________________
मार्गानुसारिणः पञ्चत्रिंशद् गुणाः
मुनिरत्नकीर्तिविजयः
मार्गो नाम धर्मः । धर्मो ह्यनिवार्यमङ्गं जीवनस्य । धर्म एव मनुष्यमन्येभ्यः प्राणिभ्यः सकाशात् पृथक् करोति । “धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः" इत्युक्तिः सुज्ञातैवाऽस्माकम् । किन्तु धर्ममार्गस्याऽभिज्ञानमनुसरणं च न तावत् सुकरम् । तत्राऽधिकारः सम्पादनीयो भवति । अधिकारित्वं विना क्रियमाणो धर्मो न | फलति । अतो धर्ममार्गमनुसिसरिषुणा ह्यधिकारित्वसम्पादनाय केचिद् व्यावहारिकगुणा | अनिवार्यतयाऽङ्गीकरणीया भवन्ति । तादृशो गुणिजन एव धर्ममार्गं सम्यगनुसर्तुं प्रभवति । । यो नाम व्यवहार धर्ममेव सम्यग् नाऽभिजानाति न वाऽऽचरितुं शक्नोति स कथं नामाऽऽत्मधर्मं | विजानीयात् समाचरेद् वा ? अतः प्रथमं तावत् स्वकीयं व्यवहारं परिशील्य तत्राऽऽवश्यकानां गुणानां कृते एव प्रयत्नः करणीयः । तदनु चाऽनुसृतो धर्ममार्गः सफलो भवति साध्यं च प्रापयति ।
स्वाध्यायः
तादृशो गुणी मार्गानुसारीत्युच्यते । तस्य पञ्चत्रिंशद् गुणाः कलिकालसर्वज्ञ श्रीमद्हेमचन्द्रसूरिपुङ्गवैर्दर्शिताः सन्ति । तद्यथा
न्यायसम्पन्नविभवः - प्रथमोऽयं गुणो न्यायसम्पन्नता । न्यायसम्पन्नता एव विभवः, यतः साऽऽत्मगौरवं सम्पादयति, चिरस्थायिने च सुखाय भवति । अन्यायोपार्जितो विभवः साधनानि तु कदाचित् समुपलम्भयेदपि, न किन्तु सुखम् । अद्य बहवो जना: सन्ति ये सत्यपि विभवे भयग्रस्ता भयत्रस्ताश्च जीवन्ति । सत्स्वपि सुखसाधनेषु सुखलेशमपि ते नाऽनुभवन्ति । यतोऽन्यायो भयमेव जनयति । अभयं तु न्यायेनैव सम्पद्यते । न्यायेन व्यवहारनैर्मल्यमपि सम्पद्यते । यस्य व्यवहारो निर्मलो नाऽस्ति तस्य धर्म: कथं निर्मलो भवेत् ? अतो न्यायेनैव व्यवहर्तव्यमस्माभिः । स एव समीचीनः
पन्थाः ।
२. शिष्टाचारप्रशंसकः - देश - कालानुरूपं यः सर्वत्र सम्यग् व्यवहरति स शिष्टः ।
Jain Education International
११
For Private & Personal Use Only
www.jainelibrary.org