SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ किं च तस्या दुःखमतिदारुणं स्यात् । नूनं ज्ञातव्यं मया ।' तेन यामिका आहूताः । किन्तु 8 Y, ते सर्वेऽपि निद्राधीना आसन्, अतो न कोऽपि प्रतिशब्दं दत्ते स्म । तदा वत्सराजोऽकथयत्, 6 - 'देव ! आदिशतु यत्कार्यम् ।' राज्ञोक्तं 'किमद्य त्वं न विसृष्टः ?' । 'आम्' इति तेनोक्ते, पण 'अहो ! मम महान् प्रमादो जातः । किन्तु सम्प्रति त्वं स्वस्थानं गच्छ। तथा कञ्चित् प्राहरिकं जागरयित्वाऽऽह्वय येनाऽऽदेशं ददामि ।' अनेनोक्तं, 'स्वामिन् ! सर्वेऽपि ते निर्भरं प्रसुप्ता: सन्ति । अतो यत्किञ्चिदपि कार्यं स्यात्, मह्यमेवाऽऽदिशतु कृपया।' नृपेणोक्तं, 'तानेवोत्थापया भोः ।, मम महत् प्रयोजनं विद्यते ।' 'प्रभो ! मह्यमेव कथयतु तत्प्रयोजनम्' इत्यनेन विज्ञप्तम् । राजोक्तवान्, 'काचित् स्त्री रोदिति दूरे । तस्या दुःखं निवारयितुमिच्छामि ।' वत्सराजेन विज्ञप्तं, 'प्रभो ! सा तु बहु दूरमस्तीति तर्कयेऽहम् । तावद् दूरमेते वराकाः कथं चन गमिष्यन्ति ? कृपया मे एवाऽऽदेशं ददातु, विलम्बं च मा करोतु ।' राज्ञोक्तं, 'याहि त्वं । तहि, भवत्वेवमपि !' । 'महाप्रसादः' इति कथयित्वा नमनं कृत्वा च स राजप्रासादान्निर्गतः। - [अनुवर्तते ।। [श्रीदेवचन्द्रसूरिविरचितप्राकृतभाषामय'सिरिसंतिनाहचरियं'-ग्रन्थात् सङ्कलितैषा कथा । पादयोर्हस्तयोश्चाऽपि, श्लीपदं जायते नृणाम् । कर्णीष्ठनासास्वपि च, कोचिदिच्छन्ति तद्विदः ॥ (आचाराङ्गटीका) 6222 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy