________________ HOToraeo 90 CG02 सामयिकप्रकाशनमिदं न किञ्चिन्मनोरञ्जनकार्यम्। यदि वयं हासकणिकाः काश्चित् प्रकाशयामस्तदा जना वदन्ति, 'मूर्खा यूयम् !' / यदि न ताः प्रकाशयामस्तर्हि वदन्ति, 'अत्यधिकं गम्भीरा यूयम् !!' / अन्येषां कृतीर्यदिन प्रकाशयामस्तदा कथ्यते यद् 'भवन्तः प्रतिभा न सम्मानयन्ति।' यदि च प्रकाशयामस्तदा, 'अस्मिन् सामयिके तु कचवरतुल्या सामग्री प्रकाश्यते' इत्युक्त्वा नासा वक्रीक्रियते / कस्यचिल्लेखकस्य कृति यदि सम्मृज्याम तदा वयमनावश्यकतया क्षतिशोधकाः कथ्यामहे / यदि च तस्याः सम्मार्जनं न कुर्याम तर्हि उपालम्भः प्राप्यते यत् 'सम्पादनं कुर्वन्ति भवन्तो यद्वा स्वपन्ति?' अन्यत्र प्रकाशिताः कृतीर्यदि प्रकाशयामस्तदा ते अस्मान् अलसशेखरतया निन्दन्तः कथयन्ति यद् 'स्वयं लिखितुं नेच्छन्ति भवन्तः / ' यदि च स्वयमेव लिखामस्तहि ते आक्षिपन्ति यत्, 'स्वयंलिखिता सामग्री एव भवद्भयो रोचते' इति। / अथ च कदाचित् कश्चिदेवमपि कथयेद् यद् ‘इयं कृतिरपि भवद्भिरन्यस्मात् सामयिकात् गृहीताऽस्ति !' तदा कथयामः, 'आम् ! अवश्यं गृहीताऽस्ति!!' 0900 (मूलं : 'कुरियर्' सामयिकम्, इंग्लैण्ड्) (गूर्जरानुवादः 'अखण्ड-आनन्द' सामयिके) GORIEGOINGO Jain Education International For Private & Personal Use Only www.jainelibrary.org