SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ गुणसुन्दरी श्रेष्ठी गुणसुन्दरी श्रेष्ठी सु ग्रामणीः गुणसुन्दरी ग्रामणीः शीला (सहर्षं) पित: ! किं प्रष्टव्यमत्र ? भवतां यादृश्याज्ञा, तदनुरूपमेव करिष्यामि । बाढं बाढम् । तनये ! एतादृक्कार्येण तु समाजे तव प्रतिष्ठा वर्धिष्यते । तेन सहाऽस्माकं कुलस्याऽपि महत्ता वर्धिष्यते । पित: ! भवतः कथनं नितरां सत्यमस्ति । अस्माकं कुलस्य गौरवं कुलीनता च यथा स्यात् तथैव करिष्यामि । समाजे भवतः प्रतिष्ठां वर्धयिष्ये एव । अतो भवान् निश्चिन्ततया कार्यं करोतु । ( श्रेष्ठी गच्छति । किञ्चित्कालानन्तरं ग्रामण्या सह श्रेष्ठी आगच्छति ।) तनये ! एष हरिसिंहो नामाऽस्माकं ग्रामणीरस्ति । Jain Education International नमस्कारः । नमस्कारः । श्रीमति ! भवत्याऽस्माकं विज्ञप्तिस्स्वीकृता । अतो भवत्या उपकारं न कदाऽप्यहं विस्मरिष्यामि | गुणसुन्दरी अस्तु ! अहमभ्यासं करिष्यामि । ग्रामणीः भवतु । पश्चादागमिष्यामि । श्रेष्ठी न हि । एवं मा वादीत् । ग्रामस्योत्कर्षे साहाय्यं करणीयमिति मे कर्तव्यमस्ति । वदतु, तत्र मया किं करणीयम् ? (कागदानि दत्त्वा ) गृह्णातु । एतान्यभ्यसनीयानि । विद्यालयस्योत्कर्षे किमावश्यकं तज्ज्ञात्वाऽस्मभ्यम् "एतत्करणीयम्, एतच्च न करणीय' - मित्याद्यादेशाः कर्तव्या: । (ग्रामणीर्गच्छति) तनये ! प्रथममारोग्यं पश्चादन्यत् करणीयम् । अतो यथास्वास्थ्यं यथाशक्ति च कार्यं करणीयम् । (पटीक्षेपः) सप्तमं दृश्यम् ( गुणसुन्दरी सुखपूर्वकं स्वपिति ।) (सानन्दं धावमाना) आर्ये ! आर्ये ! शुभसमाचारः । ६६ For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy