________________
आस्वादः
चिन्तनधारा
मुनिरत्नकीर्तिविजयः विपत्तौ किं विषादेन, सम्पत्तौ हर्षेण किम् ? ।
भवितव्यं भवत्येव, कर्मणामीदृशी गतिः ॥ सुखं च दुःखं चेति द्वयमप्यनुभवरूपमस्ति, सम्पत्तिविपत्तिश्चेति द्वयं च * हूँ निमित्तभूतमस्ति । स्वरूपं तु यत्किमपि स्यात् किन्तु येन केनाऽपि सुखानुभूतिः स्यात् सा * सम्पत्तिः, येन केनाऽपि च दुःखानुभूतिः स्यात् सा विपत्तिः । एतच्च हर्षविषादादीनां * * सुखदुःखादीनां च चक्रं सततं परिवर्तते । कदाचिद् हर्षः सुखं वाऽनुभूयते कदाचिद् विषादो * दुःखं वा । निमित्तानां परिवर्तनेनाऽनुभवोऽपि परिवर्तते । कस्यचिदागमनं श्रुत्वा विपदागतेवाऽनुभूयते, अन्यस्य चाऽऽगमनेन सुखानुभवो जायते । एवमेव चाऽभिप्रायपरिवर्तने *
निमित्तान्यपि परिवर्तन्ते- अद्य यावद् यानि दुःखनिमित्तान्यनिष्टानि चाऽऽसन् तान्येवाऽन्यदा * सुखनिमित्तानीष्टानि च भवन्ति । यानि च सुखनिमित्तानीष्टानि च कल्पितानि स्युस्तान्येव
दुःखनिमित्तान्यनिष्टानि च जायन्ते । एवमेकत्र कुत्रचिदपि सर्वदा न तुल्यभाव: प्रवर्तते । 21 उक्तं च -
"कश्चिच्छुभोऽपि विषयः परिणामवशात् पुनर्भवत्यशुभः । कश्चिदशुभोऽपि भूत्वा कालेन पुनः शुभीभवति ॥ कारणवशेन यद्यत् प्रयोजनं जायते यथा यत्र । तेन तथा तं विषयं शुभमशुभं वा प्रकल्पयति ॥"
___ इति (प्रशमरतिप्रकरणे श्लो. ४९-५०) 3 परिवर्तनं ह्येतत् संसारस्य शाश्वतमनिवार्यं च सत्यमस्ति । यो नामैतत् परिवर्तनं र सम्यग् जानाति, ज्ञात्वा च तत् स्वीकरोत्यपि स एव हि सुखदुःख-हर्षविषादादिद्वन्द्वादुत्तीर्य हूँ सदाऽऽनन्दानुभूति कर्तुं शक्नोति । तदेव च वास्तवं सुखं खलु !
अत्र च श्लोके द्वन्द्वातीतो भवितुं निर्दिष्टमस्ति । यथा विषादादात्मा रक्षणीयस्तथा । र हर्षादपि रक्षणीय एव । यो हि हर्षकाले संयतो न भवति स विषादेनाऽवश्यमेव पीडितो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org