यत् किमपि भवतु नाम, अहं त्वद्यप्रभृति नैतानि गोवत्सादीनि रक्षिष्यामि, एष मम विनिश्चयः ।' अतस्ताभ्यामपि श्रेष्ठिने कथितं तत् सर्वमपि । तेनाऽपि चाऽन्यः कोऽपि गोपालो विनियुक्तः । ..
एष तु नित्यमपि निश्चिन्तमनसा कुमाराणां पार्वे गत्वा क्रीडा-शस्त्राभ्यासादि छ करोति । एवं च तस्य स्वरूपं दृष्ट्वा तन्मात्रा तस्मै कथितमेकदा, 'पुत्र ! त्वं तु सर्वथा । निश्चिन्तोऽसि, किन्तु अत्र नो निर्वाहोऽतीव कष्टेन भवति । अथवा भवतु तत्, किन्तु पुत्र ! "
अस्माकं गृहे इन्धनं नास्ति । अतः कुतश्चिदानीय ददस्व, किमिति यथेच्छं विहरसि ?'। 5 एतन्निशम्य सोऽभिमानधनत्वात् उत्तेजितो भूत्वाऽकथयत् - 'मातः ! श्रेष्ठिपाश्र्थात् कुठारं V रज्जुखण्डं च मार्गयित्वा मे देहि, येन प्रभाते तदिन्धनमानेष्यामि यत् केनाऽपि नैवाऽऽनीतपूर्वम् । * धारिणी तु तदैव तद्वयमप्यानीय तस्मै दत्तवती ।
कुमारोऽपि च प्रभाते उत्थाय नानाविधतरुवरैः सङ्कलमरण्यं पश्यन्नरण्यं प्रति - प्रस्थितः । तच्चाऽरण्यं कदम्ब-निम्ब-जम्बू-शिम्बादिवृक्षेः समाकुलं, नाग-पुन्नाग-पूग- VS श्री तगरादि-विटपिसङ्कलम्, अर्जुन-सर्ज-खजूर-स्फूर्जकादिशाखिभिः पूरितं, खदिर-बदरीo मालूराम्रतरुभिश्च समाकीर्णमासीत् । एवंविधं बहुविधतरुवरभरनिरन्तरं वनान्तरं निरीक्षमाणः
कुमारो मनोऽभिलषितं कञ्चिद् वृक्षं मृगयमाणो परिभ्राम्यति स्म ।
३८
Page #54
--------------------------------------------------------------------------
________________
अथ चैकस्मिन् गहनप्रदेशे तेनैका रमणीया देवकुलिका दृष्टा । तस्यां कुलिकायां । * तस्य वनस्य स्वामिनो, भक्तिमतां प्रत्यक्षस्य, वरयक्षस्य प्रतिमा प्रतिष्ठिताऽऽसीत् । तस्या
दर्शनं कृत्वा ततोऽप्यग्रे गतः सन् नाऽतिदूरप्रदेशे सोऽतिसुगन्धं गन्धं प्रसरन्तं सत्यापितवान् । गन्धमाघ्राय तेन चिन्तितं, 'ननु श्रीचन्दनस्याऽयं गन्धः, किन्तु कुतस्त्योऽयं ? आम्, ज्ञातं, - नूनमत्र चन्दनद्रुमेण भवितव्यम् । किन्तु कथं ज्ञातव्यं यदयमेव चन्दनवृक्ष इति ? यतस्तस्य
परिमलेन सर्वेऽप्येते परिवासिताः स्युः ! ... हुं ज्ञातं, चन्दनवृक्षस्य लक्षणमेतद् यत्तत्र विषधरास्तत्सुरभिमोहिता नितरां निवसन्ति । अतः स एव वृक्षोऽन्वेष्टव्यो मया ।' ततश्च स ,
सूक्ष्मतया सर्वत्र निरीक्षमाणः सर्वत्राऽपि वनखण्डे भ्राम्यति स्म । एतावतैकस्मिन् स्थाने छ नानाविधैः पन्नगैः परिकरितं नयनमनोहरमेकं महान्तं वृक्षं दृष्ट्वा प्राप्तौऽसौ तत्र ।
ततो निर्भीकत्वादत्युत्तमसत्त्वसाहसयुक्त्वाच्च तेन ते स्फुरन्तो विषधराः पुच्छेनैव गृहीत्वा दूरं प्रक्षिप्ताः । 'व्यन्तरवनमिदम्' इति कृत्वा केनाऽपि तत्र वने वृक्षाणां छेदनं सो कृतमासीत्, किन्त्वयमत्युत्कटसत्त्वशालित्वात् तस्यैव वृक्षस्य शाखैकदेशं छिनत्ति स्म ।
ततस्तस्याः खण्डान् कृत्वा रज्ज्वा बद्ध्वा च सन्तुष्टहदयो नगराभिमुखं प्रचलितः । यावत्
स पुरीसमीपं प्राप्तस्तावत् तु गतप्रतापनृपतिरिव शीतलकरो दिनकरोऽस्तमयगिरिशिखरं प्राप्तः । * क्षणमात्रेणैव तमःसाम्राज्यं सर्वत्र प्रसृतम् । नगरद्वाराणि च झटिति सर्वाण्यपि पिहितानि ।
- तस्या नगर्या अयं कल्प आसीद् यदनुद्गते सूर्ये किल शाकिनीभयेन नगरीद्वाराणि नैवोद्धाट्यन्तेश्री इति । वत्सराजकुमारस्तदैव तत्र प्राप्तः । किन्तु द्वाराणि तु पिहितान्यासन् । अतस्तेन चिन्ततं, in 'ननु कुत्र यापनीया रात्रिः ? द्वाराद् बहिर्गृहाणि सन्त्येव किन्तु तत्र वस्तुं न शक्यं, । स यतश्चन्दनखण्डानां गन्धोऽत्युत्कटोऽस्ति । शीतकालश्चाऽयमतीव दारुणोऽस्ति । कुत्र गन्तव्यम् ?
.... आम् ! तत्रैव देवकुले गमिष्यामि ।' इति विनिश्चित्य स पुनरपि तस्यामेवाऽटव्यां प्राप्तः । पर हस्तस्थं चन्दनखण्डबन्धमेकस्मिन् तरौ स्थापयित्वा कुठारं च सहैव गृहीत्वा स देवकुलिकां R प्रविष्टः । ततस्तस्याः कपाटौ पिधायैकत्र देशे च स्वीयमुत्तरीयवस्त्रं प्रसार्य प्रसुप्तोऽसौ ।
मध्यरात्रे एकाऽत्यद्भुताऽऽश्चर्यकरी च घटना घटिता । ___अत्रैव जम्बूद्वीपे भरतक्षेत्रे मध्यभागे वैताढ्याभिधो नगवरोऽस्ति । तत्र दशाधिके । - शते नगरेषु विद्याधरा निवसन्ति । अथ तेषामेव विद्याधराणां कुमार्यः काश्चिद् विद्याधर्यः ।
क्रीडार्थं रम्ये एकस्मिन् विमाने उपविश्य तत्रैव देवकुलिकायाः समीपे प्राप्ताः । तत्र च विजनं
Page #55
--------------------------------------------------------------------------
________________
दृष्ट्वा स्फारशृङ्गारवेषधरास्ताः परस्परं संलपन्ति स्म यत्, 'हले ! हले! अत्राऽद्याऽयं सुन्दरोऽवसरः प्राप्तोऽस्त्यस्माभिरतः सविशेषं शृङ्गारं कुरु येन रासकं गायन्त्यो वयं नृत्येम । हञ्जे चित्रलेखे ! त्वं वीणां वादय, तथा मदनिके ! त्वं तालातोद्यं गृहाण । भो वेगवति ! त्वं पटहं सज्जीकुरु त्वं च पवनिके! मर्दलं प्रगुणीकुरु । तथा हे गन्धर्विके ! त्वं रासकं गाय येन शिष्टा वयं सर्वा मनोमोहनं नृत्यं कुर्यामः । अस्मिन् एकान्त-स्थलेऽतिरम्येऽद्याऽस्माकं सर्वेषामपीयमिच्छा पूर्णा भविष्यति ।'
एवं ताः सर्वा अपि गायन्त्यो नृत्यन्त्यो वादयन्त्यश्च विविधप्रकाराभिः क्रीडाभिदर्घकालं यावत् तत्र क्रीडन्ते स्म । ततः परिश्रान्तगात्रास्ता अन्योन्यमुपहसन्त्य उपविष्टाः, मुक्तपरिधानाश्च व्यजनतालवृन्तादिभिः प्रस्वेदक्लिन्नदेहानतिनिर्भरतया वीजयन्ति स्म । तत: कञ्चित् कालं विश्रम्य ताः पुनरपि विमानं समारुह्य स्वस्थानं प्रति गतवत्यः ।
इतः कुमारोऽपि तासां कोलाहलेन प्रारम्भ एव जागृतः सन् द्वारस्थेन कुञ्चिकाच्छिद्रेण तत् सर्वं चित्तचमत्कारकरं दृश्यं प्रेक्षमाण आसीत् । यदा ताः सर्वा अपि गतास्तदा तेन दृष्टं यत् कस्याश्चिद् विद्याधर्याः कञ्चुक एकस्तत्रैव पतित आसीत् । स विविधचित्ररचनाभिर्मनोहरो नानाप्रकाररत्नविहितपर्यन्तो दर्शनेनैव चाऽतीवरमणीय आसीत् । 'नूनं काऽपि बाला कञ्चुकमेनं विस्मृत्यैव गतेति प्रतिभाति' इति विचिन्त्य, 'ननु गृह्णाम्येनम्' इति भावयित्वा च तेन कपाटावुद्धाट्य कञ्चुको गृहीतो झटिति च पुनरन्तः प्रविश्य कपाटौ दत्तौ ।
एतावता, यान्तीनां तासामेका प्रभावती नाम विद्याधरी सहसा स्मृतवती यद् 'मम कञ्चुकस्तु तत्रैव विस्मृत' इति । अतस्तया स्वसख्यै कथितं- 'भद्रे ! ममाऽतिमहार्घः कञ्चुकस्तु तत्रैव पतितो मया विस्मृतश्च । इदानीं किं कर्तव्यम् ?' एतत्तु सर्वाभिरपि श्रुतमतस्ताभिः कथितं, 'त्वं वेगवतीसहिता तत्र गत्वा तं कञ्चुकमानय ।' साऽपि ससखी विद्याशक्त्या शीघ्रमेव तत्र प्राप्ता । किन्तु तत्र स्थाने कञ्चुकस्तया न दृष्टः । अतोऽनया सर्वास्वपि दिक्षु सम्यङ् निरीक्षितं किन्तु नैव दृश्यते स्म । एतेन क्षुब्धा सा सखीं जल्पति स्म, 'वेगवति ! किमेतदाश्चर्यं येनेयत्या स्तोकवेलयाऽपि कञ्चुको न कुत्राऽपि दृश्यते ? तथैषाऽटव्यपि निर्मानुषा वर्तते, रजन्यपि यामत्रयमितं व्यतीताऽस्ति, अतः कोऽपि समागत्य कञ्चुकं गृह्णीयादित्यपि न सम्भवेत् ।' वेगवत्या कथितं, 'भो ! मा शुचः प्रायो वातेन दूरं नीतो भवेत् । अतः सर्वतः सम्यक्तया निरीक्षेमहि ।' बहुनिरीक्षणेनाऽपि यावन्न प्राप्तः स
४०
Page #56
--------------------------------------------------------------------------
________________
तावत् ताभ्यां वृक्षोपर्यवलम्बमानः काष्ठबन्धो दृष्टः । 'नूनमत्र देवकुले कोऽपि वर्तते । मन्ये, Ho तेनैव मम कञ्चको गृहीतो भवेत् । चल, तावद् भापयावस्तं येन स बहिनिःसरेद्' इति A प्रभावत्या स्वसख्यै गदितम् । ततो द्वे अपि तत्र गत्वा वदतः स्म यद्, 'रे मनुष्य ! द्रुतं
निर्गच्छ देवकुलात्, कञ्चुकं चाऽर्पय मेऽन्यथा तव शीर्ष लविष्यावः ।' एवंविधेषु बहुष्वपि - भयोत्पादकेषु वचनेषु कथितेष्वपि कुमारः सत्त्वशालित्वान्नैव मनागपि भीतः । एते अपि । यक्षभयात् कपाटौ नोद्घाटयतः स्म ।
किञ्चिद् विचिन्त्य वेगवत्या कथितं, 'हले ! यः कोऽपीहोषितोऽस्ति तस्य जनन्यादयो । नगरमध्येऽस्य चिन्तयाऽधृतिवशाद् विलपन्तो भवेयुरेव । अतस्तत्र गत्वा तेषां रोदनशब्दं च । का श्रुत्वाऽत्राऽऽगच्छाव तद्विलापानुकरणं च कुर्याव येनैष तच्छ्रुत्वा द्रुतं निर्गमिष्यति ।'
___ 'अयं तु समीचीन उपायः; चल तावत् गत्वाऽऽगच्छामः' इत्युक्त्वा प्रभावती सख्या 1 सह नगरी प्राप्ता । तत्र च धारिणीदेवी विमला च सत्यमेव विलपन्त्यौ आस्ताम् । यथा, म म हा दैव ! हतविधे ! किं त्वं कर्तुं प्रवृत्तोऽसीदम् ? प्रथममेव त्वया जगज्जैत्रोऽपि नौ भर्ता । Vवातेन दीप इव विध्यापितः, ततोऽपि निर्दयमनसा त्वया निरेनसोऽपि वयं परदेशे निष्कासिताः, मा
- तदपि च यथा तव पर्याप्तं न प्रतिभातं तथा दुःसहदारिद्यमपि समानीतम् । तदपि वयं परकर्म * कृत्वा सहमाना आस्म, किन्तु तत्राऽपि तवेर्ध्या जाताऽतो रे निर्लज्ज ! अद्याऽऽवां पुत्रेणाऽपि AM वियोजिते ? हा सकलकलाकुशल ! मातृवत्सल ! वत्सराज ! वत्स ! आवामनाथे मुक्त्वाऽद्य 1 श्री कुत्र गतोऽसि ? निष्पुण्याभ्यामावाभ्यामद्येन्धनकृते परुषवचनैस्तर्जयित्वा प्रेषित इति रुष्टोऽसि .
वा ? क्षमस्व पुत्र ! तत्, लघु आगच्छ च गृहं, मा विलम्बं कुरु, अन्यथा नौ हृदयं तडिति Va श स्फोटिष्यति, नाऽत्र सन्देह; ।'
इमे विद्याधर्यो सर्वमिदं विलपितं श्रुत्वा नामादि च ज्ञात्वा क्षणेनाऽटवीं प्राप्ते । तत्र च देवकुलिकाया बहिरागत्य तयोरेवं स्वरेण विलपितुमारब्धवत्यौ – 'हा वत्सराज ! वत्स ! । तव वियोगेऽतीव दुःखार्ते आवां त्वां गवेषयन्त्यौ झटित्यत्र प्राप्ते । कुत्राऽसि त्वं भोः !, शीघ्रं र - दर्शनं देहि अन्यथा नौ जीवितमेव सन्दिग्धम् !!'
एतत् श्रुत्वा कुमारः सहसा चित्ते चमत्कृतः, 'नूनमेष मम जनन्योरेव शब्दोऽस्ति । H अतो बहिर्निर्गत्य तयोधृति प्रापयेयं तावत् । ..... अथवा, स्थगितद्वाराया पुर्या र V मध्यात्तयोरत्राऽऽगमनं कथं वा सम्भवेत् ? नूनमेते ते विद्याधर्यो एव यौ स्वार्थवशाद् मम ।
Page #57
--------------------------------------------------------------------------
________________
जननीशब्दानुकरणेन रोदनं कुरुतः ।' इति विचिन्त्य च तूष्णीक एव तत्रोपविष्टः । अत्रान्तरे - * नाशिततमोरिपुसमुदय आदित्यः कुमारस्योदयमिव सूचयन्नुद्गतः । एतद् दृष्ट्वा निर्वेदं का ' प्राप्तवत्यौ खेचर्यावपि स्वस्थानं गतवत्यौ ।
इतः कुमारोऽपि कुञ्चिकाविवरेण सूर्यकरानन्तः प्रविष्टान् दृष्ट्वा हृष्टो झटिति देवकुलानिःसृत्य कञ्चकं चन्दनद्रुमकोटरे स्थापयति स्म, अन्यत्र च स्थापितं चन्दनकाष्ठबन्धं गृहीत्वा ka कुतश्चिद् वृक्षादपरमपि काष्ठखण्डं छिनत्ति स्म । ततः सर्वमपि गृहीत्वा नगरी प्रति प्रस्थितो यावद् द्वारसमीपे आगतस्तावत् चन्दनस्य परिमलः सर्वत्र प्रसरति स्म । सर्वे चिन्तयति स्म
यत् 'कुतोऽयं चन्दनगन्धः समायाति ?' इति । अनेन तु द्वारस्थिताय पुरुषाय स R इतरवृक्षकाष्ठखण्डोऽर्पितोऽतोऽयमिन्धनवाही' ति कृत्वा तेनाऽपि प्रवेशितो नगरमध्ये । स तु - शीघ्रशीघ्रं गृहं प्राप्य सर्वमपि तदेकस्मिन् कोणे स्थापयित्वा खण्डमेकं मातुःस्वसुः
करेऽर्पितवान्, उक्तवांश्च, 'अम्बे ! एनं गन्धिकहट्टे विक्रीयाऽऽगच्छ, बहु मूल्यं प्राप्स्यते ।'
साऽपि तं खण्डं विशिष्टमूल्येन विक्रीयाऽऽगता, प्राप्तं द्रव्यं कुमारस्य दर्शयति । तेनोक्तं, V 'अम्ब, इदानी गृहकर्म न कर्तव्यम् । अनेन धनेन श्रेष्ठिने भाटकं दातव्यं, पूर्णे च धनेऽन्यः ।
खण्डो विक्रेतव्यः । अहं पुनः स्वेच्छया सर्वमपि दिवसं क्रीडित्वा रात्रिं भवत्पार्वे यापयिष्यामि ।'
____ ततः कुमारस्तेषां शस्त्रविद्याभ्यासिनां राजकुमाराणां पार्वे गतः । तेऽपि कुमारं दृष्ट्वाऽत्यन्तं हृष्टा जाताः पृष्टवन्तश्च, 'भ्रातः ! ह्यो नाऽऽगतस्त्वं तत्र किं कारणम् ?' अनेनोक्तं, 'शरीरे किञ्चिदपटुत्वमासीदतो नाऽऽगतोऽहम् ।'
____ 'त्वदनागमनेनाऽस्माकं मनस्यधैर्य सञ्जातं, किन्तु तव गृहं कुत्रेति न जानन्तो वयं । कथं त्वदुदन्तं ज्ञातुं शक्नुयाम ?' राजपुत्रा उक्तवन्तः ।
तदोपाध्यायोऽपि कथयति स्म, 'वत्स ! तव देश-कुल-जननी-जनकादिस्वरूपं " कथय येन वयमपि जानीयाम !' । कुमारोऽवदत्, 'तात ! कृपया साम्प्रतमेतत् कथयितुं मा
मामाज्ञापयतु, यथाप्रस्तावं पुनः सर्वमपि भवते कथयिष्ये।' एतन्निशम्य सर्वेऽपि शान्तजिज्ञासाः o सञ्जाताः । तस्मै चाऽऽत्मसममेव भोजन-वस्त्रादिकं ददति स्म । सहैव च सर्वेऽपि । सशस्त्राभ्यासादि कुर्वन्ति स्म । एवं च कतिपयदिनेष्वेव कलाचार्यस्याऽपि यानि शङ्कास्थानान्यासन्
४२
Page #58
--------------------------------------------------------------------------
________________
तानि सर्वाणि कुमारेण निःशङ्कितानि कृतानि ।
अथाऽन्यदा राज्ञोपाध्यायायाऽऽदिष्टं, 'कुमारान् गृहीत्वाऽऽगच्छतु येन परीक्षां करोमि ।' म । तद् ज्ञात्वा राजपुत्रैर्वत्सराज उक्तः, 'भ्रातः ! त्वमप्यस्माभिः सह तातपार्वे आगच्छ ।' ततो
निजतुल्यान्येवाऽऽभरणवेषादीनि तस्मै परिधाप्य सर्वेऽपि सोपाध्यायं राजास्थानं प्राप्ताः । र र राजानं च प्रणम्य दत्तासनेषु निविष्टाः । एतावता वत्सराजकुमारं दृष्ट्वा राज्ञा स्वपुत्राः पृष्टाः, - 'कोऽयं कुमारः ?' इति । तैरुक्तम्, 'अयमस्माकं भ्रातृतुल्यः' इति । तदा राज्ञोपाध्यायः
पृष्टस्तत्स्वरूपम् । तेनोक्तं, 'देव ! न जानाम्यस्य पित्रादेः स्वरूपं, किन्तु विज्ञानेन त्वेतत्तुल्यो न कोऽपि विद्यते ।' राज्ञोदितं, 'किं स्वच्छात्रस्याऽपि कुलादि न जानाति भवान् ?' तदा
कलाचार्येणाऽऽदित आरभ्य सर्वमपि कथितम् । राज्ञाऽपि चिन्तितं यत् 'कोऽपि राजसुत: 16 ८ स्यात्' इति ।
ततः सर्वेऽपि कुमारा निजविद्या दर्शयन्ति स्म । राजाऽपि हृष्टमनसाऽवलोकयति Mod म स्म । तेषां पर्यवसाने राज्ञा भणितोऽसावपि वत्सराजो निजविज्ञानं सविशेषतया दर्शितवान् । ।
एतेन सहर्षरोमाञ्चकण्टकितवपू राजा तत्स्वरूपं पृष्टवान् । तेनाऽपि निःशेषमपि स्ववृत्तमुक्तम् । एतच्छ्रुत्वा राज्ञोऽग्रमहिषी कनकश्रीः पृष्टवती, 'वत्स ! धारिणीदेवी विमला चेति द्वे अपि मम भगिन्यौ स्तः । किं मम द्वे अपि भगिन्यौ इह नगरे आगते ?' | कुमारेणोक्तम् - ''आम्' इति ।
___ तदा कनकश्री राजानं विज्ञपयति स्म - 'देव ! यदि भवदाज्ञा स्यात् तदाऽहं र 9 भगिन्योर्दर्शनं कुर्याम् ।'
राज्ञोक्तं - 'सुतरां देवि ! त्वं कुमारेण सह द्वे अपि निजभगिन्यौ राजप्रासादे एव समानय, यतस्ते तत्र दुःखेन तिष्ठतः ।' एतेन हर्षनिर्भराङ्गी कनकश्रीः प्रवरकरिण्यारूढा * बहुपरिवारसहिता च प्रस्थाय कुमारेण सह श्रेष्ठिगृहद्वारं प्राप्ता ।
श्रेष्ठी तु तज्ज्ञात्वा सहसा सम्भ्रान्तोऽघु गृहीत्वा सम्मुखमायातः, भणितवांश्च- 'जय V जय स्वामिनि ! महादेवि !, आदिशतु मां भृत्यं, किं करोमि भवत्या ईप्सितम् ? अद्य तु 'मम गृहाङ्गणं पवित्रं जातं, कामधेनूरद्य प्राप्ता मे गृहे, अद्याऽहं कृतार्थो जातो मे जीवितं
च सफलं जातम् ।'
CB
४३
Page #59
--------------------------------------------------------------------------
________________
कनकश्रीः कथितवती, 'भद्र ! मैवं संभ्रमं कुरु । धन्योऽसि त्वं यतस्तव गृहे मम भगिन्यौ सपुत्रे निवसतः, ये महानरवरेन्द्रपत्न्यौ स्तः ।' एतावता कुमारोऽन्तः प्रविश्य मातुः ।
पार्वे गत्वा पादवन्दनादि च कृत्वा सर्वं घटितं कथयति स्म । तथा पृच्छति स्माऽपि, / * 'मातः ! अत्रत्यो नृपतिः किं भवत्या भगिनीपतिः ?' ।
'आम् पुत्र ! किन्तु लज्जयाऽवाभ्यामेतावन्तं कालं न प्रकटितमेतत् । साम्प्रतं तु No व त्वया प्रकटितमतः कथय किं कुर्याम ?' मात्रोक्तम् । अनेन भणितं, 'द्वारे कनकश्रीदेवी
भवत्योरानयनार्थं समागताऽस्ति । एतच्छ्रुत्वा द्वे अपि झटिति बहिनिःसृते । ते दृष्ट्वा च ,
कनकश्रीरपि करिण्या उत्तीर्य ससम्भ्रमं तयो कण्ठे विलग्योच्चै रोदिति स्म, विलपति च, हा 'हा भगिन्यौ ! कथं युवयोरीदृशी दशा जाता ? तथाऽत्राऽऽगत्याऽपि किमर्थं मे न VE कथितम् ? अथवा महतां प्रकृतिरेवैषा, तत्र किं कथयितव्यम् ?। युष्मदवस्थां दृष्ट्वाऽपि
मे हृदयं यन्न विदीर्यते तन्नूनं वज्रशिलया निर्मितं तत् । अथवा किं बहुना परिदेवितेन ? आरोहन्तु सर्वेऽपि करेणुं यथा राजप्रासादे व्रजामः ।'
तदा ते द्वे अपि श्रेष्ठिनं क्षमयतः । श्रेष्ठी अपि, ‘मा मा स्वामिन्यौ ! एवं भणताम् । । मयैवाऽर्थलुब्धेन पापेन भवत्योरवज्ञा कृता कर्म च मद्गृहे कारितम् । अतः कृपया मामेव क्षाम्यताम् ।'
ततः सर्वेऽपि सोत्सवं राजभवनं प्राप्ताः । अथ तिसृणामपि भगिनीनां समागमे यत्सौख्यं जातं तत्तु ता एव जानन्ति अथवा भगवान् जिनो जानाति ।
ततो राज्ञा तेषां निवासार्थं प्रवरस्तुङ्गश्चैकः प्रासादो विरचय्याऽपितः । सर्वाऽपि च । सामग्री प्रेषिता । ततः कुमारं भणितवान् राजा, 'वत्स ! त्वमपि किञ्चिद् जीवनं गृहाण ।' तेनोक्तं, 'न देव ! नाऽहं किञ्चिद् गृह्णामि । किन्तु भवतः सेवामेवमेव करिष्ये । भवता स्वयमेव सदा विसृष्टव्योऽहम् ।' राज्ञाऽपि तत् प्रतिपन्नम् । एवं च सेवां कुर्वतस्तस्य बहूनि र दिनानि व्यतीतानि । नृपतिस्तु धान्यादिभिः सामग्रीभिस्तद्नेहं सदाऽक्षुण्णं करोति स्म ।।
अथैकदा राज्ञा कथमपि प्रमादवशात् स न विसृष्टः । रात्रौ च जातायां स निजवासगृहे प्रसुप्तः । नैका यामिकास्तत्परितस्तद्रक्षार्थं समुपतिष्ठन्ति स्म । कुमारोऽपि द्वार र स एव करालकरवालव्यापृतकराग्रोऽप्रमत्तस्तिष्ठति स्म । निशीथो जातः । सहसा कुतश्चित् ।
कस्याश्चित् स्त्रियोऽतिकरुणेन रुदनशब्देन विनिद्रो राजाऽचिन्तयत्, 'का सा नारी स्यात् ? "
म
४४
Page #60
--------------------------------------------------------------------------
________________
किं च तस्या दुःखमतिदारुणं स्यात् । नूनं ज्ञातव्यं मया ।' तेन यामिका आहूताः । किन्तु 8 Y, ते सर्वेऽपि निद्राधीना आसन्, अतो न कोऽपि प्रतिशब्दं दत्ते स्म । तदा वत्सराजोऽकथयत्, 6 - 'देव ! आदिशतु यत्कार्यम् ।' राज्ञोक्तं 'किमद्य त्वं न विसृष्टः ?' । 'आम्' इति तेनोक्ते, पण 'अहो ! मम महान् प्रमादो जातः । किन्तु सम्प्रति त्वं स्वस्थानं गच्छ। तथा कञ्चित् प्राहरिकं जागरयित्वाऽऽह्वय येनाऽऽदेशं ददामि ।' अनेनोक्तं, 'स्वामिन् ! सर्वेऽपि ते निर्भरं प्रसुप्ता: सन्ति । अतो यत्किञ्चिदपि कार्यं स्यात्, मह्यमेवाऽऽदिशतु कृपया।' नृपेणोक्तं, 'तानेवोत्थापया भोः ।, मम महत् प्रयोजनं विद्यते ।' 'प्रभो ! मह्यमेव कथयतु तत्प्रयोजनम्' इत्यनेन विज्ञप्तम् । राजोक्तवान्, 'काचित् स्त्री रोदिति दूरे । तस्या दुःखं निवारयितुमिच्छामि ।' वत्सराजेन विज्ञप्तं, 'प्रभो ! सा तु बहु दूरमस्तीति तर्कयेऽहम् । तावद् दूरमेते वराकाः कथं चन गमिष्यन्ति ? कृपया मे एवाऽऽदेशं ददातु, विलम्बं च मा करोतु ।' राज्ञोक्तं, 'याहि त्वं । तहि, भवत्वेवमपि !' । 'महाप्रसादः' इति कथयित्वा नमनं कृत्वा च स राजप्रासादान्निर्गतः।
- [अनुवर्तते ।।
[श्रीदेवचन्द्रसूरिविरचितप्राकृतभाषामय'सिरिसंतिनाहचरियं'-ग्रन्थात् सङ्कलितैषा कथा ।
पादयोर्हस्तयोश्चाऽपि, श्लीपदं जायते नृणाम् । कर्णीष्ठनासास्वपि च, कोचिदिच्छन्ति तद्विदः ॥
(आचाराङ्गटीका)
6222
Page #61
--------------------------------------------------------------------------
________________
-
कथा
मामला
न्जन्छन् भन्न्न्
डॉ. आचार्यरामकिशोरमिश्रः 'अद्य मयाऽस्य ग्रन्थस्य नाम भामती क्रियते ।' इति पञ्चाननवाचस्पतिमिश्रः D स्वसेविकां पत्नीं भामती कथयामास ।
एकस्मिन्दिने भामती स्वपित्रा सह गच्छन्ती वसते तिदूरे कुटीरे कृष्णकायं कृशशरीरं लेखनरतमेकं युवकं ददर्श । तं ज्ञातुमिच्छा वृद्धि गता । कोऽयमिति पृष्टस्तज्जनकस्तां तं युवानं पञ्चाननवाचस्पतिमिश्रमकथयत् ।
भामती - किमयं लिखति पितः ! ७ पिता - कञ्चन ग्रन्थं लिखति निरन्तरमयं पुत्रि !
