SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ - पत्रम मुनिधर्मकीर्तिविजयः ___नमो नमः श्रीगुरुनेमिसूरये ।। आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । विहारयात्रा सुखरूपा प्रवर्तते । अत्र सर्वेऽपि गुरुभगवन्तः कुशलाः सन्ति । विहारयात्रया य आनन्दः प्राप्यते स आनन्दस्त्वनिर्वचनीयोऽस्ति । अस्माभिर्मनोभीष्टस्य व्यक्तेर्वस्तुनश्च समागमेनाऽप्यानन्दस्तु प्राप्यते एव किन्तु स क्षणिकः, न तु शाश्वतः । यतः तत्तद्व्यक्तौ तत्तद्वस्तुनि च विनष्टे सति दुःखं भवत्येव खलु । ततो दुःखावसान एव आनन्दोऽस्ति । विहारयात्रायां तु निरन्तरं निसर्गस्य नूतनसौन्दर्यस्य दर्शनेन, अस्मिन्नपि कलियुगे स्वं गौणीकृत्य निःस्वार्थतयैव केवलमन्येषां हितार्थमेव प्रयतमानानां परमश्रद्धावतां - सज्जनानां च समागमेन तथा परिचयमृतेऽप्यातिथ्यभावनासंभृतकोमलहृदयवतां जनानां कि - पुण्यदर्शनेन तु कल्पनातीत आनन्दो जायते । एतादृश आनन्दस्तु देवदेवेन्द्रचक्रवर्त्यादीनामपि । दुर्लभोऽस्ति । यदा यदैतादृश आनन्दोऽनुभूयते तदा तदा न केवलं शारीरिकश्रमोऽपि तु . - मानसिकश्रमोऽप्यस्तङ्गतो भवति । देहे प्रबलं चैतन्यं प्रचण्डोर्जा च प्रादुर्भवति । दैनन्दिनजीवने । - 'किञ्चिन्नूतनं प्राप्तमिव, यथार्थं जीवनं जीवितमिव चे'त्यनुभूयते । अस्मिन् पृथिवीतलेऽस्मादृशाः । या पादचारिण एवाऽस्या आनन्दप्राप्तेः सौभाग्यमवाप्तुमर्हाः सन्ति । 'कार्'यानादिकेऽटतां का पीक कूपदर्दुरसमानां त्वादृशानां वराकाणां नगरजनानां च कृते स्वप्नेऽप्येतादृशस्याऽऽनन्दस्य कल्पनाऽप्यशक्याऽस्ति । तथाऽप्यद्य मया य आनन्दोऽवाप्तः तस्मिन्नानन्दे त्वामपि सहभागिनं * कर्तुमिच्छुकोऽहं किञ्चिद् लिखामि । तमानन्दं संप्राप्य त्वमपि जानीया यद्- आनन्दो न २२ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy