SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ द श्रेष्ठी - श्रेष्ठी - निन्दनीयं कार्यं न स्यात्, येन कुलस्य महत्ता कलङ्किता स्यात्, अतोऽहं - गृहकार्यं करिष्याम्येव । (एवं कार्यकरणेन कालं यापयति । अतीव परिश्रमवशाद् निद्राऽपि झटित्यागच्छति। दिनान्यपि सुखेन प्रयान्ति । एकदा गुणसुन्दर्या - बहिर्गमनकालेऽवसरं सम्प्राप्य श्रेष्ठी पुनरागतवान् ।) शीले ! किं गुणसुन्दर्याश्चित्तं परिवर्तितं न वा ? प्रभो ! सम्यक् परावर्तनमस्ति । कार्यव्यस्तत्वात् नाऽन्यत् किमपि स्मरति सा । सानन्दं दिनान्यपि गमयति । __(गुणसुन्दरी गृहं प्रविशति । दूरतस्तां निरीक्ष्य) शीले ! गुणसुन्दर्याः सेवां करोषि न वा ? । Si> गुणसुन्दरी - (गृहान्तः प्रविशन्ती) भवान् चिन्तां मा करोतु । श्रेष्ठी - तनये ! अहं गृहे ज्येष्ठोऽस्मि । अतः चिन्ता तु भवत्येव । त्वं तु जानास्येव तथाऽप्येतद् ज्ञेयं यत्, कदाऽपि सुखं दुःखं वा चिरकालं न तिष्ठति । ) अस्मिन् संसारे कदाचिद् दुःखं कदाचित्तु सुखम्, एतत्तु चक्रनेमिवत् परिवर्तते । कथितं चकश्चैकान्तं सुखमुपगतो दुःखमेकान्ततो वा ?। नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ अतः शोक उद्वेगो वा न करणीयः । सानन्दमापतिता स्थितिः स्वीकरणीया, वा तत्रैव महत्ता कुलीनता च स्तः । (इत्युक्त्वा श्रेष्ठी गच्छति । किञ्चिदने गत्वा पुनः प्रत्यागत्य) तनये ! “अस्मिन् लघौ ग्रामे एको विद्यालयोऽस्ति । तत्र शिक्षितस्य चतुरस्य च कार्यकर्तुरावश्यकताऽस्ति । तत्र श्रीमती गुणसुन्दरी बार तद्विद्यालयस्य प्रांशुपाल(Principal)रूपेण कार्यसञ्चालनं कुर्यात्" इति ग्रामणीरिच्छति । > गुणसुन्दरी - पितः ! भवता कः प्रत्युत्तरो दत्तः ?। I श्रेष्ठी - 'तस्या इच्छाया अनुरूपं करिष्यामि' इति । Jain Education International ६५ For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy