________________
वाचकानां प्रतिभावः
आदरणीये सम्पादिके कीतित्रयि !
जयतु भारती ।
भवत्या सम्पादितस्य नन्दनवनकल्पतरोश्चतुर्दशोऽङ्कः प्राप्तः । तदर्थं साधुवादाऱ्या भवती । अत्र 'सहसा विदधीत न क्रियाम्' नाम ममैकाङ्कनाटकं प्रकाशितम्, तदर्थमहमाभारी । आचार्यविजयहेमचन्द्रसूरिणा कृता भगवदृषभस्तुतिर्दुतविलम्बितवृत्ते रम्या । अभिराजराजेन्द्रमिश्रकृता गलज्जलिका मनोहराः सन्ति । श्रीविजयशीलचन्द्रसूरिणा प्रस्तुता जैनाचार्यश्रीविजयनेमिसूरिविरचिता महाकविकालिदासकृतरघुवंशद्वितीयसर्गस्य त्रिंशश्लोकपर्यन्तं प्राप्ता टीका सारगर्भिता विद्वत्तया च परिपूर्णा विद्यते । मुनिरत्रकीर्तिविजयस्य चिन्तनधारा चिन्तनयोग्या । कथात्रयमपि वरम् । सम्पादकीयं प्रास्ताविकं मननयोग्यमस्ति । अन्या रचना अपि चित्ताकर्षणयुक्ताः सन्ति । अतो नन्दनवनकल्पतरोः प्रकाशनं निरन्तरं समये स्यादित्यहं कामये ।
भवदीयः आचार्यः रामकिशोरमिश्रः २९५/१४, पट्टीरामपुरम
खेकड़ा (बागपत) उत्तरप्रदेशः-२०११०१
।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org