भामती - कुटीरेऽयमेकाकी दृश्यते पितः ! पिता - आं पुत्रि ! भामती - अस्य माता पिता च व स्तः ? पिता - अस्य पितरौ मृतौ । भामती - पत्नी चाऽस्य क्व? पिता - अविवाहितोऽयं वत्से ! भामती - अस्य भोजनादिपाकव्यवस्थां करोति का ? पिता - न काऽपि करोति । नाऽयं किमपि पचति । भामती - पुनरयं किं खादति ? पिता - अयमङ्करितमन्नं कन्दमूलफलानि च भक्षयति । तदपि यदाकदाऽयं खादति, न त
तु प्रतिदिनम् ।
४६
Page #62
--------------------------------------------------------------------------
________________
भामती - अस्मादेव कारणादयं कृशकायो वर्तते । येन ज्ञायते यदनेन भोजनं न प्राप्यते ।
अधुनाऽहमस्य भोजनं पानं च व्यवस्थापयिष्यामि पितः । पिता - त्वं कथं व्यवस्थापयिष्यसि ? तवाऽनेन सह कः सम्बन्धः ? त्वमविवाहिताऽसि
पुत्रि ! भामती -- अधुनाऽहं विवाहं करिष्ये । . पिता - केन सह ? भामती - अनेन सह पितः ! पिता - अनेन सह ? यस्य पार्वे न किञ्चिदस्ति । अकिञ्चनोऽयम् । जीर्णानि वासांसि,
कानिचित्पुस्तकानि, कर्गजपत्राणि, मषिपात्रं लेखनी च विद्यते, नास्ति धनमस्य।
किमनेन निर्धनेन सह विवाहं करिष्यसि ? भामती - आं पितः!, अयं तपस्वी, सदाचारी, गुणी ब्राह्मणोऽस्ति । किमावयोर्धनेन
प्रयोजनम् ? बुभुक्षां शमयितुं कन्दमुलफलानि पर्याप्तानि सन्ति । पिता - तस्य पार्वे भक्षयितुं न किञ्चिदस्ति । स त्वां किं खादयिष्यति पुत्रि ? यः १
स्वस्मिन्नवधानरहितोऽस्ति, स त्वयि किं ध्यानं दास्यति ? यः स्वयं बभुक्षितो 9 निवसति, तस्य समीपं गत्वा त्वमपि क्षुधा पीडिता भविष्यसि । शयनाय न
खट्वास्थाने कटो विद्यते । तेन सह कथं वत्स्यसि पुत्रि ? भामती - पितः ! मम विवाहो भोगाय नास्ति । समाजे विद्वत्परम्परा जीवेदित्यहं वाञ्छामि ।
अतस्तस्य मादृशसेविकाया आवश्यकता विद्यते, येन स मनीषी ग्रन्थकर्ता त बुभुक्षया पिपासया च मृत्युं न प्राप्नुयादिति मया तेन सह मनसा विवाहो निर्णीतः ।
ततो मनीषारक्षायै पुत्र्या भामत्याः साहसमवलोक्य पिता निरुत्तरः पुत्रीविवाहचिन्तया च मुक्तो बभूव । विवाहितया भामत्या निर्वाहार्थमावश्यकसाधनान्येकत्र कृतानि ।
ज्ञानसाधनानिरतस्य वाचस्पतिमिश्रस्य प्राणा भामत्या स्वसेवया नवीनीकृताः । दीपे तैलं D) निक्षिपन्ती भामती प्रकाशे विलोक्य स्वग्रन्थं विरचयन् वाचस्पतिमिश्रः पप्रच्छ - 'का
७७७७७
.४७ For Private Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
त्वमसि ?' 'ग्रन्थरचयितुविदुषस्तवाऽहं जीवनसङ्गिनी पत्नी भामती नाम ।' इति निशम्य 'तव भोजनादिसेवया जीवितेन मयाऽस्य महत्त्वपूर्णस्य गणितग्रन्थस्य नाम भामती क्रियते । यावदेष भामती नाम ग्रन्थो भुवि स्थास्यति, तावत् त्वं ग्रन्थनामरूपेणाऽमरा भविष्यसीति प्रिये ! तव सेवाफलम्' इत्युक्तवान् सः।
भारतेऽत्र प्रकाशेते यावच्चन्द्रदिवाकरौ । तावद्धि भामतीग्रन्थो भुवि स्थास्यति भामति ! ।।
कन्न्टन्छन् भन्न
सर्व एव प्रमेहास्तु, कालेनाऽप्रतिकारिणः । मधुमेहत्वमायान्ति, तदाऽसाध्या भवन्ति ते ॥
(आचाराङ्गटीका)
இட
४८
Page #64
--------------------------------------------------------------------------
________________
रङ्गमन्च:
किंचामज्येष्ठत्वम् ।
मुनिधर्मकीर्तिविजयः
पात्राणिव्यवहार श्रेष्ठी - पिता गुणसागरः
पुत्रः गुणसुन्दरी
पुत्रवधूः रूपसुन्दरी
सखी शीलसुन्दरी
सखी शीला
परिचारिका राहुल:
युवा (प्रेमी) कृष्णराजः
वैद्यराजः हरिसिंहः
ग्रामणी: रामदासः
सेवकः
धनिकस्य गृहम् । गुणसागरो गुणसुन्दरी चेति नवदम्पती सानन्दं कालं यापयतः स्म । एकदा वाणिज्यार्थं गुणसागरो विदेशं गतवान् । बहुः कालो व्यतीतः । न काऽपि 15 वार्ता तस्य समुपलब्धा । तदा किं भवति, तत् पश्यत, पश्यत ।
For Private Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
प्रथमं दृश्यम् )
(कार्पासनिर्मितायां कोमलशय्यायां हस्तोपरि वदनं संस्थाप्य पत्युरागमनं प्रतीक्षमाणा ड दीनवदना चिन्ताक्रान्ता गुणसुन्दरी उपविष्टा वर्तते । तदा द्वारे 'जय जिनेन्द्र !' इति श्रूयते)
गुणसुन्दरी - जय जिनेन्द्र !, कोऽस्ति ? श्री रूपसुन्दरी - अहम् । रूपसुन्दरी । INS गुणसुन्दरी - अहो ! आगच्छ, आगच्छ । किं कुशलिनी ? IC रूपसुन्दरी - आम, आम् । किन्तु कथं त्वमेवं दीनमनस्का दृश्यसे ?
गुणसुन्दरी - न किमपि । एवमेव । NS रूपसुन्दरी - न हि, सखि ! किमपि निहुषे त्वम् । सत्यं वद । ( गुणसुन्दरी - अद्य मम स्वास्थ्यं समीचीनं नास्ति । रूपसुन्दरी - अस्तु, त्वमद्य विश्राम्य । श्वरागमिष्यामि । .
(सा गच्छति ।) गुणसुन्दरी - (स्वगतम्) किं करवाणि ? न कस्मिन्नपि कार्ये मनो व्यापृतं भवति । हृदये
वियोगस्य तीव्रवेदनामनुभवामि । हन्त ! न कोऽप्यत्र मे आधारोऽस्ति । एतां वेदनां कस्मै निरूप्य मनोभारं न्यूनीकुर्याम् । (शयने पतति ।)
(बहिः पादध्वनिः श्रूयते ।) ६ गुणसुन्दरी - कोऽस्ति ? PP शीलसुन्दरी - जय जिनेन्द्र ! Sipo गुणसुन्दरी - जय जिनेन्द्र ! अहो ! त्वम् ! आगच्छ, आगच्छ । (आसन्दमुद्दिश्य) अत्रोपविश ।
(सोपविशति ।) | गुणसुन्दरी - किं भो ! तव तु दर्शनमेव नास्ति । कुत्र गतवत्यासीः ? II शीलसुन्दरी - न कुत्राऽपि । अत्रैवाऽस्मि किल ।
५०
Page #66
--------------------------------------------------------------------------
________________
- गुणसुन्दरी - कथं तहि नाऽत्राऽऽगच्छसि ? बहुकालतः प्रतीक्षेऽहम् । S शीलसुन्दरी - अस्तु, अस्तु । तव स्वास्थ्यं न समीचीनं वर्तते, इति मया श्रुतम् । अतः
कथय, किं जातम् ?
(गुणसुन्दरी तूष्णीं तिष्ठति ।) - शीलसुन्दरी - भो ! कथं न वदसि ? किं मयि न विश्वसिषि ? KE गुणसुन्दरी - न, न । किमपि नास्ति । शीलसुन्दरी - भगिनि ! चिन्ता माऽस्तु । स्यानाम किमपि निःशङ्कं कथय ।
(गुणसुन्दरी तस्या अङ्के वदनं संस्थाप्य रोदिति) AC शीलसुन्दरी - (पृष्ठे हस्तं प्रसारितवती) किमर्थं रोदिषि त्वम् ? KE गुणसुन्दरी - (रुदती) सखि.... सखि.... मच्चित्तेऽधुना निरन्तरं ग्लानिर्वर्तते । Sha शीलसुन्दरी - (आश्वसिति) कथं चित्ते ग्लानिर्वर्तते ? ANS गुणसुन्दरी - (सलज्जं) सखि ! मम गुणसागरस्य काऽपि कुशलवार्ता नास्ति । तस्य ।
स्मरणं मां दुःखयति । वियोगस्य वेदनातोऽहं निद्रातुमपि न शक्नोमि
भोक्तुमपि च न शक्नोमि । AND शीलसुन्दरी - (विहस्य) हन्त ! अलं रोदनेन । अयि ! पुरुषा भ्रमरवृत्तयः सन्ति । अतो
यत्र कुत्रचिदपि गच्छेयुः तत्राऽनुकूलसुखसाधनानि प्राप्नुवन्त्येव ते । न तु ) परदेशे गतवन्तः पुरुषा पूर्वानुभूतसुखं स्नेहिजनान् च स्मरन्ति । एष एव बना
पुरुषाणां स्वभावोऽस्ति । अतश्चिन्तयाऽलम् । ( गुणसुन्दरी - न, न, मैवं वद । . शीलसुन्दरी - सखि ! प्रेमशून्येनैतादृशेन पत्या किम् ? अहं प्रेम-वात्सल्यनिधिना नवयूना
सुरूपेण चाऽन्यपत्या सह सम्बन्धं कारयिष्यामि ।
___ (मध्ये एव कर्णयोर्हस्तौ पिधाय) गुणसुन्दरी - हा, हा, अश्राव्यं किं श्रावयति । जगति सर्वे पुरुषा ईदृशास्तुच्छाः स्युः। श्री
किन्तु नैवैष मदीयः पतिरेतादृशः । अत इतः परं कदाऽप्येवं मा वादीः । बीस रूपसुन्दरी - (गृहं प्रविशती गुणसुन्दरीमुद्दिश्य) पूर्वभवे सा कस्मादपि पुरुषात् कस्या ।
Page #67
--------------------------------------------------------------------------
________________
'शीलसुन्दरी
-
'रूपसुन्दरी सखि ! त्वया पूर्वभवे एतादृशैः कार्यैः कदाचित् क्लिष्टकर्माण्युपार्जितानि स्युः तेन कारणेनैवाऽधुना पतिवियोग: प्राप्तः । अतोऽन्यचिन्तां विहाय धर्मश्रवण- गुरुभक्ति-जिनपूजादिकार्येष्वेव चित्तं योजय । सत्यम् । धर्मकार्यकरणे एव चित्तं लगयिष्यामि ।
-
अपि स्त्रिया वियोगं कारितवती स्यात् । अथवा दीन-मूकप्राणिनः पञ्जरेषु बन्दिनः कृतवती स्यात् । अतः..... (मध्ये एव)
सत्यम्, सत्यम् । तथैव मयाऽपि श्रुतं यद्, यो देव-गुरु-ज्ञानसम्बन्धिनो द्रव्यस्य भक्षणं करोति, उत तन्नाशयति, अकृत्यं च करोति, तस्य जीवनेऽवश्यंतया वियोगवेदनाऽऽपतति ।
'गुणसुन्दरी
(रूपसुन्दरी शीलसुन्दरी चेति द्वे अपि गच्छतः)
गुणसुन्दरी - (स्वगतम् ; निःश्वस्य) भाग्यहीनमनुष्याणां निधनं च पदे पदे । न च फलति भूमौ हि मरौ कल्पतरुः खलु ॥ अत्र न कस्याऽपि दोषोऽस्ति, किन्तु मे कर्मण एव दोषः । न कोऽपि कस्मैचिदपि सुखं दुःखं च दातुं समर्थोऽस्ति । सर्वेऽपि स्वस्वकर्मानुसारेणैव सुखिनो दुःखिनश्च भवन्ति । अतोऽत्र मत्पतिस्तु निमित्तमात्रमस्ति । इदानीं मम कृते तु देव - गुरु- धर्मस्य शरणं धर्मचिन्तनं चैव श्रेयस्करमस्ति । (पटीक्षेप :)
द्वितीयं दृश्यम्)
( गुणसुन्दरी धर्मकार्येण कालं गमयति । किन्त्वन्तर्मनसि वेदना व्याकुलता च वर्धते । ततः कदाचिदुद्विग्नाऽपि भवति । एकदा)
गुणसुन्दरी
(स्वगतम्) पति-श्वशुरादिभिस्सर्वैर्मिलित्वैवैतद् मायायन्त्रं रचितमस्ति । मां दुःखीकर्तुमेवोद्देशपूर्वकमेतत् कृतमस्ति । तत्र मुग्धाऽहं बद्धा । अतो धिक्
-
५२
Page #68
--------------------------------------------------------------------------
________________
ष्णराजः -
तान्, धिक् तान् । (मूच्छिता जाता) (पतनशब्दं श्रुत्वा धावन्तीवाऽऽगता शीला । शीतोपचारं करोति । गुणसुन्दर्याः । शनैः शनैर्मूर्छाऽपगता । ततः शीलया वार्ता प्राप्य श्रेष्ठी धावन्निवी
तत्राऽऽगच्छति ।) श्रेष्ठी -
तनये ! किं जातम् ?
पितः । न किमपि चिन्ताकारंणम् । अद्य देहे ज्वरोऽनुभूयते । श्रेष्ठी - शीले ! अत्राऽऽगच्छ । साम्प्रतमेव गच्छ, वैद्यं कृष्णराजमाकारय । AND शीला - तथेति ।
(कृष्णराज आगच्छति, शरीरं च परीक्षते) (भेषजं ददानः श्रेष्ठिनमुद्दिश्य) भयस्य किमपि कारणं नास्ति । एतदौषधेन
सर्वं सुष्ठ भविष्यति । KE श्रेष्ठी -
शीले ! प्रतिदिनं यथाकालमेतदौषधं देयम् । VE शीला - आम् ।
(श्रेष्ठी कृष्णराजश्च गच्छतः । रूपसुन्दरी प्रविशति) ANS रूपसुन्दरी - जय जिनेन्द्र ! । किमद्याऽपि स्वास्थ्यं कुशलं न वर्तते ? 5 गुणसुन्दरी - सखि ! अद्य ज्वरोऽस्ति । रूपसुन्दरी - प्रिये ! चिन्तैव ज्वरस्य कारणमस्ति । ततो यदि त्वं चिन्तां त्यजे
स्तदैवौषधस्याऽपि साफल्यं भविष्यति, नाऽन्यथा ।। किं करवाणि ? प्रतिक्षणं तमेव स्मरामि । वियोगस्य वेदना मामतीव
पीडयति । तत आत्महत्याया विचार आगच्छति । रूपसुन्दरी - सखि ! न, न । एवं न करणीयम् । किं न ज्ञातं त्वया संसारस्य स्वरूपम् ? -
सर्वेऽपि जीवाः स्वार्थाधीनाः सन्ति । तावदेव स्नेहिजना आत्मीयाः सन्ति, यावत्तेषां स्वार्थः सिध्यति । अन्यथा मातृपितृपतिपुत्रा इति सर्वेऽपि पराङ्मुखाः परकीयाश्च भवन्ति । अस्मिन्नसारे संसारेऽन्येषां चिन्तां - विहायाऽऽत्मनश्चिन्तैव श्रेयस्करी । अतः.....
५३
Page #69
--------------------------------------------------------------------------
________________
गुणसुन्दरी शीला गुणसुन्दरी
शीला
• रूपसुन्दरी
राहुल:
-
गुणसुन्दरी
राहुल:
(संक्रुध्य) रे ! किमेतेन वाग्विलासेन । नाऽऽवश्यको मम कृते उपदेश: । स्वामिनि ! कोपं मा करोतु ।
(भ्रुकुटिमूर्ध्वकृत्य) रे ! रे ! परिचारिके ! त्वं मे सेविकाऽसि । अद्य मह्यमुपदेशं ददासि ? गच्छ गच्छ । अलमेतया सेवया, सख्या, दास्या च । इदानीमेव मम दृष्टिपथादपसरतम् । (इत्याक्रोशति) व्याधिपीडितजनानां स्वभाव एतादृश एव भवति । ते विना कारणं क्रुध्यन्ति ताडयन्ति च । अतो न कदाऽप्येतादृशेभ्यो जनेभ्यः कोपनीयम् । अस्तु, गच्छामि ।
(द्वे अपि प्रयातः)
(शयने स्वपिति । सक्रोधं स्वपतिमुद्दिश्य, स्वगतम्) रे मूर्ख ! धनान्ध ! तुभ्यं धनमेव रोचते । न तु मे जीवनम् । त्वया धनार्थं मदीयं जीवनं यौवनं, सुखं च निष्फलं कृतम् । त्वं तु सानन्दं परदेशे सुखमनुभवसि । अत्र चाऽहं नितरां पीड्ये । अतो मया जीवनार्थं कामतापशमनार्थं च नूतनजीवनस्य प्रारम्भः करणीयोऽन्यथा प्राणत्यागः करणीय एव । (शयनादुत्प्लुत्य गवाक्षे स्थितवती । चित्तप्रसादकारी मधुरगीतध्वनिः श्रूयते । ततः सा सर्वतो दृष्टि. प्रसारयति ।)
(उच्चैर्गायति) प्रियतमे गता क्व त्वमाधारः खलु को मम । कं कथयानि निष्पुण्यः करवाणि किमद्य रे ॥
(गानं श्रुत्वा स्वगतम्) सत्यम्, सत्यम् । एष तु मे योग्योऽस्ति । अपि च कामपीडित एकाकीव प्रतिभाति । रूपेण तु कामदेवसदृशो दृश्यते । ( कामानुरागिणी सा भित्तौ हस्तमास्फालयति । तदा स युवा इतस्तत: पश्यन् गुणसुन्दरीं पश्यति । तां दृष्ट्वा स हसति, गुणसुन्दर्यपि हसति । तस्या मनोभावं ज्ञात्वा तेन यूना शीश्कार : ( Whistle) कटाक्षश्च कृतः । तदा गुणसुन्दरी लज्जया द्वारं पिधाय स्वापवरके गतवती । ) (उच्चैर्गायति) प्रियतमे गता क्व त्वमाधारः खलु को मम ।
५४
Page #70
--------------------------------------------------------------------------
________________
कं कथयानि निष्पुण्यः करवाणि किमद्य रे ॥ गुणसुन्दरी - (स्वगतम्) अहो ! अद्य तु ममोपरि भगवतः कृपादृष्टिर्जाता । मम कृते ।
एवैष भगवता निर्मितः । तत एव सोऽप्यत्र आगतवानद्य । (वदन्ती गवाक्षेपी गतवती) (मदनपाशबद्धा सा तस्योपरि केशवेण्याः पुष्पं निष्कास्य प्रक्षिपति । स युवा तद् गृहीत्वा चुम्बति । परस्परं तौ द्वावपि हसतः, कटाक्षं कुरुतश्च । एवं दश क्षणानि व्यतीतानि । तदा सहसैवाऽऽगतवती शीला गुणसुन्दर्याः
स्कन्धे हस्तं स्थापयति) गुणसुन्दरी - (सभयं) किम् ? किम् ? शीला - भो ! भो ! अत्र भवती किं करोति ?
___ (गुणसुन्दरी सलज्जं तूष्णीं स्थिता ।) शीला - स्वामिनि ! किं दास्या मयाऽर्पितं पुष्पमुज्झितं खलु ? गुणसुन्दरी - (सधाष्ट्य) अयि ! या समस्तजीवनं प्रक्षेप्तुं प्रयतवती, तस्याः कृते एतादृशः
पुष्पस्य किं मूल्यम् ? शीला - काव्यस्य भाषां न जानामि खलु आर्ये !, अतः स्पष्टं वदतु । गुणसुन्दरी - अयि ! शीले ! त्वं मम भगिनीतुल्याऽसि । यदि नामेष्टदेवस्य नामस्मरणेन
शपथं कुर्यास्तर्हि कथयाम्यहम् । शीला - ओम्, ओम् । शपेऽहम् । ६ गुणसुन्दरी - जगति बुधजनस्यैव दुःखमस्ति, न तु मूर्खस्य ।
शीला - भवत्या किं वक्तव्यं तन्न जानामि । Nh» गुणसुन्दरी - किं त्वं मे वेदनां जानासि ? NS शीला - न, न । हृदयस्य वेदनां तु भवादृशी चतुरनार्येव जानाति । मादृशा मूर्खस्त्री ।
कथं तज्ज्ञातुं समर्था ? 2 गुणसुन्दरी - अद्य मे मनसोऽतीव गोपनीयां वार्ता कथयामि । शृणु-किं नाऽहं मानुषी ? वी
किं मे मनो नास्ति ? किं मे यौवनं नास्ति ?
५५
Page #71
--------------------------------------------------------------------------
________________
-
IN शीला - अत्र किं प्रष्टव्यम् ? भवती त्वतीव रमणीया कमनीया रूपवती ता
सर्वजननयनालादकारिणी कामाङ्गना चैव प्रतिभाति । 15 गुणसुन्दरी -
अयि ! किं त्वया कामदेवस्य सामर्थ्य न ज्ञातम् ? तेन जगति सर्वत्र स्वसाम्राज्यं स्थापितमस्ति । सर्वानपि जनान् स पीडयति । तेन दृढचित्ताः बीस साधुजनाः सज्जनाश्चाऽपि भुवि पातिताः सन्ति । उक्तं च - "बलवानिन्द्रियग्रामः पण्डितमपि कर्षति" । (सलज्ज) किं स कामदेवो मां न पीडयेत् ?
सत्यम्, पीडयेदेव ! गुणसुन्दरी - (सभ्रमं सकम्पं च) शीले ! मम शरीरे न कोऽपि रोगः, किन्तु कामरोग
एवाऽस्ति । स एव च मां दहति । शीला - (साश्चर्यं) स्वामिनि ! ओह ओह् भवती....
(मध्ये एव तां निरोध्य) गुणसुन्दरी - शीले ! मां पापात्मानं मत्वा साधुवद् धर्मोपदेशनं मा स्म श्रावय । एष -
रोग एवाऽस्ति । अतस्तस्यौषधमानय । शीला - (सलज्ज) अस्मादृशामबुधजनानां कृते त्वेष रोगोऽप्रसिद्धोऽस्ति । यया यो २
रोग एव नाऽनुभूतः सा कथं तस्यौषधमानेतुं समर्था भवेत् ? गुणसुन्दरी - यद्यहं वैद्यराजं दर्शयेयम्, तर्हि.... शीला - हन्त ! अहं तु भवत्यास्सेविकाऽस्मि । भवदीयामाज्ञामनुसरिष्यामि । गुणसुन्दरी - 'कार्यमवश्यं करिष्यामी'ति पितुर्नाम्ना शपथमूररीकृत्य कथय, यतोऽहं बात
कुलीना नार्यस्मि । यदि नामैषा वार्ता बहिः प्रसरेत् तर्हि मम केवलं - विषपानमेवाऽवशिष्टं भवेत् । अत्राऽपि मे न काऽपि चिन्ता । यद्यहं म्रियेय ) तहि सुखं प्राप्स्यामि, किन्तु मत्पापेनाऽन्यैर्बहुभिर्जीवैविषपानमवश्यंतया -
करणीयं भविष्यति, तदेव चिन्ताविषयोऽस्ति । शीला - स्वामिनि ! अदृष्टकर्माणि भगवता विना को ज्ञातुं समर्थो भवेत् ? अतः..... गुणसुन्दरी - (संक्रुध्य) रे ! दृष्टः खलु ते भगवान् ! मम तस्य भगवतो न किमपि भयम्, धूम
किन्तु तन्निर्मितजनानामेव चिन्ताऽस्ति । अन्येषामशुभकार्याणां प्रकाशनार्थं बस
Page #72
--------------------------------------------------------------------------
________________
शीला
(इङ्गितं कृत्वा) आम्, करिष्यामि । 'गुणसुन्दरी श्वः प्रातः दशवादनेऽत्राऽऽगन्तव्यम् ।
(पटीक्षेप :)
-
तृतीयं दृश्यम्
(द्वितीयदिने नियतकाले तं युवानं प्रतीक्षमाणा शीलया सह गुणसुन्दरी गवाक्षे स्थितवती) 'गुणसुन्दरी इदानीमेव स वैद्यराज आगमिष्यति । ततः......
राहुल:
(उच्चैर्गायति) प्रियतमे गता क्व त्वमाधारः खलु को मम ।
कं कथयानि निष्पुण्यः करवाणि किमद्य रे ॥
'गुणसुन्दरी
(सानन्दं हस्तेन निर्दिश्य) पश्य, पश्य । एष एव मे वैद्यराजः । द्रुतं गच्छ ।
तमानय ।
शीला गुणसुन्दरी शीला
(साश्चर्यं) अहो ! एष: ? (अवाक् भुवि नेत्रं कृत्वा स्थितवती ) कथं न वदसि ?
( क्षणं तूष्णीं स्थित्वा) भो ! एतत् कार्यं कर्तुं न समर्थाऽहम् ।
गुणसुन्दरी
( साक्रोशं) किमेष एव ते शपथ: ? किमेतावानेव विश्वासः ? अस्तु, अधुनैव गच्छ । मम कृते विषमानय ।
(विषेणैषा किं करिष्यति ? यदि कदाचिदसह्यव्याकुलत्वेन विषपानं कुर्यात्तदा
-
-
-
शीला
गुणसुन्दरी शीला
-
-
तेषां जिह्वायां कण्डूयनं भवति । अतो यदि त्वयि कार्यकरणस्य सामर्थ्यं स्यात्तदैव कथय ।
-
11
मम शिरसि कलङ्कमापतेत् ! इति विमृशती)
स्वामिनि ! चिन्तां मा कार्षीत् । कार्यं दुष्करमस्ति, तथाऽपि प्रतिज्ञाबद्धाऽहं तत्कार्यं साधयिष्याम्येव ।
तर्हि सत्वरं गच्छ ।
ओम् गच्छामि ।
(सोपान श्रेण्या निःसरति)
५७
Page #73
--------------------------------------------------------------------------
________________
HD शीला -
श्रेष्ठी - ॥ शीला -
श्रेष्ठी - शीला -
श्रेष्ठी -
(स्वगतम्) "इतो व्याघ्र इतस्तटी" इत्युक्त्यनुसारेण धर्मसङ्कटे. आपतिताऽहम् । वायदि कार्यं न कुर्यां तर्खेषाऽपमृत्युना म्रियेत तदा मम स्थितिः का स्यात् ? । अपि च कदाचित् श्रेष्ठी एतत् कार्यं जानीयात्तर्हि मम का गतिस्स्यात् ? )
(मध्ये एव श्रेष्ठी मिलति । ससंभ्रमां तां निरीक्ष्य) शीले ! कुत्र गच्छसि ? (सभयं) न, न कुत्रचिदपि । अत्र.... एवाऽस्मि । किमितिं बिभेषि ? किं किञ्चिदघटनीयं घटितं खलु ? (सलज्ज) आम् । (सर्वं वृत्तान्तं कथयति) (साश्चर्य) अहो ! किमेतत् सत्यम् ? पितः ! नितरां सत्यमस्ति । तदर्थमेव गच्छामि । - (ससंभ्रमं) क्षणं तिष्ठ । कोऽप्युपायो विचारणीयः ।
(क्षणं पूर्वापरं लाभादिकं विमृश्य) शीले ! इतः परं सावधानं वर्तितव्यम् । तथाऽपि "भवत्याः कृते तेनैतत् । पुष्पं दत्तम्, तथा चेदानीं श्रीअम्बादेव्या महोत्सवस्य दिनानि प्रचलन्ति । | ततो दशमदिनेऽहमागमिष्यामि, इति कथितम्" एवं गुणसुन्दर्यै कथनीयम् । तर तथेति ।
(पटीक्षेप:)
श्रेष्ठी -
- शीला -
(चतुर्थं दृश्यम् ,
(आनन्देन हस्ततालं दत्त्वा गुणसुन्दरी हसन्ती नृत्यन्ती च गायति) गुणसुन्दरी - (स्वगतम्) शीलया मे साहाय्यमकारि । अत उपायनं तस्यै किमपि देयम्,
यतस्सा पुनरपि मम साहाय्यं कुर्यात् । अस्मिन् जगति धनेन किं न भवेत् ? , धनेन त्वशक्यमपि कार्यं शक्यं भवति । सर्वेऽपि जना धनलोलुपाः सन्ति । बीस धनं तु मनुजस्य प्राणाः सन्ति । वराकोऽपि धनेन कुलीन: कथ्यते ।
५८
Page #74
--------------------------------------------------------------------------
________________
प्रतिष्ठाकीत्तिसत्ताश्च गौरवत्वकुलीनते । अहो ! अद्य धनेनैव हीनोऽपि लभते जनः ॥१॥ ज्ञानिनः पण्डितम्मन्याः सर्वेऽपि योगिभोगिनः । चरणे पतिता यस्याः तस्यै लक्ष्म्यै नमो नमः ॥२॥ अहो ! मम समीपे त्वनेकानि सुवर्णाभरणानि सन्ति । तत एकमाभरणं तस्यै दास्यामि । पश्चात्तु मम सर्वमपि कार्यं सरलं भविष्यति । (पुनरुच्चैर्गायति नृत्यति च ।) (शीलाऽऽगच्छति । गुणसुन्दरी उत्प्लुत्य तामालिङ्गितवती । हस्तं गृहीत्वा
शयने उपवेशयति ।) p> गुणसुन्दरी - (कटाक्षपूर्वकं) किं कार्यं साधितं न वा ? शीला - पश्चात् कथयिष्यामि । (हसित्वा चलति)
(वस्त्रमाकृष्य) प्रिये ! कथं मां पीडयसि । अधुनैव कथय, अन्यथा मम
प्राणाः... शीला - (उच्चैविहस्य) स्वामिनि ! कथयामि, कथयामि । अहं तस्य समीपं गता।
भवत्या अभिलाषो गदितः । ‘स क्रोधं कुर्यात्' इति शङ्काऽऽसीत् । 5)
KE गुणसुन्दरी -
किन्तु....
- गुणसुन्दरी -
M
रे ! किन्तु, किन्तु इति कथं करोषि ? यज्जातं तत् कथय । C शीला - (सोत्साह) स्वामिनि ! तेनोक्तम् - "यदाऽनाहूताऽपि श्रीदेवी स्वयमागच्छेत्
तदा को मूर्खस्तां तिरस्कुर्यात् । लक्ष्मी: तिलकं कर्तुमागच्छेत्तदा
मुखप्रक्षालनार्थं गमनशीलो नाऽहम्" इति । द गुणसुन्दरी - (सविस्मयं) अयि ! किं सत्यम् ? । P शीला -
आम्, सत्यम्, सत्यम् । आर्ये ! स रूपवान् गुणवान् कुलीनश्च प्रतिभाति । तस्य वाक्कौशल्यमवर्णनीयमस्ति । किन्तु.... "अधुना श्रीअम्बादेव्या तार महोत्सवस्य दिनानि वर्तन्ते । अतो नवदिनेभ्यः पश्चादागमिष्यामि" इति । कथितं तेन । तथा (रक्तकमलं दर्शयित्वा) प्रेम्णः प्रतीकरूपेणैतद् दत्तं तेन, चार (गुणसुन्दरी तत् स्वीकृत्याऽत्यानन्दपूर्वकमाघ्राय चुम्बयित्वा च हृदये लगयति) वाय
ܨܨܞ
Page #75
--------------------------------------------------------------------------
________________
-
S शीला - अहं गच्छेयम् ? गुणसुन्दरी - गच्छ ।
__ (गच्छन्ती तां पुनराह्वयति) ho गुणसुन्दरी - शीले ! गृहाण । (कण्ठात् सुवर्णाभरणं निष्कास्य तस्मै दत्तवती)
शीला - (निराकुर्वती) न, न । स्वामिनि ! भवत्याः सर्वमपि ममैवाऽस्ति । अतः ... । KE गुणसुन्दरी- (मध्ये निरुध्य) यदि न गृह्णीयात्तहि मे जीवितेन शपे । शीला - न हि, एवं मा वादीः । अस्तु । (आभरणं गृहीत्वा गच्छति ।)
(पटीक्षेपः)
(पञ्चमं दृश्यम् )
(प्रतिदिनं गुप्तरीत्या शीलया पत्राण्युपहारान् च प्रेषयित्वा कालं गमयति ।
गुणसुन्दरी। नवमदिनमागतम् ।) 12 गुणसुन्दरी - (स्वगतम्) श्वो मम प्रियतम आगमिष्यति तदा मम जीवनकथां वर्णयिष्यामि । -
ततोऽहो ! मम जीवनं जन्म च धन्यं भविष्यति । बहोः कालाद् या वेदना
मां पीडयति सा दूरीभविष्यति । श्रेष्ठी - (गृहं प्रविशन्) रामदास ! रामदास ! अत्राऽऽगच्छ ।
रामदासः - जय जिनेन्द्र ! द श्रेष्ठी - त्वं धान्य-भाण्ड-वस्त्रादीन्येकत्र कुरु । गृहस्य सर्वा अपि सामग्रीरत्र
स्थापय । (गुणसुन्दरीमाहूय सदैन्यं) तनये ! वाणिज्ये बह्वी हानिर्जाता । यूस दायादा पुनः पुनर्धनं याचन्ते । साम्प्रतमस्माकं समीपे धनं नास्ति । अतस्ते वीस बलात्कारेण गृहमेतत् स्वायत्तं कर्तुं श्वः परश्वो वाऽगमिष्यन्ति, इति ज्ञातं मया । अतस्त्वरितं वस्त्रादीनि सुवर्णाभरणानि च एकत्र कुरु । अद्यैव ग्रामो गमनीयोऽस्ति । पश्य, वस्तुभृतानि शकटानीदानीमेव गमिष्यन्ति । अतस्तैस्सह तर प्रथमं त्वमपि रथेन ग्राम प्रयाहि ।
६०
Page #76
--------------------------------------------------------------------------
________________
गुणसुन्दरी
श्रेष्ठी
-
रामदासः
गुणसुन्दरी
शीला
शीला
सुन्द
शीला 'गुणसुन्दरी
शीला गुणसुन्दरी
-
शीला
गुणसुन्दरी
शीला
गुणसुन्दरी
शीला
-
-
(सभयं) हं, पितः, पितः ! किम् ? किम् ?
(अलक्ष्यीकृत्य किञ्चिदग्रे गत्वा) रामदास ! प्रथममेतां वधूं निराबाधं सावधानं ग्रामं प्रापय ।
ओम्, यथाऽऽज्ञा ।
(स्वगतं, निःश्वस्य) वो मे प्रियतम आयास्यति । यदि नाऽहमत्र स्यां तदा स किं मंस्यते ? हन्त ! धिग् दैवं, धिग् मे जीवनम् । (सबाष्पं) मम भाग्ये सुखमेव नास्ति । अस्मिन् जगति न मादृशा दुर्भाग्यवती काऽपि नारी विद्यते । अतः.....
(धावन्ती सहर्षं दूरत एव) स्वामिनि ! स्वामिनि !
( गुणसुन्दरी वदनोपरि हस्तं संस्थाप्य रोदिति । )
कथं भवती रोदिति ? अद्य तूत्सवदिनमस्ति । श्वः प्रसन्नचित्तो रमणीय: स राहुल आयास्यति, इति किं विस्मृतम् ! अहो ! स्वामिनि ! बहुवर्षाणां योsपूर्णो मनोरथ आसीत् स पूर्णो भविष्यति । तथाऽपि.......
आस्तामेतया वार्तया । भाग्यहीनाया में जीवनेन किम् ? ( सक्रोधं) स्वामिनि ! भवती कथं पुनः पुनरेवं वदति ? (सबाष्पं ) किं कथयानि । किं त्वं न जानासि यद् वाणिज्ये हानिर्जाता ? न, किं भवती सत्यं वदति वा ?
सत्यं वदामि । ‘अस्माकं गृहादिकं सर्वमपि दायादाः स्वायत्तं करिष्यन्ति । ततोsधुनैव मया ग्रामो गन्तव्योऽस्ति' इति कथितं पित्रा ।
(सभयं) हा, हा, अस्माकं किं भविष्यति ?
(सबाष्पं) श्वो राहुल आगमिष्यति । तदा.... ( उच्चैः रोदिति) स्वामिनि ! चिन्तां मा कुरु । अहं भवत्याः कार्यं साधयिष्यामि । अद्याऽहं गच्छामि । किन्तु प्राणप्रियाय प्रियतमायैतां वार्तां निवेद्य यत्किमपि स दद्यात्, तत्सर्वं संगृह्य त्वया श्व आगन्तव्यम् ।
आम् । भवती निर्भयं गच्छतु ।
(पटीक्षेपः)
६१
Page #77
--------------------------------------------------------------------------
________________
षष्ठं दृश्यम्
(लघुग्रमोऽस्ति । मृत्तिकया निर्मितानि कानिचिद् गृहाणि सन्ति । सर्वत्र शान्तिर्दृश्यते । तत्राऽद्यतनसुखसाधनशून्यमन्धकारेण व्याप्तमेकं गृहमस्ति । तस्मिन् गृहे खिन्नचित्तवती 'गुणसुन्दरीतस्ततोऽटति । बहिः शकटयानस्य 'कीचूड् कीचूड्' इति ध्वनिः श्रूयते । वदनमूर्ध्वकृत्य पश्यति । शीलां निरीक्ष्य सा सोत्साहं सन्मुखं गतवती । ) शीला स्वास्थ्यं समीचीनं वर्तते न वा ?
सुन्द आमाम्, प्रथमं 'तस्य का वार्ता' इति वद ।
(साश्चर्यं तस्य कस्य ?
(सोपालम्भं) त्वं जानत्यपि पीडितां मां कथमितोऽपि पीडयसि ? सत्वरं वद, का वार्ता ?
-
शीला
गुणसुन्दरी
शीला
(विहस्य स्यूतात् पत्रं निष्कास्य) गृह्णातु ।
( गुणसुन्दरी सहर्षं गृहीत्वा प्रथमं पत्रं पुनः पुनः चुम्बति । पत्रं पठति ।) प्रियतमे !
त्वं कुशलिनी वर्तस्व इति कामये ।
यथा जलं विना मीनो विलुण्ठति तथाऽहमपि त्वां विना प्रतिक्षणं विलुण्ठामि । तव वियोगेऽहमतीव दुःख्यस्मि । सदैव मन्मानसे तव प्रियदर्शिनी प्रतिकृतिरेव नृत्यते । सर्वास्वपि स्त्रीषु तवैव मनोहरं दर्शनं भवति ।
मनोराज्ञि ! श्रीरामस्तु हनुमतो हृद्येव विराजते स्म, किन्तु त्वं तु मे देहस्य प्रतिरोम विराजते । तत एव कदाचित्तु न केवलं स्वप्नदशायाम्, अपि तु जागृतावस्थायामपि सहसैव 'गुणसुन्दरी गुणसुन्दरी' इति रटनं भवति । त्वां विना क्षणमपि युगायते । त्वां विना मिष्टान्नमपि विषायते ।
(तदा सा कोमलहस्ताभ्यां पत्रं किञ्चिद् विमर्दय चुम्बयित्वा चोरसि बाढं लगयति । तस्या नयनयोरजस्रमश्रुधारा प्रवहति । मम प्रियतमो मय्येतावन्तं स्नेहं करोति ! मां प्रतिक्षणं वाञ्छति ! अहो ! मे जीवनं सफलं जातम् ।
६२
Page #78
--------------------------------------------------------------------------
________________
इति चिन्तयन्ती सा तं संसर्म्यते । पुनरवशेषं पत्रं पठितुमारब्धवती ।) cad हृदयेश्वरी ! अहं तु तवाऽक्रीतदासोऽस्मि । तव वचनं ग्रहीतुं सन्नद्धोऽस्मि । यदि भगवान् मह्यं पक्षौ दद्यात्तर्हि साम्प्रतमेव गगने उड्डीय तव चरणसेवायामागच्छेयम् । किन्तु क्षन्तव्योऽहम् । तत्राऽऽगन्तुं प्रबलोत्कण्ठाऽस्ति । बीकिन्त्विदानी ममाऽऽपणे बहु कार्यं वर्तते । अतस्तत्राऽगमनमशक्यमस्ति । ततो हृदयङ्गमे ! इदानीं प्रत्यक्षमिलनस्य संभवो नास्ति । अतस्तव दर्शनेच्छया परोक्षतया पत्ररूपेणाऽऽगतोऽस्मि । अक्षरदेहेन साक्षात् तव प्रियतम एव समागत इति मन्तव्यम् । तथाऽपि यदाऽवसरः प्राप्स्यते तदाऽविलम्बेन तव किङ्करीभूतोऽहमवश्यमागमिष्यामि ।
तव राहलः । तर (पठित्वा पत्रं विमय, उच्चैः चीत्कारं कृत्वा भित्त्यां शीर्षमास्फाल्य
रोदिति ।) गुणसुन्दरी - (साक्रोशं) धिक् त्वाम्, धिग् धनं च । न जाने किं धनमेव तव प्राणाः न्यू
सन्ति । तव कृते मत्तोऽपि धनस्य मूल्यमधिकं वर्तते । मूर्ख ! कार्यं तु त श्वः परश्वोऽपि स्यात्, किन्तु मादृशा लावण्यमयी रूपवती चतुरा च नारी न कदाऽपि प्राप्स्यसि । रे ! रे !....
_ (चीत्कारं श्रुत्वा शीलाऽऽगच्छति ।)
आर्ये ! कथं सन्तापं करोति । सर्वमपि दैवाधीनमस्ति । ६ गुणसुन्दरी - अहं जानामि खलु । तथाऽप्यसयैषा मनोवेदनैतादृशमनुचितं वर्तनं कारयति । शीला - जगति किमपि कर्तुं न समर्था वयम् । सर्वमपि नियतिबलेनैव भवति । अत उद्वेगं त्यजतु, आपतितां स्थिति स्वीकरोतु ।
(श्रेष्ठी प्रविशति) (सखेदं) श्रीकारेण सदनमापणं च स्वायत्तीकृतम् । इदानीं "न्यायालये मुहुर्मुहुर्गमनीयमस्ति । कानिचिद्दिनान्यत्र कानिचिद्दिनानि च तत्र वसनीयमस्ति'।
श्रेष्ठी -
Page #79
--------------------------------------------------------------------------
________________
ज
INp गुणसुन्दरी - हा हा ! किं सर्वं गतम् ?
(सदैन्यं) आम् । ६ शीला - (सबाष्पं) इतः परं किं भविष्यति ! श्रेष्ठी - सर्वं दैवाधीनमस्ति । कृतकर्मणः फलमवश्यं भोक्तव्यमेवाऽस्ति । तथाऽपि व
पश्य, एतस्यां पेटिकायामस्माकमापणस्याऽऽवश्यककागदानि विद्यन्ते ।
अतस्तस्या एतां कुञ्चिकां (हस्तं प्रसार्य) गृहाण । शीला - (स्वीकृत्य) आम् । -> श्रेष्ठी - (निःश्वस्य) मच्चित्ते एकैव चिन्ताऽस्ति यद्, मम सुखशीलाया गुणसुन्दर्याः बीस
किं भविष्यति ? सा जीवनं कथं यापयिष्यति ? (शून्यमनस्क इव नभो
निरीक्षते ।) गुणसुन्दरी - पितः ! मम चिन्तां मा कार्षीत् । श्रेष्ठी - तनये ! त्वं तु कुलीना सुज्ञा च नार्यस्ति । अतस्त्वं त्वेवमेव कथयः, किन्तु
(सबाष्पं) हन्त ! मम गुणसुन्दर्याः..... । (शीलामुद्दिश्य) शीले ! ग्रामे । कार्याणि बहूनि सन्ति । तान्यपि स्वयमेव करणीयानि सन्ति । तथाऽपि - गुणसुन्दर्या यच्छक्यं तत् करणीयम्, अन्यत्कार्यं तु कर्मकरेण कारयेत् ।
किन्तु तस्या मनः कदाऽपि न पीडयितव्यम् । शीला - तथेति ।
(श्रेष्ठी गच्छति ।) गुणसुन्दरी - (स्वगतम्) श्वशुरोऽद्य तत्र गमिष्यति । एष अपि शुभसङ्केत एवाऽस्ति ।
श्वः परश्वो वा यदाऽपि मम मनोवल्लभः प्रियतम आयास्यति तदा तेन सह - यथेच्छं जीवनसुखमनुभविष्यामि । इदानीं तु गृहकार्यं कृत्वैव कालो गमनीयः । ब्ला (इति निर्णीय शीलामुद्दिश्य) शीले ! त्वया दिनपर्यन्तं बहूनि कार्याणि ।
क्रियन्ते । अत इतः परं त्वया साकमहमपि गृहकार्यं करिष्यामि । श्री शीला - न हि, न हि । भवती तु विश्राम्यतु । M. गुणसुन्दरी - कार्यशून्ये मम चित्ते दुष्टा विचारा आगच्छन्ति । कदाचिद् व्याकुलतया ।
PROMPANA
६४
Page #80
--------------------------------------------------------------------------
________________
द श्रेष्ठी -
श्रेष्ठी -
निन्दनीयं कार्यं न स्यात्, येन कुलस्य महत्ता कलङ्किता स्यात्, अतोऽहं - गृहकार्यं करिष्याम्येव । (एवं कार्यकरणेन कालं यापयति । अतीव परिश्रमवशाद् निद्राऽपि झटित्यागच्छति। दिनान्यपि सुखेन प्रयान्ति । एकदा गुणसुन्दर्या - बहिर्गमनकालेऽवसरं सम्प्राप्य श्रेष्ठी पुनरागतवान् ।) शीले ! किं गुणसुन्दर्याश्चित्तं परिवर्तितं न वा ? प्रभो ! सम्यक् परावर्तनमस्ति । कार्यव्यस्तत्वात् नाऽन्यत् किमपि स्मरति सा । सानन्दं दिनान्यपि गमयति । __(गुणसुन्दरी गृहं प्रविशति । दूरतस्तां निरीक्ष्य)
शीले ! गुणसुन्दर्याः सेवां करोषि न वा ? । Si> गुणसुन्दरी - (गृहान्तः प्रविशन्ती) भवान् चिन्तां मा करोतु । श्रेष्ठी - तनये ! अहं गृहे ज्येष्ठोऽस्मि । अतः चिन्ता तु भवत्येव । त्वं तु जानास्येव
तथाऽप्येतद् ज्ञेयं यत्, कदाऽपि सुखं दुःखं वा चिरकालं न तिष्ठति । ) अस्मिन् संसारे कदाचिद् दुःखं कदाचित्तु सुखम्, एतत्तु चक्रनेमिवत् परिवर्तते । कथितं चकश्चैकान्तं सुखमुपगतो दुःखमेकान्ततो वा ?। नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ अतः शोक उद्वेगो वा न करणीयः । सानन्दमापतिता स्थितिः स्वीकरणीया, वा तत्रैव महत्ता कुलीनता च स्तः । (इत्युक्त्वा श्रेष्ठी गच्छति । किञ्चिदने गत्वा पुनः प्रत्यागत्य) तनये ! “अस्मिन् लघौ ग्रामे एको विद्यालयोऽस्ति । तत्र शिक्षितस्य चतुरस्य च कार्यकर्तुरावश्यकताऽस्ति । तत्र श्रीमती गुणसुन्दरी बार तद्विद्यालयस्य प्रांशुपाल(Principal)रूपेण कार्यसञ्चालनं कुर्यात्" इति
ग्रामणीरिच्छति । > गुणसुन्दरी - पितः ! भवता कः प्रत्युत्तरो दत्तः ?। I श्रेष्ठी - 'तस्या इच्छाया अनुरूपं करिष्यामि' इति ।
६५
Page #81
--------------------------------------------------------------------------
________________
गुणसुन्दरी श्रेष्ठी
गुणसुन्दरी
श्रेष्ठी
सु
ग्रामणीः
गुणसुन्दरी
ग्रामणीः
शीला
(सहर्षं) पित: ! किं प्रष्टव्यमत्र ? भवतां यादृश्याज्ञा, तदनुरूपमेव करिष्यामि । बाढं बाढम् । तनये ! एतादृक्कार्येण तु समाजे तव प्रतिष्ठा वर्धिष्यते । तेन सहाऽस्माकं कुलस्याऽपि महत्ता वर्धिष्यते ।
पित: ! भवतः कथनं नितरां सत्यमस्ति । अस्माकं कुलस्य गौरवं कुलीनता च यथा स्यात् तथैव करिष्यामि । समाजे भवतः प्रतिष्ठां वर्धयिष्ये एव । अतो भवान् निश्चिन्ततया कार्यं करोतु ।
( श्रेष्ठी गच्छति । किञ्चित्कालानन्तरं ग्रामण्या सह श्रेष्ठी आगच्छति ।) तनये ! एष हरिसिंहो नामाऽस्माकं ग्रामणीरस्ति ।
नमस्कारः ।
नमस्कारः । श्रीमति ! भवत्याऽस्माकं विज्ञप्तिस्स्वीकृता । अतो भवत्या उपकारं न कदाऽप्यहं विस्मरिष्यामि |
गुणसुन्दरी अस्तु ! अहमभ्यासं करिष्यामि ।
ग्रामणीः
भवतु । पश्चादागमिष्यामि ।
श्रेष्ठी
न हि । एवं मा वादीत् । ग्रामस्योत्कर्षे साहाय्यं करणीयमिति मे कर्तव्यमस्ति । वदतु, तत्र मया किं करणीयम् ?
(कागदानि दत्त्वा ) गृह्णातु । एतान्यभ्यसनीयानि । विद्यालयस्योत्कर्षे किमावश्यकं तज्ज्ञात्वाऽस्मभ्यम् "एतत्करणीयम्, एतच्च न करणीय' - मित्याद्यादेशाः कर्तव्या: ।
(ग्रामणीर्गच्छति)
तनये ! प्रथममारोग्यं पश्चादन्यत् करणीयम् । अतो यथास्वास्थ्यं यथाशक्ति च कार्यं करणीयम् ।
(पटीक्षेपः)
सप्तमं दृश्यम्
( गुणसुन्दरी सुखपूर्वकं स्वपिति ।)
(सानन्दं धावमाना) आर्ये ! आर्ये ! शुभसमाचारः ।
६६
Page #82
--------------------------------------------------------------------------
________________
गुणसुन्दरी (साश्चर्यं) किम् ? प्रथममुपायनं ददातु ।
शीला
गुणसुन्दरी
शीला
प्रथमं कथय, पश्चाद् दास्यामि ।
सत्यं वा ?
सुन्द अवश्यमेव ।
शीला
गुणसुन्दरी
शीला
गुणसुन्दरी
शीला
सुन्द
शीला गुणसुन्दरी
शीला
-
-
www
-
(कर्णे मुखं नीत्वा) स्वामिनि ! भवत्याः प्रियतमः स राहुल आगतोऽस्ति । किं भवती तत्र गमिष्यति उत सोऽत्राऽऽगच्छेत् ?
(कर्णौ पिधाय, संकुध्य) शीले ! नाऽहं राज्ञी पिङ्गला । नाऽहमकुलीना स्त्री । अहं त्वत्तम श्रेष्ठिनः कुलीना वध्वस्मि । अतस्त्वं तमधुनैव प्रतिनिवर्तय । मया मम रोगस्यौषधं प्राप्तमस्ति ।
(साश्चर्यं ) भवत्या को वैद्यराज उपलब्धः ? ( सोपहासं ) हन्त ! मया सहाऽपि वञ्चना । अहमपि न ज्ञापिता खलु ।
असत्यं न वदामि । (मुखमधः कृत्वा) शीले ! श्वशुर एव मे वैद्यराज: । ( कर्णौ पिधाय) भवती किं वदति ?
सत्यमेव वच्मि । न किमपि त्वत्तो गुप्तमस्ति । ममाऽशुभान्यपि सर्वाणि कार्याणि त्वं जानास्येव । शीले ! श्वशुरेण शिक्षितं "कामस्यौषधं कार्यमस्ति । निरुत्साहिनमकिञ्चित्करं च जनं कामदेवो नितरां पीडयति । किन्तु ये जना: सर्वदा कार्यरतास्तेषां जनानां तु स कामदेव एव किङ्करो भवति, इति" । एवं श्वशुरस्याऽऽज्ञानुरूपं कृतं ततश्चित्ते शान्तिः प्रसन्नता च वर्तेते । (सदैन्यं) अधुना त्वेकैव चिन्ताऽस्ति यत् श्वशुरो यदि ज्ञास्यति तदा ( सबाष्पं) किं भविष्यति !
स्वामिनि ! स तु सर्वं जानात्येव ।
(साक्रोशं) किम् ? किम् ? दुष्टे ! विश्वासघातिनि ! त्वयैव कथितम् । त्वादृश्या विश्वासघातिन्याः प्रतिच्छायाऽपि मां पीडयति । ( मुखं परावृत्त्य ) गच्छ, गच्छ । स्वामिनि !.....
६७
Page #83
--------------------------------------------------------------------------
________________
गुणसुन्दरी - (ललाटस्योपरि हस्तमास्फाल्य) शीले ! त्वादृश्येवाऽहमपि विश्वासघाति--
न्यस्मि । 'त्वमपराधी' इति कश्चिदप्यपराधी अन्यं कथं कथयितुं समर्थो । भवति ? ततो मां क्षमस्व । (सोद्वेगं) त्वमिदानीमेव विषमानय । ममी पापभारादेतत् पवित्रं कुलं मोचयेयमहम् । इतः परं भगवत्तुल्यस्य पितुः बी
सन्मुखं न गन्तुं समर्था । अधुना तु मरणमेव शरणम् । शीला - भवती मैवं वादीत् । सर्वं कुशलमेव भविष्यति । गुणसुन्दरी - (हस्ताञ्जलिं कृत्वा सदयं) प्रिये ! म्रियमाणस्य ममाऽऽत्मनः शान्त्यर्थमेकं -
कार्यं करोतु । त्वं सत्वरं तं राहुलं बहिःस्तादेव प्रतिनिवर्तय । तस्मै यत्किमपि देयं तद् दत्त्वा मे कलङ्ककथावर्णनभृतानि सर्वाण्यपि पत्राणि ) प्रतिगृह्णीयाः । तथा च तानि मम मृत्युशय्यायां ज्वालय । (मूच्छिता जाता।) (शीलोपसृत्य शीतोपचारं कृत्वा मस्तके हस्तं प्रसारयति । किञ्चिच्चैतन्यं ।
प्राप्तम् ।) शीला - स्वामिनि ! हृदयस्य शुभभावनया कृतं प्रायश्चित्तं दुष्टानपि पवित्रीकरोति । हा
मया भवत्या विश्वासः खण्डितस्तदपराधस्य प्रायश्चित्तं भगवता यद् दीयते ।
तत्तु करिष्याम्येव । किन्तु..... पीक गुणसुन्दरी - वद, वद, कथं मौनमवलम्बितम् । E शीला - (सहर्ष) स्वामिनि ! प्रेमपत्राणि तथा गृहापणादिकं दायादैः स्वायत्तीकृतम्,
इति सर्वमपि मायायन्त्रमस्ति । श्रेष्ठी तथाऽहमिति द्वावपि जानीवः ।। > गुणसुन्दरी - (साश्चर्य) किं सत्यम् ? शीला - आम् । यदाऽहं तं युवानमाह्वयितुं गता तदैव दैववशात् श्रेष्ठी सन्मुखमागतवान् ।
ससम्भ्रमां मां दृष्ट्वा तेन पृष्टम् । मया सभयं समस्ता वार्ता वर्णिता । तदा मन्मानसे शङ्काऽऽसीद् यत्, श्रेष्ठी कोपं करिष्यति, किन्तु अहो ! तस्यौदार्य ताचातुर्यं दीर्घदर्शिता कुलीनत्वं च । स्वस्थचित्तेन तेन कथितं, "शीले ! अत्र नैष तस्या दोषोऽपि तु यौवनस्य दोषोऽस्ति । रूपं लावण्यं वाक्चातुर्यं चेति शुभ्रगुणादिशोभिते यौवने पतिवियोगः स्यात् तस्मिन् काले यदि कामोन्मादो दी
६८
Page #84
--------------------------------------------------------------------------
________________
न स्यात् तदैवाऽऽश्चर्यम् । ततो यद्वा तद्वा प्रलापेन, क्रोधेन, व्याकुलतया वार चाऽलम् । एतादृश्यां परिस्थित्यां तु धैर्यमेव बलम् । अधुना कोऽप्युपायो । विमर्शनीयो येन तस्या जीवनमपि रक्षितं भवेत् । तथा समाजे कुलस्य गौरवहानिरपिन भवेत्" इति । स्वामिनि ! तत एवैतादृशं मायायन्त्रं वसा
रचितमस्ति। गुणसुन्दरी - (साश्चर्यं) किं वाणिज्यं तथैव प्रचलति, किं गृहमपि तदैवाऽस्ति, कि..... 12 श्रेष्ठी - (एतच्छ्रुत्वा प्रविशन्) तनये ! सत्यं तत् । वाणिज्यं तु यथाऽऽसीत् तथैव
प्रवर्तते । पूर्वमस्माकं यद् गृहमासीत् तदपि तथैव विद्यते । अतश्चिन्तां मा । कुरु । तव पुण्येनैव मे कुलस्य गौरवं माहात्म्यं च वृद्धि गतम् । समाजे ग्रामे च प्रतिष्ठा वृद्धि गता ।
(गुणसुन्दरी शीलाया अङ्के वदनं निक्षिप्य रोदिति ।) ( श्रेष्ठी - तनये ! स्वस्था भव ।
गुणसुन्दरी - पितः ।..... पितः !... (उच्चैरतीवाऽऽक्रन्दते) No श्रेष्ठी - (सस्नेह) तनये ! मा रोदीः । अधुना त्रिलोकपतिमहावीरभगवतो जिनमन्दिरे वार
प्रतिष्ठामहोत्सवः प्रवर्तते । तत्र तव पवित्रहस्ताभ्यामेव प्रतिष्ठा करणीयाऽस्ति,
अत उत्तिष्ठ । श्रिी गुणसुन्दरी - (दीनमनस्का कम्पितकाया रुदती पितुश्चरणयोः पतित्वा) पितः ! क्षाम्यतु बी
भवान् । अहं पापिनी कलङ्किनी कृतघ्ना दुराचारिणी चाऽस्मि । मया भवतो महानपराधः कृतोऽस्ति । अतोऽहमेतादृशमत्युत्तमं कार्यं कर्तुं न योग्या । क्षाम्यतु, क्षाम्यतु । तनये ! नाऽत्र तव दोषः । दुर्दैवात् कदाचिदेतादृशो दुर्विचार उत्पद्यतेऽपि,
किन्त्वेतावन्मात्रेण न जनो दुष्टो दुःशीलश्च भवति । » गुणसुन्दरी - पितः ! भवतो धैर्यमौदार्यं गाम्भीर्यं व्यवहारनैपुण्यं च नितरां प्रशंसनीयमस्ति । -
वस्तुतो भवान् ज्येष्ठेषु ज्येष्ठोऽस्ति । श्रेष्ठी -
(सवात्सल्यं) तनये ! प्रतिकूलपरिस्थितावपि न क्रोधो न चोद्वेगः करणीयः, श्री किन्तु धैर्यमौदार्यं समभावं च धृत्वैव तस्या निवारणार्थं प्रयतितव्यम् । वाला
Rakkukkakakakakakakakakka
श्रेष्ठी
-
६९
Page #85
--------------------------------------------------------------------------
________________
गुणसुन्दरी -
E श्रेष्ठी -
समाजे मानहानिः कुटुम्बे कलङ्कश्च यथा न स्यात् तथैव व्यवहारः करणीयः । - एतदेव ज्येष्ठस्य कर्तव्यमस्ति । अन्यथा यद्यहमेव क्रोधावेशेन यत्किमपि वदेयं कुर्यां च तदा समाजे मम गृहस्य गृहजनस्य चैव मानहानिः स्यात् । श्री तथा कदाचित् स गृहजनः प्राणत्यागमपि कुर्यात् । अतः कुलस्य गौरववर्धने वीतथा कुटुम्बस्य सर्वसभ्यानां चित्तशान्तौ एव मे ज्येष्ठत्वमस्ति । (गद्गद्स्वरेण) भवतैव मे जीवितं रक्षितम्, अतः स उपकारस्तु दुष्प्रतिकार्योऽस्ति । पितः !.... तनये ! मैवं वद । त्वमेव मे कुलरक्षिका देव्यस्ति । तव पुण्यप्रतापेनैव मे कुलस्य गौरवं वृद्धिं गतमस्ति । अतो गतं न शोचनीयम् । (सबाष्पं) तनये! त...न...ये ! उ...त्ति...ष्ठ, उ...त्ति...ष्ठ । (रुदती) पितः ! पि...तः ! (रुदतः पितुश्चरणयोरेव मूच्छिता जाता ।) (तदैव पित्रा द्वारे परदेशादागववान् पुत्रो दृष्टः । तेनाऽपि दीर्घकालानन्तरं पितरं दृष्ट्वाऽऽनन्दाश्रुपातेन पितुः चरणौ प्रक्षालितौ ।)
(पटीक्षेपः)
गुणसुन्दरी
७०
Page #86
--------------------------------------------------------------------------
________________
भिक्षुकः
1.
15
-
मर्म - नर्म
कृपणः किं मूल्यं केशकर्तनस्य ?
नापित:
४० रूप्यकाणि ।
कृपणः
नापितः
कृपणः
नस्योपायसहस्रम्” इति पुस्तकमपि मया लिखितमस्ति ।
सज्जनः तर्हि किमर्थमेवं याचसे खलु ? सहस्रेऽयमप्येक उपायोऽस्ति
भिक्षुकः
किल !
नाऽहं भिक्षुकः, वस्तुतस्तु लेखकोऽस्मि । “वित्तोपार्ज
-
-
-
000000000
श्मश्रुकर्तनस्य (Shaving) किं मूल्यम् ?
२० रूप्यकाणि ।
एवम् ? तर्हि मम शिरसि श्मश्रुकर्तनं करोतु ।
७१
Page #87
--------------------------------------------------------------------------
________________
प्रथमो मद्यपः - अरे ! किमर्थं विद्युद्दीपडस्तम्भं तायसि ? द्वितीयः - किं वदसि रे ! नैष स्तम्भः किन्तु गृहमेतत् । प्रथमः - भवतु, किन्त्विदानीं तु मध्यरात्रिसमयः, सर्वेऽपि
सुप्ताः स्युः । 1 द्वितीयः - नैवं रे ! पश्य, गृहस्य प्रथमतले विद्युद्दीपः प्रज्वल
नास्ति ।
(बालक एको बस्याने प्रविशति ।) चिटिकावितारकः ( -कुत्र गन्तव्यम्। बालकः - शारदामन्दिरविद्यालये ।। चिटिकावितारकः - अस्तु, ७५ पाणिकान् देहि। /.. (बालकः स्वस्यूतमवलोकते, किन्तु तत्र
किमपि न प्राप्नोति, अतः रोदिति) । चि.वि. - किं जातं रे !? बालकः - माता मह्यं पञ्चरूप्यकाणि दत्त
वत्यासीत्, किन्त्विदानीं नाऽत्र स्यूते दृश्यते । भवतु, अलं रोदनेन । विना मूल्यमेव '
चिटिकां गृहाण । बालकः - (रुदन् सन्) शेषाणि सपाद-चत्वारि
रूप्यकाणि !!
चि.वि. - भवत
७२
Page #88
--------------------------------------------------------------------------
________________
-
-
एकस्य जनस्य पालितः श्वा पञ्चत्वं प्राप्तवान् । तेन च तस्य सूद उच्चै रोदनमारब्धवान् । तद् दृष्ट्वा - स्वामी - भो ! किं तस्मिन् तव बहु
प्रेमाऽऽसीत् ? सत्यमेव तव हृदयं
दयापूर्णमस्ति इत्येतेन प्रतिभाति । र सूदः - नैतावदेव स्वामिन् ! किन्तु यदा स
जीवित आसीत् तदा तु पात्राणि मया क्षालयितव्यान्येव नाऽऽसन् । स स्वयमेव तानि लीढ्वा स्वच्छानि करोति स्म ।
AM
जनगणनां कुर्वन् सर्वकाराधिकारी ग्रामस्य । प्रमुखमुक्तवान् - लेखयतु कृपया, भवतो ग्रामे T मृत्योः प्रमाणं कियदस्ति ? इति । प्रमुखः - अन्यत्रेवैवाऽत्राऽप्यस्ति - एकं जनमाश्रित्यैको मृत्युः !
७३
Page #89
--------------------------------------------------------------------------
________________
अध्यापकः - राजु ! किमर्थं त्वं मुखं न क्षालयसि रे ?
अद्य कः प्रातराशस्त्वया कृत इत्यपि तव
मुखं दृष्ट्वा वक्तुं शक्यते । राजुः - यद्येवं तर्हि कथयतु तावत् कः प्रातराशो
मया कृतः ? अध्यापकः - 'भेलपूरी' !
नैव, नैव, असत्यम्, तत्तु मया ह्यो । भुक्तमासीत् ।
राजुः -
पिता - तव कक्ष्यायां को विद्यार्थी अधिकं
श्रमं करोति ? पुत्रः - अहमेव पितः ! पिता – एवं कथम् ? पुत्रः - यदा सर्वेऽपि ह्युपविष्टा भवन्ति तदाऽहं
तूत्थितो भवामि ।
७४
Page #90
--------------------------------------------------------------------------
________________
||श्रीहितोपदेशद्वात्रिंशिका Sale
(प्राकृतविभागः)
आ० विजयपद्मसूरिः ॥ आर्याच्छन्दः ॥ पणमिय थंभणपासं, पासट्टियपासजक्खकयसेवं ॥ गुरुनेमिपायपउमं, हिओवएसं भणेमि मुया ॥१॥ कोऽहं किं मे किच्चं, किं सेसं केरिसा पवित्ती मे ॥ वटुंति के वियारा, केरिसवयणाइ भासेमि ॥२॥ संसारनासगाई, काई सेवेमि कारणाइं हं ॥ अप्पा आयसहावे, वट्टइ किं प्रसहावे वा ॥३॥ जीव ! तए संपत्तो, मणुयभवो दुल्लहो सुरेहिं पि ॥ जं पप्प चेव मोक्खो, लब्भइ पुण्णेहि पुण्णेहिं ॥४॥ तं कुज्जा न पमायं, पमायसंगा विसिट्टगुणहाणी ॥ चउदसपुची वि गया, क्यभूरिभवा निगोयम्मि ॥५॥ मणपज्जवनाणाई, तप्परिहारा लहंति गुणिमणुया ॥ तम्हप्पमत्तभावो, विहरिज्जा काउमप्पहियं ॥६॥ विसयकसाया हेऊ, दुग्गड़गमणम्मि संति तोसहरा ॥ इह पत्तगुणविणासा, अवजसघायाइदुक्खदया ॥७॥ विसयवियारुच्चारा, चउत्थनियम्मि रावणो तिव्वं ॥ दुक्खं पत्तो एवं, अणेगजीवा दुही जाया ॥ रुवे मूढपयंगो, हत्थी फरिसे रसे तहा मच्छो ॥ भमरो गंधे सद्दे, लुद्धो मरणं मिओ पत्तो
७५
Page #91
--------------------------------------------------------------------------
________________
पंचिंदिया अणेगे, कंदप्पनिवाइरागिजीवगणा ॥ मरणंतं घायाई, इह पत्ता परभवे नियं
॥१०॥ एवं णाउं विहिओ, विसयच्चाओ जहप्पसंतिदओ ॥ सिरिमल्लिनेमिजंबू-सामीहिं थूलभद्देणं
॥११॥ सिरिवज्जेणं विजया-विजयसुदंसणमहाबलाईहिं ॥ तह कायन्बो भव्वा !, तुब्भेहिं भद्दभावीहिं ॥१२॥ मणुयभवो विसयाणं, सेवाइ ण मुत्तिसुक्खपज्जंतो ॥ तम्हा विसयच्चाओ, हियओ दीहाउतेयबलो ॥१३॥ किंपागसमा विसया, सच्चसुहं नत्थि तत्थ लेसमवि ॥ जं भासइ तत्थ सुहं, मोहाओ णेव परमत्था ॥१४॥ असुइखणी नारीओ, रागी तासुं जहा तहा धम्मे ॥ जड़ तं रागी होज्जा, नियमा तुह होज्ज मुत्तिपयं ॥१५॥ कोहो दुग्गइजणगो, नाणाइविणासगो पसंतिहरो ॥ तच्चाओ मुत्तिदओ, पसण्णचंदस्स दिटुंता ॥१६॥ माणो हयसुहझाणो, दोसाइ विवड्वणो महादोसो ॥ केवलनाणी जाओ, बाहुबली माणपरिहारा ॥१७॥ इत्थित्तं तिरियत्तं, मायाइ फलं तहेव लोहरस ॥ सप्पाइयतिरियत्तं, निरयगई धम्ममइणासो ॥१८॥ इय गाउं वीसासो, विसयकसायाण णेव कायब्बो ॥ तच्चाया थिरसंती, मुत्ती पत्ता गुणिनरेहिं ॥१९॥ विसयकसायच्चाई, गयसुकुमालो विरागिवरसमणो ॥ मुत्तिं केवलनाणी, दिक्वादियहम्मि संपत्तो ॥२०॥
७६
Page #92
--------------------------------------------------------------------------
________________
उवओगिणो वियारा, कायब्वा, णिप्फला असुहभावा ॥ हेया हियरसिएहिं, तत्तवियारेहिं मणथिज्जं ॥२१॥ निकारणत्तसमए, मोणं सइ कारणे परिमियत्तं ॥ वयणाणं कायव्वं, मोणं मुणिभूसणं परमं ॥२२॥ उवओगिणी पवित्ती, कायव्वा मुत्तिमग्गपोसदया ॥ तब्वइरित्ता हेया, भव्वेहिं भद्ददिठ्ठीहिं
॥२३॥ जस्स वियारा धम्मा, धम्मा भासा हिया मिया सच्चा ॥ धम्माणुगा पवित्ती, सो धण्णो लहइ मुत्तिसुहं ॥२४॥ परनिंदापरिहारो, नियनिंदासवणकोहवइरेगो ॥ नियमलसोहणकालो, सो सोहइ नियजलाईहिं ॥२५॥ न सुमरिअव्वं वेरं, पुव्वं न नवं कयावि कायव्वं ॥ अभओ वेरच्चाई, निवसइ परमाइ संतीए ॥२६॥ मित्ती-पमोय-करुणा-मज्झत्थवियारणा सया कुज्जा ॥ भाविज्ज भावणाओ, अणिच्चसरणाइया सययं ॥२७॥ खमिअव्वं सुहभावा, खमाविअब्बं सुओवएसेणं ॥ खामणखमावणाओ, विमला आराहणा होज्जा ॥२८॥ साहम्मियवच्छलं, कायव्वं जेण तित्थयरनामं ॥ बंधिज्जा दिटुंतो, सिरिसंभवनाहजिणवस्स जगडू-खेमाइनरा, चंदावइवासिणो महासड्ढा ॥ साहम्मियवच्छलं, किच्चा सुगई गया हिययं ॥३०॥ दाणं सीलं च तवं, अनियाणं भावओ सुहविहाणा ॥ कायव्वं विभवो जं, पत्तो तुह होइ जह सहलो ॥३१॥
७७
Page #93
--------------------------------------------------------------------------
________________
वक्खाणं सुयभत्तिं, परोवयारो सभद्दओ णिच् ॥ दंसणसवणं कुज्जा, उवओगि, परं विवज्जिज्जा ॥३२॥ दीणे समुद्धरिज्जा, नियगुणरइनंदणे विहारेणं ॥ मयतण्हापरिहारा, योगवियाररस विलयाओ ॥३३॥ मोक्खसुहं साणुहवो, होज्जा तम्हा सयप्पदिट्ठीए ॥ आराहिज्जा धम्म दुविहं दोसे परिहरिज्जा ॥३४॥ सरखागासक्विमिए(२००५), विक्कमवरिसीयमग्गसिरमासे ॥ मोणेगारसिदियहे, जइणउरीरायनयरम्मि ॥३५॥' तवगच्छगयणदिणयर-गुरुवरसिरिनेमिसूरिसीसेणं ॥ पउमेणाऽऽयरिएणं, हिओवएसाणुगा परमा ॥३६॥ दातिंसिया विरइया, सुहंकरा होज्ज भव्वधम्माणं ॥ पढणायण्णणजोगा, भवियाणुवएसजुग्गाणं શરૂ
'मन्दं निक्षिपते पदानि परितः शब्दं समुद्रीक्षते, नानार्थाहरणं च काङ्क्षति मुदाऽलङ्कारमाकर्षति । आदत्ते सकलं सुवर्णनिचयं घत्ते रसान्तर्गतं, दोषान्वेषणतत्परो विजयते चौरोपमः सत्कविः ॥
(सुभाषितरत्नभाण्डागार:
७८
Page #94
--------------------------------------------------------------------------
________________
(कथा ) रोहगुत्तस्स गाहाखण्डपूरणं
अमृतपटेलः सिरिमंतेहिं तेहिं अरहंतेहिं भगवंतेहिं सव्वदंसीहिं सव्वपासीहिं आरिएहिं आरियदंसीहि । 16 मुणीहिं मुणियतत्तेहिं जगज्जन्तूवकरणत्थजणियपरमत्थसत्थेहिं नायपुत्तेहिं वीरेहिं पवेदिते - सय निरूविते पन्नविते कम्मद्धंसणे कम्मक्खयक्खमे कुसले आरिए मग्गे ठिआ, जे लहुआ वा
गरुआ वा, बाला वा पंडिया वा जे केइ समणा वा समणीओ वा सावया वा सावियाओ
वा, ते सव्वे वि आरियधम्माचरणकलाओ आरिया, सम्मइंसिणो कुसला कुसलगामिणो र मुणिय-सब्भूअ-तत्तसरूवा हवंति । ते जिणुपण्णं जिणपण्णत्तं तत्तं सुणंति, सुणित्ता जाणंति, 9 ७) जाणित्ता पासंति, पासित्ता सद्दहति सद्दहित्ता- जं किंचि काएण करंति, वाएण वदंति, मणेण (0
