SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ - S शीला - अहं गच्छेयम् ? गुणसुन्दरी - गच्छ । __ (गच्छन्ती तां पुनराह्वयति) ho गुणसुन्दरी - शीले ! गृहाण । (कण्ठात् सुवर्णाभरणं निष्कास्य तस्मै दत्तवती) शीला - (निराकुर्वती) न, न । स्वामिनि ! भवत्याः सर्वमपि ममैवाऽस्ति । अतः ... । KE गुणसुन्दरी- (मध्ये निरुध्य) यदि न गृह्णीयात्तहि मे जीवितेन शपे । शीला - न हि, एवं मा वादीः । अस्तु । (आभरणं गृहीत्वा गच्छति ।) (पटीक्षेपः) (पञ्चमं दृश्यम् ) (प्रतिदिनं गुप्तरीत्या शीलया पत्राण्युपहारान् च प्रेषयित्वा कालं गमयति । गुणसुन्दरी। नवमदिनमागतम् ।) 12 गुणसुन्दरी - (स्वगतम्) श्वो मम प्रियतम आगमिष्यति तदा मम जीवनकथां वर्णयिष्यामि । - ततोऽहो ! मम जीवनं जन्म च धन्यं भविष्यति । बहोः कालाद् या वेदना मां पीडयति सा दूरीभविष्यति । श्रेष्ठी - (गृहं प्रविशन्) रामदास ! रामदास ! अत्राऽऽगच्छ । रामदासः - जय जिनेन्द्र ! द श्रेष्ठी - त्वं धान्य-भाण्ड-वस्त्रादीन्येकत्र कुरु । गृहस्य सर्वा अपि सामग्रीरत्र स्थापय । (गुणसुन्दरीमाहूय सदैन्यं) तनये ! वाणिज्ये बह्वी हानिर्जाता । यूस दायादा पुनः पुनर्धनं याचन्ते । साम्प्रतमस्माकं समीपे धनं नास्ति । अतस्ते वीस बलात्कारेण गृहमेतत् स्वायत्तं कर्तुं श्वः परश्वो वाऽगमिष्यन्ति, इति ज्ञातं मया । अतस्त्वरितं वस्त्रादीनि सुवर्णाभरणानि च एकत्र कुरु । अद्यैव ग्रामो गमनीयोऽस्ति । पश्य, वस्तुभृतानि शकटानीदानीमेव गमिष्यन्ति । अतस्तैस्सह तर प्रथमं त्वमपि रथेन ग्राम प्रयाहि । ६० For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy