________________
वाचकानां प्रतिभावः
Jain Education International
मान्याः,
रूपनारायणपाण्डेयः
एस्-II / 330, राज्यशिक्षासंस्थानकालोनी, एलनगञ्जः, प्रयाग: (उ.प्र.) - २११००२
सादरं प्रणामाः ।
'नन्दनवनकल्पतरो:' चतुर्दशोऽङ्कोऽधिगतः । 'प्रास्ताविके ' सत्यमुच्यते । आधुनिक समाजे ये दुर्जनाः सन्ति, ते हिंसा हत्यां साहसिकानि च कर्माणि कृत्वा निर्भया विचरन्ति तेषां कृते किमपि विधानं न वर्तते; किन्तु ये साधवः, सज्जनाः सत्कर्मणि च रताः सन्ति, ते जगद्गुरुशङ्कराचार्यसदृशा अपि कारावासे निपीड्यन्ते । वयं पश्यामः कस्मिन्नपि कार्यालये उत्कोचं विना वैधकार्यमपि न सम्पन्नतां याति । विषयेऽस्मिन् सर्वैर्गाम्भीर्येण चिन्तनीयम् । यावत् समाजे सत्यस्य न्यायस्य सदाचारस्य प्रतिष्ठा न स्यात्, तावत् सर्वा समुन्नतिर्वृथैवास्ति । आचार्यश्रीविजयनेमिसूरिविरचिता रघुवंशद्वितीयसर्गटीका वैदुष्योपेता विद्वद्ग्राह्या विद्यते । पूर्वमपि प्रकाशितं नाटकं 'सहसा विदधीत न क्रियाम्' शिक्षाप्रदं रोचकं च वर्तते । एतदर्थं डा. रामकिशोरमिश्रो धन्यवादमर्हति । अन्या अपि रचना रम्याः सांस्कृतिक परम्परां च संवर्धयन्ति । यत्र तत्र सूक्तयो हास्यवचनानि पत्रिकायाः सौन्दर्यं वितन्वन्ति । जयतु संस्कृतं संस्कृतिश्च ।
7
For Private & Personal Use Only
-
www.jainelibrary.org