मन्नति, तं सव्वं सच्चं तच्चं हियं चेव हवेज्जा । तहा अन्नेहितो सिटुं सिट्ठयरं च । तं जहा 902 आयारंगसुत्ते पढमसुयक्खंधे सम्मत्ताभिहाणस्स चउत्थऽज्झयणस्स दुइज्जे उद्देसगे रोहगुत्तमंती
खुड्डगस्स साहुस्स मुहेणं पडिवाएइ - जं अन्नतित्थीआ पावाउगा जं जं वदंति तं तं । अणारिअं असमिक्खिअं एगंतदिट्ठयं ति पावं असरिसं असद्दहणिज्जं च । तस्स कहा जहा
अस्थि वित्थिण्णे वसुंधरामंडले, चंपा णाम नयरी । रायइ य सा गयणे चंदेण जोह 6) व्व, राइणा सीहसेणेण । तस्स सिंहविक्कमस्स निवस्स रोहगुत्तो त्ति मइमंतविक्खातो ।
महासचिवो । सो मज्झत्थो णायं करेइ, मग्गत्थो धम्मं चरइ, सव्वत्थो सव्वस्स सुहावहो 45 हवइ । तह निरवरयं निरवायं अवायभीरूओ संतो सेवइ निरइयारे सत्तोवयारे निरुवमचरियवरिए 6
मुणिवरे, सुणइ सुत्तं, मुणइ अत्थं बहुमन्नइ जिणतत्तं, जाणइ जिणमयसब्भावं, वक्खाणइ9
सियावायं । अओ मेहा वि तस्स मेहाविस्स सच्चासच्चसंतुलाए तुल व्व संजाया । अओ P सव्वया सव्वत्थ मुणियपरमत्थो सो कुसलाए धिसणाए कुसलाणुबंधीए कुसलाणुच्छंदेणं
विहरइ । एगया राया सीहसेणो मणिकिरणगणरंजियदिसिभागे सुवण्णसिंघासणे सुनिसण्णो आसी। पणमियामियसामंत-मंतिपंतिपत्थुअनिअनिअमंतणासवणाभिमुहमुहारविंदो, रज्जकज्जं - करीअ करावीअ संतो संतोसमावहतो कयाइ वि धम्मवियारणं विमंसेइ । तत्थ पत्थावे )
Page #95
--------------------------------------------------------------------------
________________
धम्मत्थवत्थुपत्थुइपरे परतित्थिए नियनियमणब्भिप्पायं च्चिअ सोहणं साहंति । तं जहाएगो एगंततंतमूढचित्तो वदइ- नऽत्थि अप्पा | अन्नो विवदए सो अत्थि चिय किंतु पंचभूतमइओ । पुणरवि एगंतमतगहिलो बालो पलवइ - पंचविसइतत्तेहिं जगमेतं जायं इच्चाइ.... । निवो तं सव्वं सुणेइ, तं सव्वं पसंसेइ, ताहे रोहगुत्तो सड्डो मंती न किमवि वयणं पयासेइ, तुहि चेव चिट्ठइ । ताहे सिंहसेणो निव्विवेगावेगुच्छलंतमोहंधयारो जंप रोहत्तं रे ! धम्मविया पत्थुये तुमए नियगपगब्भपण्णाविलासविलसियं न किंचि भासियं । तयाणि रोहगुत्तो गुत्तमंतो विदितारिहंतमततत्तो निवं नच्चा, धीरगहीरसरेण समुल्लवइकिमिमेहिं पक्खवायगहिलकुडिलवयणेहिं, ? अप्पणो च्चिय धम्मं विमंसिमो | धम्मं अप्पणो च्चिय... नऽन्नस्स । ताहे पुहइवालो बोल्लइ - विमंसेह' त्ति । तो सचिवसेहरो रोहगुत्तो निवं नमंसिय निवेयइ - जइ तुज्झ अणुमई सिया तो हं परतित्थसद्धालू जणे परिक्खामि । ओमिति धरणिधवो आणं देइ । तत्तो मंतिमहंतो चित्तम्मि किमवि परिक्खणत्थं तच्चमत्थं Prodऊण एगो गाहाए चउत्थो पाओ सव्वतित्थिआणं साहुजणाणं पूरणत्थं नगरे उग्घोसाविओ, जहा" "सकुंडलं वा वयणं न वत्ति ॥ १ ॥ " उग्घुट्टं च मंतिजणेहिं नयरजणाणं जं एवं सिलोगपायं जो पूरइ, तं राया सम्माणिस्सइ, जहेच्छियं च दाणं देस्सइ । ताहे तं गाहासकलं गहिऊण सव्वे पावाउगा वि विचितिउं विलग्गा ।
1
सत्तमे य दिणे उग्गए सूरे, समासीणे सिंघासणं सिंघसेणे रायाणे भासुरसुवण्णाभरणभूसिय-गायलयाकंतिजलंतदिगंतराले, पावाउगा वि सव्वे नियनियधीविहवाणुसारं सारं व मन्नमाणा नियगाहद्धसकलस्स पूरणं गहीऊण रायट्ठाणमुवट्ठिया । तेसिं पढमो आहारत्थं सव्वत्थ परिअडंतो भिक्खणवावडमाणसवावारो परिवायगो एगो परिजंपइ भिक्खनिमित्तं पविट्टेणं मएऽज्ज दिट्टं पमयामुहं कमलविसालनेत्तं किंतु वक्खित्तचित्तत्तेण न णायं सुटु, जं तं वयणं सकुंडलं वा न वत्ति । एयमट्ठमेसा गाहा संपूण्णा -
'भिक्खं पविद्वेण मऽज्ज दिट्टं, पमयामुहं कमलविसालनेत्तं । वक्खित्तचित्तेण न सुट्टु णायं' सुकुंडलं वा वयणं न वत्ति ॥१॥
इअ तिपायपूरणेण गाहा संपूरिया । एवं सो न मुणइ जं पमयामुहं सकुंडलं वा कुंडलरहिअं वा अत्थि, जम्हा सो तम्मुहालोयणे वक्खित्तचित्तो आसी, न उण वीयरागत्ताए नारीवयणनिरिक्खणनिरीहो ति ।
-
८०
Page #96
--------------------------------------------------------------------------
________________
अह पुणो तावसो तवकिससरीरो वि आहारहेउं पविट्ठो निदिट्ठे गिहे । तेण वि महिलामुहं निरिक्खियं किंतु वक्खित्तचित्तत्ताए सा पमया कुंडलिणी वा अकुंडलिणी व त्ति निउणं न णायं, तम्हा तावसो वि अविवेगपरवसो एवमुत्तवंतो, जहा
'फलोदएणं मि गिहं पविट्ठो, तत्थासणत्था पमया मि दिट्ठा । वक्खित्तचित्तेण न सुट्टु नायं' सकुंडलं वा वयणं न वत्ति ॥२॥
इहं पि परिवायगो पिव तावसकिवणो विलयावयणं पेक्खइ, अवि न उण निच्छियं तेण जं वयणं केरिसमासि त्ति, जओ तस्स चित्तं तीसे पमयाए अंगुवंगनिरिक्खणे वक्खित्तं आसी एवं रागेण नट्टपण्णाए वक्खत्तिचित्तो आसी, न उणाइं वेरग्गमग्गमज्झत्थो सब्भावसुत्थो
वा ।
तयतरं ततिओ सव्वत्थ खणभंगुरमइओ सुद्धोअणिसिस्सो सीसइ - जं गिहवइविहारे हं पविट्टो, दिट्ठा य जच्चसुवण्णालंकारालंकिया सा उवासगा सुंदरी, किंतु सकुंडलवयणा वा कुंडलविहूणाणणा वत्ति न णायं । जम्हा ताहे हं तीए भूसणाण निरिक्खणे वावडो आसी । तं गाहखंड अखंडीकरेमि, जहा
'मालाविहारंमि मएऽज्ज दिट्ठा, उवासिया कंचणभूसियंगी । वक्खत्तचित्तेण न सु नायं' सकुंडलं वा वयणं न वत्ति ॥ ३ ॥
एवं बुद्धमयाणुसारी मुणी वि वक्खत्तचित्तमेव निमित्तं निदंसेइ, न पुणो भववासणाविरागभावं ।
एवं अन्ने वि परतित्थिगा पावाउगा आगंतूण गाहापूरणं करंति- 'वक्खित्तचित्तेणं चेव नावि वेरग्गेणं'ति । तयाणि जिणमयभावियंतकरणो, सव्वत्थ निरीहो, रागदोसकरणेसु विविएस मज्झत्थो अओ च्चिय सत्थो सत्थमणो वयसा चुल्लओ, मणसा महल्लो एगो जइणमुणी जयमाणो इरियं पेहंतो आगमिऊण नरवरं धम्मलाहेण आसीसं पसंसिऊण गहापूरणं करेइ
'खंतस्स दंतस्स जिइंदिअस्स अज्झप्पजोगे गयमाणसस्स ।
किं मज्झ एएण विचितिएणं', सकुंडलं वा वयणं न वत्ति ॥४॥
सव्वण्णुमग्गलग्गो सो खुड्डुओ वि समणो खंतो दंतो संतो भिक्खटुं गिहवइनिवासं
८१
of Y
९२
९१
Page #97
--------------------------------------------------------------------------
________________
पविसिओ, न उण तेण दिट्ठा कमलविलासनेत्ता, अणंगलेहव्व पमया, कंचणभूसियंगी कावि 9) कामिणी, कित सज्झाअंतो महत्थं सत्थं, महातत्तं सत्तं. झायंतो धम्मं झाणं. निरिक्खंतो /
जुगप्पमाणमद्धाणमाहारं गवेसइ, तम्हा न सो पस्सइ ताहे महिलामुहे कुंडलं अत्थि वा 40 3. नऽत्थि, एवं सव्वण्णुसासणसमणेण कुंडलविसयम्मि खंतिमाइकारणगणं जाणाविअं, न पुणो वक्खित्तचित्तत्तं ।
एयाए गाहाए महीनाहो जिणमुणिस्स खंति-दम-इंदियनिरोह-सज्झायऽज्झप्पठितिकर जोगमतिपमुहं गुणोहं नाऊण जिणसासणं पइ उल्लसियमणो संजाओ ।
एवं जहा रोहगुत्तमंतिणा, तहा अन्नेण वि सव्वण्णु-गुणरंजियमणेण सुजुत्ति " पउंजंतेण समइविहवेण कोइ वि परदसणमणो जणो जिणसासणवच्छलो विहेअव्वो । इमस्स कथाणयस्स मूलंमि आचारनिज्जुत्तीए भणिआ गाहा चेमा
खुड्डगस्स पायसमासं धम्मकहं पि अजंपमाणेणं । छन्नेण अन्नलिंगी परिच्छिया रोहगुत्तेणं ।।
|| आयारनिज्जुत्ति - २२७ ।।
गर्भ वातप्रकोपेन, दौहृदे वाऽपमानिते । भवेत् कुब्जः कुणिः, पङ्ग - मूको मन्मन एव वा ॥
(आचाराङ्गटीका)
८२
Page #98
--------------------------------------------------------------------------
________________ HOToraeo 90 CG02 सामयिकप्रकाशनमिदं न किञ्चिन्मनोरञ्जनकार्यम्। यदि वयं हासकणिकाः काश्चित् प्रकाशयामस्तदा जना वदन्ति, 'मूर्खा यूयम् !' / यदि न ताः प्रकाशयामस्तर्हि वदन्ति, 'अत्यधिकं गम्भीरा यूयम् !!' / अन्येषां कृतीर्यदिन प्रकाशयामस्तदा कथ्यते यद् 'भवन्तः प्रतिभा न सम्मानयन्ति।' यदि च प्रकाशयामस्तदा, 'अस्मिन् सामयिके तु कचवरतुल्या सामग्री प्रकाश्यते' इत्युक्त्वा नासा वक्रीक्रियते / कस्यचिल्लेखकस्य कृति यदि सम्मृज्याम तदा वयमनावश्यकतया क्षतिशोधकाः कथ्यामहे / यदि च तस्याः सम्मार्जनं न कुर्याम तर्हि उपालम्भः प्राप्यते यत् 'सम्पादनं कुर्वन्ति भवन्तो यद्वा स्वपन्ति?' अन्यत्र प्रकाशिताः कृतीर्यदि प्रकाशयामस्तदा ते अस्मान् अलसशेखरतया निन्दन्तः कथयन्ति यद् 'स्वयं लिखितुं नेच्छन्ति भवन्तः / ' यदि च स्वयमेव लिखामस्तहि ते आक्षिपन्ति यत्, 'स्वयंलिखिता सामग्री एव भवद्भयो रोचते' इति। / अथ च कदाचित् कश्चिदेवमपि कथयेद् यद् ‘इयं कृतिरपि भवद्भिरन्यस्मात् सामयिकात् गृहीताऽस्ति !' तदा कथयामः, 'आम् ! अवश्यं गृहीताऽस्ति!!' 0900 (मूलं : 'कुरियर्' सामयिकम्, इंग्लैण्ड्) (गूर्जरानुवादः 'अखण्ड-आनन्द' सामयिके) GORIEGOINGO