________________
दुरवस्था विहिता ? तवैतादृशे अत्यन्तमचिन्त्यरूपे विषमे स्वरूपेऽस्माभिः किं कर्तव्यं ? YO कुत्र गन्तव्यं ? कथं च निस्तरीतव्यं जन्म ?....'
एतावता एवंविधैर्विकल्पैर्व्याकुलां तां सहसा तद्भगिन्या विमलाभिधया भणितं-V 'जामे ! अहं नगरान्तर्गत्वा तादृशं कञ्चिदाश्रयं गवेषयामि यत्राऽस्माकं निर्वाहो निवासश्चाऽपि ।
सुखं स्यात् ।' धारिण्योक्तं - 'आम् विमले ! कुरुष्वैतत् ।' ततो विमलाऽपि नगरी प्रविश्य Ko १० यूथभ्रष्टा मृगीव प्रचुरजनसङ्कीर्णेषु मार्गेष्वितस्ततः प्रलोकयन्ती एकस्योत्तुङ्गस्य ध्वजपटाकीर्णस्य हर्म्यस्याऽग्रे समागता । तस्य च प्राङ्गणे एकं मध्यमवयस्कं श्रेष्ठिनं दृष्ट्वा तत्पावें गता
सा पृच्छति स्म 'महोदय ! वयमत्र नगरे निवसितुमिच्छामः । यदि भवानस्माकं कञ्चिदाश्रयं R दर्शयेत् तदा वयं भवतो निश्रायां सुखेन निवसामः ।'
तेन पृष्टं - ‘भद्रे ! भवत्कुटुम्बे कति जना वर्तन्ते ?' 'महोदय ! द्वे भगिन्यौ आवां तथा मम भगिनीसुतश्चेति त्रयो जनाः स्मः ।' ‘एवं तर्हि अस्मिन्नपवरके तिष्ठन्तु । परं भाटकं तु किञ्चिद् दातव्यम् ।'
'भोः ! अस्माकं समीपे तु किमपि नास्ति । किन्तु आवां द्वे भगिन्यौ भवदीयगृहे M कार्यं करिष्यावः । तदेव यदि भाटकरूपेण स्वीकरोति भवान् तथा भोजनव्ययमपि तत एव । मन्यते तदा वयमेतदपवरके निवसितुमागच्छेम ।'
भवतु भद्रे !, भवत्याः कथनं मम सम्मतम् । अद्यैव आगच्छन्तु अत्र' इति । श्रेष्ठिनोक्ते ते त्रयोऽपि तत्राऽऽगता निवस्तुम् । द्वे अपि भगिन्यौ तद्गृहे कर्मनिरते अभवताम् । यतो दुष्पूरोदरदरीपूरणाय यत् कदाऽपि न कृतं तदपि करोति जनः । अपि च, स्वपूर्वकर्मणांक वशंवदा जीवा सुबहुदुःखानां भाजनं भवन्ति । यथैषैव धारिणी महाराज्ञी भूत्वाऽपि परगृहकर्माणि करोति स्म । बहुविधसुखलालिताऽपि च विविधदुःखभाग् जाता । किञ्चाऽत्र कारणं त्विदं प्रतिभाति यद् - दानं ददता यदि चित्तं किञ्चिदपि कलुषितं स्यात् तदा दायक:
परत्र सुखानि भुक्त्वा पश्चाद् दुःखान्यप्यनुभवति । अतोऽस्माभिर्मन:कालुष्यं सर्वथा निरोद्धव्यम् । ॐ सर्वमपि च धर्मकृत्यं सदा विशुद्धचित्ततयैव कर्तव्यमिति । स एवं च श्रेष्ठिगृहकर्मनिरतयोस्तयोः कतिपयदिनानि व्यतीतानि । तावता तेन म Vवणिजाऽन्यदोक्तं धारिण्यै- 'भद्रे ! भवत्याः पुत्र एष सर्वथा निर्व्यवसायोऽस्ति । यदि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org