SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ भामती - अस्मादेव कारणादयं कृशकायो वर्तते । येन ज्ञायते यदनेन भोजनं न प्राप्यते । अधुनाऽहमस्य भोजनं पानं च व्यवस्थापयिष्यामि पितः । पिता - त्वं कथं व्यवस्थापयिष्यसि ? तवाऽनेन सह कः सम्बन्धः ? त्वमविवाहिताऽसि पुत्रि ! भामती -- अधुनाऽहं विवाहं करिष्ये । . पिता - केन सह ? भामती - अनेन सह पितः ! पिता - अनेन सह ? यस्य पार्वे न किञ्चिदस्ति । अकिञ्चनोऽयम् । जीर्णानि वासांसि, कानिचित्पुस्तकानि, कर्गजपत्राणि, मषिपात्रं लेखनी च विद्यते, नास्ति धनमस्य। किमनेन निर्धनेन सह विवाहं करिष्यसि ? भामती - आं पितः!, अयं तपस्वी, सदाचारी, गुणी ब्राह्मणोऽस्ति । किमावयोर्धनेन प्रयोजनम् ? बुभुक्षां शमयितुं कन्दमुलफलानि पर्याप्तानि सन्ति । पिता - तस्य पार्वे भक्षयितुं न किञ्चिदस्ति । स त्वां किं खादयिष्यति पुत्रि ? यः १ स्वस्मिन्नवधानरहितोऽस्ति, स त्वयि किं ध्यानं दास्यति ? यः स्वयं बभुक्षितो 9 निवसति, तस्य समीपं गत्वा त्वमपि क्षुधा पीडिता भविष्यसि । शयनाय न खट्वास्थाने कटो विद्यते । तेन सह कथं वत्स्यसि पुत्रि ? भामती - पितः ! मम विवाहो भोगाय नास्ति । समाजे विद्वत्परम्परा जीवेदित्यहं वाञ्छामि । अतस्तस्य मादृशसेविकाया आवश्यकता विद्यते, येन स मनीषी ग्रन्थकर्ता त बुभुक्षया पिपासया च मृत्युं न प्राप्नुयादिति मया तेन सह मनसा विवाहो निर्णीतः । ततो मनीषारक्षायै पुत्र्या भामत्याः साहसमवलोक्य पिता निरुत्तरः पुत्रीविवाहचिन्तया च मुक्तो बभूव । विवाहितया भामत्या निर्वाहार्थमावश्यकसाधनान्येकत्र कृतानि । ज्ञानसाधनानिरतस्य वाचस्पतिमिश्रस्य प्राणा भामत्या स्वसेवया नवीनीकृताः । दीपे तैलं D) निक्षिपन्ती भामती प्रकाशे विलोक्य स्वग्रन्थं विरचयन् वाचस्पतिमिश्रः पप्रच्छ - 'का ७७७७७ Jain Education International .४७ For Private Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy