SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ___ सर्वेऽप्येवमेव विचारयन्ति यत् 'तथाकथिता महान्तोऽपि उच्चैःपदस्थिता अपि च जना यदि भ्रष्टाचारमनैतिकतां वाऽऽचरन्ति तदाऽस्माभिः किमपराद्धम् ? वयमपि किमर्थं तथा न कुर्याम ?' इति । किन्तु नैषा विचारसरणिोग्या । न चैष किल पन्था उन्नतेः । नहि, नहि, भारतीयत्वं कलयत्येषा विचारसरणिः । महावीरबुद्ध-रामादिमहापुरुषाणां भूमौ किमिदं शोभतेऽपि खलु ? न हि वयं तादृशाः सत्त्वहीनाः, बालिशा वा । कालबलेन यद्यपि मोहाच्छादनं जातं बुद्धेः किन्तु सत्वरमेव तद् विच्छेत्तव्यं सम्यग्ज्ञानेन सम्यगाचरणेन सम्यक्पुरुषार्थेन च । न सामान्या वयं किन्तु ऋषिपुत्रा वयम् । अस्त्यस्माकं पायें नगाधिराजो हिमालयो यः सततमुन्नतिं सत्त्वं च प्रेरयति, अगाधो जलनिधिर्यो गाम्भीर्यं प्रेरयति, विशालं च नभो यदौदार्यं विशालतां च प्रेरयति । प्राणानां संरोधे यथा शारीरिक प्रक्रिया सर्वाऽपि विसंवादिनी जायते तथाऽत्र | नैतिकता अवरुद्धाऽस्ति येन च नित्यमनेके प्रश्नाः समुपस्थिता भवन्ति । अद्याऽनैतिकताया भ्रष्टतायाश्चाऽवधिः प्रवर्तते । न तादृशं किमपि क्षेत्रमस्ति यत्र भ्रष्टताभुजङ्गः फटाटोपं कृत्वोपविष्टो न स्यात् । नैतिकतया सहैव चारित्र्यमपि नष्टमेव । किन्तु नाऽत्र कस्याऽप्येकय द्वयोर्चा दायित्वमस्ति । सर्वैरप्येतद् विचारणीयम्, आत्मनिरीक्षणं वा करणीयम् । प्रजा यदि जागृता भविष्यन्ति तदा नाऽस्ति शासकानां तादृशं सामर्थ्यं यत्ते स्वानाचारान् प्रवर्तयेयुः । प्रजानामरमाकं निःसत्त्वतामवलम्ब्यैव ते तथा प्रवर्तन्ते । अतोऽरमाभिरेव किमपि करणीयमस्ति । प्रजा यदा सत्त्वसम्पन्ना भविष्यन्ति तदैव देशोऽयं समुन्नतेः पथि सञ्चरणं करिष्यति । शीघ्रमेतद् भूयाद् । सर्वेऽपि सुखिनः सन्तु, सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग् भवेत् ॥ इति प्रार्थयामहे । इति शम् । - कीर्तित्रयी | ज्येष्ठशुक्ला पञ्चमी, वि.सं. २०६१ श्रीस्तम्भतीर्थम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy